योगवासिष्ठः/प्रकरणम् ३ (उत्पत्तिप्रकरणम्)/सर्गः ०९३


त्रिनवतितमः सर्गः ९३

श्रीवसिष्ठ उवाच ।
इति मे भगवता पूर्वमुक्तं तदेतदद्य तुभ्यं कथितम्।। १
तस्मादनाख्यानाद्ब्रह्मणः सर्वतः सर्वमनाख्यान-
मुत्पद्यते स्वयमेव तद्धनतां प्राप्य मनः संपद्यते ।। २
तन्मनस्तन्मात्रकल्पनपूर्वकसन्निवेशं भवति तत-
स्तैजसः पुरुषः संपद्यते सोऽयं ब्रह्मेत्यात्मनि नाम
कृतवान् ।। ३
तेन राम योऽयं परमेष्ठी तन्मनस्तत्त्वं विद्धि ।। ४
समनस्तत्त्वाकारो भगवानब्रह्मा संकल्पमयत्वाद्य-
देव संकल्पयति तदेव पश्यति ।। ५
ततस्तेनेयमविद्या परिकल्पिता अनात्मन्यात्मा-
भिमानमयीति तेन ब्रह्मणा गिरितृणजलधिमयमिदं
क्रमेण जगत्परिकल्पितम् ।। ६
इत्थं क्रमेण ब्रह्मतत्त्वादियमागता सृष्टिरन्यत
एवागतेयमिति लक्ष्यते ।। ७
तस्मात्सर्वपदार्थानां त्रैलोक्योदरवर्तिनाम् ।
उत्पत्तिर्ब्रह्मणो राम तरङ्गाणामिवार्णवात् ।। ८
य एवमनुत्पन्ने जगति या ब्रह्मणश्चिन्मनोरूपिणी
साहंकारे परिकल्प्य ब्रह्म ब्रह्मतामेति ।। ९
यास्त्वन्याश्चिच्छक्तयः सर्वशक्तेरभिन्ना एव
कल्प्यन्ते ।। १०
जगति स्फारतां नीते पितामहरूपेण मनसा
समुल्लसन्ति ।। ११
एते सहस्रशोऽपि परिवर्तमानजीवा उच्यन्ते १२
तेऽभ्युत्थिता एव चिन्नभसो नभसि तन्मात्रैरा-
वलिता गगनपवनान्तर्वर्तिनश्चतुर्दशविधा ये भूत-
जातमध्यतयाभ्यासे तिष्ठन्ति तस्या एव प्राणशक्ति-
द्वारेण प्रविश्य शरीरं स्थावरं जंगमं वापि
बीजतां गच्छन्ति ।। १३
तदनु योनितो जगति जायन्ते तदनु काकताली-
ययोगेनोत्पन्नवासनाप्रवाहानुरूपकर्मफलभागिनो
भवन्ति ।। १४
ततः कर्मरज्जुभिर्वासनावलिताभिर्बद्धशरीरा
भ्रमन्तः प्रोत्पतन्ति च ।। १५
इच्छैवैता भूतजातयः ।। १६
काश्चिज्जनसहस्रान्ताः पतन्ति वनपर्णवत् ।
कर्मवात्या परिभ्रान्ता लुठन्ति गिरिकुक्षिषु ।। १७
अप्रमेयभवाः काश्चिच्चित्सत्ताज्ञानमोहिताः ।
चिरजाता भवन्तीह बहुकल्पशतान्यपि ।। १८
काश्चित्कतिपयातीता मनोरमभवान्तराः ।
विहरन्ति जगत्यस्मिन्शुभकर्मपरायणाः ।। १९
काश्चिद्विज्ञातविज्ञानाः परमेव पदं गताः ।
वातोद्भूताः पयोमध्यं सामुद्रा इव बिन्दवः ।। २०
उत्पत्तिः सर्वजीवानामितीह ब्रह्मणः पदात् ।
आविर्भावतिरोभावभङ्गुरा भवभाविनी ।। २१
वासनाविषवैषम्यवैधुर्यज्वरधारिणी ।
अनन्तसंकटानर्थकार्यसत्कारकारिणी ।। २२
नानादिग्देशकालान्तशैलकन्दरचारिणी ।
रचितोत्तमवैचित्र्यविहिताऽऽसंभ्रमाऽसती ।। २३
एषा जगज्जाङ्गलजीर्णवल्ली
सम्यक्समालोककुठारकृत्ता ।
वल्लीव विक्षुब्धमनःशरीरा
भूयो न संरोहति रामभद्र ।। २४
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे उत्पत्तिदर्शनं नाम त्रिनवतितमः सर्गः ।। ९३ ।।