योगवासिष्ठः/प्रकरणम् ३ (उत्पत्तिप्रकरणम्)/सर्गः ०९२


द्विनवतितमः सर्गः ९२

श्रीवसिष्ठ उवाच ।
इत्युक्तवान्स भगवान्मया कमलसंभवः ।
रघूद्वह पुनः पृष्टो वाक्यमाक्षिप्य भूतपः ।। १
त्वयैव भगवन्प्रोक्ताः शापमन्त्रादिशक्तयः ।
अमोघा इति ता एव कथं मोघाः कृताः पुनः ।। २
शापेन मन्त्रवीर्येण मनोबुद्धीन्द्रियाण्यपि ।
सर्वाण्येव विमूढानि दृष्टानि किल जन्तुषु ।। ३
यथैतौ पवनस्पन्दौ यथा स्नेहतिलौ यथा ।
अभिन्नौ तद्वदेवैतौ मनोदेहौ स एव तत् ।। ४
अथ नास्तीह वा देहः केवलं चेतसैव सः ।
मुधानुभूयते स्वप्नमृगतृष्णाद्विचन्द्रवत् ।। ५
एकनाशे द्वयोरेव नाशोऽत्राभ्युपपद्यते ।
अवश्यं भवितुं मनोनाशे देहपरिक्षयः ।। ६
मनः शापादिभिर्दोषैः कथं नाक्रम्यते प्रभो ।
कथमाक्रम्यते वापि ब्रूहि मे परमेश्वर ।। ७
ब्रह्मोवाच ।
न तदस्तिजगत्कोशे शुभकर्मानुपातिना ।
यत्पौरुषेण शुद्धेन न समासाद्यते जनैः ।। ८
आब्रह्म स्थावरान्तं च सर्वदा सर्वजातयः ।
सर्व एव जगत्यस्मिन्द्विशरीराः शरीरिणः ।। ९
एकं मनःशरीरं तु क्षिप्रकारि सदा चलम् ।

अकिंचित्करमन्यत्तु शरीरं मांसनिर्मितम् ।। १०
तत्र मांसमयः कायः सर्वस्यैव च संगतः ।
सर्वैराक्रम्यते शापैस्तथा विद्यादिसंचयैः ।। ११
मूकप्रायो ह्यशक्तोऽसौ दीनः क्षणविनश्वरः ।
पद्मपत्राम्बुचपलो दैवादिविवशस्थितिः ।। १२
मनोनाम द्वितीयोऽयं कायः कायवतामिह ।
स आयत्तोऽपि नायत्तो भूतानां भुवनत्रये ।। १३
पौरुषं स्वमवष्टभ्य धैर्यमालम्ब्य शाश्वतम् ।
यदि तिष्ठत्यगम्योऽसौ दुःखानां तदनिन्दितः ।। १४
यथा यथासौ यतते मनोदेहो हि देहिनाम् ।
तथा तथासौ भवति स्वनिश्चयफलैकभाक् ।। १५
सफलो मांसदेहस्य न कश्चित्पौरुषक्रमः ।
मनोदेहस्य सफलं सर्वमेव स्वचेष्टितम् ।। १६
पवित्रमनुसंधानं चेतः स्मरति सर्वदा ।
निष्फलास्तत्र शापाद्याः शिलायामिव सायकाः ।।१७
पतत्वम्भसि वह्नौ वा कर्दमे वा शरीरकम् ।
मनो यदनुसंधत्ते तदेवाप्नोति तत्क्षणात् ।। १८
पुरुषातिशयः सर्वः सर्वभावोपमर्दने ।
ददात्यविघ्नेन फलं मनो हि मनसो मुने ।। १९
पौरुषेण बलेनान्तश्चित्तं कृत्वा प्रियामयम् ।
कृत्रिमेन्द्रेण दुःखार्तिर्न दृष्टा सा मनागपि ।। २०
पौरुषेण मनः कृत्वा नीरागं विगतज्वरम् ।
माण्डव्येन जिताः क्लेशाः शूलप्रान्तेऽपितिष्ठता ।। २१
अन्धकूपस्थितेनापि मानसैर्यज्ञसंचयैः ।
ऋषिणा दीर्घतपसा संप्राप्तं वैबुधं पदम् ।। २२
इन्दुपुत्रैर्नरैरेव पुरुषाध्यवसायतः ।
ध्यानेन ब्रह्मता प्राप्ता सा मयापि न खण्ड्यते ।। २३
अन्येऽपि सावधाना ये धीराः सुरमहर्षयः ।
चित्तात्स्वमनुसंधानं न त्यजन्ति मनागपि ।। २४
आधयो व्याधयश्चैव शापाः पापदृशस्तथा ।
न खण्डयन्ति तच्चित्तं पद्मघाताः शिलामिव ।। २५
ये चापि खण्डिताः केचिच्छापाद्यैराधिसायकैः ।
स्वविवेकाक्षमं तेषां मनो मन्ये विपौरुषम् ।। २६
न कदाचन संसारे सावधानमना मनाक् ।
स्वप्नेऽपि कश्चिदृश्ये वा दोषजालैः खिलीकृतः ।। २७
मनसैव मनस्तस्मात्पौरुषेण पुमानिह ।
स्वकमेव स्वकेनैव योजयेत्पावने पथि ।। २८
प्रतिभातं यदेवास्य यथाभूतं भवत्यलम् ।
क्षणादेव मनः पीनं बालवेतालवन्मुने ।। २९
प्रतिभासस्यानुपदं प्राक्तनीं स्थितिमुज्झति ।
कुलालकर्मानुपदं घटो मृत्पिण्डतामिव ।। ३०
प्रतिभासार्थतामेति क्षणादेव मनो मुने ।
स्पन्दमात्रात्मकं वारि यथा तुङ्गतरङ्गताम् ।। ३१
अनुसंधानमात्रेण सूर्यबिम्बेऽपि यामिनीम् ।
मनः पश्यत्यशुद्धाक्षश्चन्द्रबिम्बे द्वितामिव ।। ३२
यत्पश्यति तदेवाशु फलीभूतमिदं मनः ।
सह हर्षविषादाभ्यां भुङ्क्ते तस्मात्तदेव तत् ।। ३३
प्रतिभानुपदं चेतश्चन्द्रेऽप्यग्निशिखाशतम् ।
दृष्ट्वा दाहमवाप्नोति दग्धं च परितप्यते ।। ३४
प्रतिभानुपदं चेतः क्षारेऽपि हि रसायनम् ।
दृष्ट्वा पीत्वा परां तृप्तिं याति वल्गति नृत्यति ।। ३५
प्रतिभानुपदं चेतो व्योमन्यपि महावनम् ।
दृष्ट्वा लुनाति लूत्वा च पुनरारोपयत्यलम् ।। ३६
इत्थं यदेव परिकल्पयतीन्द्रजालं
क्षिप्रं तदेव परिपश्यति तात चेतः ।
नासज्जगन्न च सदित्यवगम्य नूनं
लूनां दृशं विविधभेदवतीं जहीहि ।। ३७
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे मनोमाहात्म्यवर्णनं नाम द्विनवतितमः सर्गः ।। ९२ ।।