योगवासिष्ठः/प्रकरणम् ३ (उत्पत्तिप्रकरणम्)/सर्गः ०९४


चतुर्नवतितमः सर्गः ९४

श्रीवसिष्ठ उवाच ।
उत्तमाधममध्यानां पदार्थानामितस्ततः ।
उत्पत्तीनां विभागोऽयं श्रृणु वक्ष्यामि राघव ।। १
इदं प्रथमतोत्पन्नो योऽस्मिन्नेव हि जन्मनि ।
इदंप्रथमतानाम्नी शुभाभ्याससमुद्भवा ।। २
शुभलोकाश्रया सा च शुभकार्यानुबन्धिनी ।
सा चेद्विचित्रसंसारवासनाव्यवहारिणी ।। ३
भवैः कतिपयैर्मोक्षमित्युक्ता गुणपीवरी ।
तादृक्फलप्रदानैककार्याकार्यानुमानदा ।। ४
तेन राम ससत्त्वेति प्रोच्यते सा कृतात्मभिः ।
अथ चेच्चित्रसंसारवासनाव्यवहारिणी ।। ५
अत्यन्तकलुषा जन्मसहस्रैर्ज्ञानभागिनी ।
तादृक्फलप्रदानैकधर्माधर्मानुमानदा ।। ६
असावधमसत्त्वेति तेन साधुभिरुच्यते ।
सैव संख्यातिगानन्तजन्मवृन्दादनन्तरम् ।। ७
संदिग्धमोक्षा यदि तत्प्रोच्यतेऽत्यन्ततामसी ।
अनद्यतनजन्मा तु जातिस्तादृशकारिणी ।। ८
योत्पत्तिर्मध्यमा पुंसो राम द्वित्रिभवान्तरा ।
तादृक्कार्या तु सा लोके राजसी राजसत्तम ।। ९
अविप्रकृष्टजन्मापि सोच्यते कृतबुद्धिभिः ।
सा हि तन्मृतिमात्रेण मोक्षयोग्या मुमुक्षुभिः ।। १०
तादृक्कार्यानुमानेन प्रोक्ता राजससात्त्विकी ।
सैव चेदितरैरल्पैर्जन्मभिर्मोक्षभागिनी ।। ११
तत्तादृशी हि सा तज्ज्ञैः प्रोक्ता राजसराजसी ।
सैव जन्मशतैर्मोक्षभागिनी चेच्चिरैषिणी ।। १२
त्वदुक्ता तादृगारम्भा सद्भी राजसतामसी ।
सैव संदिग्धमोक्षा चेत्सहस्रैरपि जन्मनाम् ।। १३
तदुक्ता तादृशारम्भा राजसात्यन्ततामसी ।
भुक्तजन्मसहस्रा तु योत्पत्तिर्ब्रह्मणो नृणाम् ।। १४
चिरमोक्षा हि कथिता तामसी सा महर्षिभिः ।
तज्जन्मनैव मोक्षस्य भागिनी चेत्तदुच्यते ।। १५
तज्ज्ञैस्तामससत्त्वेति तादृशारम्भशालिनी ।
भवैः कतिपयैर्मोक्षभागिनी चेत्तदुच्यते ।। १६
तमोराजसरूपेति तादृशैर्गुणबृंहितैः ।
पूर्वजन्मसहस्राढ्या पुरोजन्मशतैरपि ।। १७
मोक्षायोग्या ततः प्रोक्ता तज्ज्ञैस्तामसतामसी ।
पूर्वं तु जन्मलक्षाढ्या जन्मलक्षैः पुरोऽपि चेत् ।। १८
संदिग्धमोक्षा तदसौ प्रोच्यतेऽत्यन्ततामसी ।
सर्वा एताः समायान्ति ब्रह्मणो भूतजातयः ।। १९
किंचित्त्प्रचलिता भोगात्पयोराशेरिवोर्मयः ।
सर्वा एव विनिष्क्रान्ता ब्रह्मणो जीवराशयः ।। २०
स्वतेजःस्पन्दिताभोगाद्दीपादिव मरीचयः ।
सर्वा एव समुत्पन्ना ब्रह्मणो भूतपङ्क्तयः ।। २१
स्वमरीचिबलोद्भूता ज्वलिताग्नेः कणा इव ।
सर्वा एवोत्थितास्तस्माद्ब्रह्मणो जीवराशयः ।। २२
मन्दारमञ्जरीरूपाश्चन्द्रबिम्बादिवांशवः ।
सर्वा एव समुत्पन्ना ब्रह्मणो दृश्यदृष्टयः ।। २३
यथा विटपिनश्चित्रास्तद्रूपा विटपश्रियः ।
सर्वा एव समुत्पन्ना ब्रह्मणो जीवपङ्क्तयः ।। २४
कटकाङ्गदकेयूरयुक्तयः कनकादिव ।
सर्वा एवोत्थिता राम ब्रह्मणो जीवराशयः ।। २५
निर्झरादमलोद्योतात्पयसामिव बिन्दवः ।
अजस्यैवाखिला राम भूतसंततिकल्पनाः ।। २६
आकाशस्य घटस्थालीरन्ध्राकाशादयो यथा ।
सर्वा एवोत्थिता लोककलना ब्रह्मणः पदात् ।। २७
सीकरावर्तलहरीबिन्दवः पयसो यथा ।
सर्वा एवोत्थिता राम ब्रह्मणो दृश्यदृष्टयः ।। २८
मृगतृष्णातरङ्गिण्यो यथा भास्करतेजसः ।
सर्वा दृश्यदृशो द्रष्टुर्व्यतिरिक्ता न रूपतः ।। २९
शीतरश्मेरित ज्योत्स्ना स्वालोक इव तेजसः ।
एवमेता हि भूतानां जातयो विविधाश्च याः ।। ३०
यस्मादेव समायान्ति तस्मिन्नेव विशन्ति च ।
काश्चिज्जन्मसहस्रान्ते जातयश्चिरकालिकाः ।
काश्चित्कतिपयातीतजन्मरूपा व्यवस्थिताः ।। ३१
इत्थं जगत्सु विविधेषु विचित्ररूपा-
स्तस्येच्छया भगवतो व्यवहारवत्यः ।
आयान्ति यान्ति निपतन्ति तथोत्पतन्ति
रूपश्रियः कणघटा इव पावकोत्थाः ।। ३२

इत्यार्षे श्रीवासिष्ठमहारामायणे मोक्षोपायेषूत्पत्तिप्रकरणे ब्रह्मणः सर्वमुत्पद्यत इति कथनं नाम चतुर्नवतितमः सर्गः ।। ९४ ।।