योगवासिष्ठः/प्रकरणम् ३ (उत्पत्तिप्रकरणम्)/सर्गः ०९५

श्रीवसिष्ठ उवाच ।
अभिन्नौ कर्मकर्तारौ सममेव परात्पदात् ।
स्वयं प्रकटतां यातौ पुष्पामोदौ तरोरिव ।। १
सर्वसंकल्पनामुक्ते जीवा ब्रह्मणि निर्मले ।
स्फुरन्ति वितते व्योम्नि नीलिमेवाज्ञचक्षुषः ।। २
अप्रबुद्धजनाचारो यत्र राघव दृश्यते ।
तत्र ब्रह्मण उत्पन्ना जीवा इत्युक्तयः स्थिताः ।। ३
संप्रबुद्धजनाचारे वक्तुमेतन्न शोभनम् ।
यद्ब्रह्मण इदं जातं न जातं चेति राघव ।। ४
काचिद्वा कलना यावन्न नीता राघव प्रथाम् ।
उपदेश्योपदेशश्रीस्तावल्लोके न शोभते ।। ५
अतो भेददृशा दीनामङ्गीकृत्योपदिश्यते ।
ब्रह्मेदमेते जीवा वै वेति वाचामयं क्रमः ।। ६
इति दृष्टो निरासङ्गाद्ब्रह्मणो जायते जगत् ।
तज्जं तदेव तद्धेतुगतं दुरवबोधतः ।। ७
मेरुमन्दरसंकाशा बहवो जीवराशयः ।
उत्पत्योत्पत्य संलीनास्तस्मिन्नेव परे पदे ।। ८
अथानन्ताः स्फुरन्त्येते जायमानाः सहस्रशः ।
नानाककुब्निकुञ्जेषु पादपेष्विव पल्लवाः ।। ९
जीवौघाश्चोद्भविष्यन्ति मधाविव नवाङ्कुराः ।
तत्रैव लयमेष्यन्ति ग्रीष्मे मधुरसा इव ।। १०
तिष्ठन्त्यजस्रं कालेषु त एवान्ये च भूरिशः ।
जायन्ते च प्रलीयन्ते परस्मिञ्जीवराशयः ।। ११
पुष्पामोदाविवाभिन्नौ पुमान्कर्म च राघव ।
परमेशात्समायाते तत्रैव विशतः शनैः ।। १२
दृष्टमेते जगत्यस्मिन्दैत्योरगनरामराः ।
उद्भवन्त्यभवा भावैः प्रस्फुरन्ति पुनः पुनः ।। १३
हेतुर्विहरणे तेषामात्मविस्मरणादृते ।
न कश्चिल्लक्ष्यते साधो जन्मान्तरफलप्रदः ।। १४
श्रीराम उवाच ।
अविसंवादिनार्थे यद्यत्प्रामाणिकदृष्टिभिः ।
वीतरागैर्विनिर्णीतं तच्छास्त्रमिति कथ्यते ।। ३५
महासत्त्वगुणोपेता ये धीराः समदृष्टयः ।
अनिर्देश्यकलोपेताः साधवस्त उदाहृताः ।। १६
द्वयं हि दृष्टिर्बालानां सिद्धये सर्वकर्मणाम् ।
साधुवृत्तं तथा शास्त्रं सर्वदैवानुवर्तते ।। १७
साधुसंव्यवहारार्थं शास्त्रं यो नानुवर्तते ।
बहिःकुर्वन्ति तं सर्वे स च दुःखे निमज्जति ।। १८
इह लोके च वेदे च श्रुतिरित्थं सदा प्रभो ।
यथा कर्म च कर्ता च पर्यायेणेह संगतौ ।। १९
कर्मणा क्रियते कर्ता कर्त्रा कर्म प्रणीयते ।
बीजाङ्कुरादिवन्न्यायो लोकवेदोक्त एव सः ।। २०
कर्मणो जायते जन्तुर्बीजादिव नवाङ्कुरः ।
जन्तोः प्रजायते कर्म पुनर्बीजमिवाङ्कुरात् ।। २१
यया वासनया जन्तुर्नीयते भवपञ्जरे ।
तद्वासनानुरूपेण फलं समनुभूयते ।। २२
एवं स्थिते कथं नाम जन्मबीजेन कर्मणा ।
विनोत्पत्तिस्त्वया प्रोक्ता भूतानां ब्रह्मणः पदात् ।।२३
पक्षेणानेन भगवन्भवता जन्मकर्मणोः ।
तिरस्कृता जगज्जाता साऽविनाभावितैतयोः ।। २४
ब्रह्मण्यकारणे ब्रह्मन्ब्रह्मादिषु फलेषु च ।
कर्मणां फलमस्तीति द्वयं लोके प्रमार्जितम् ।। २५
संजाते संकरे लोके कर्मस्वफलदायिषु ।
मात्स्यन्याये विलसति नाश एवावशिष्यते ।। २६
किं तत्कृतं भवत्येव भगवन्ब्रूहि तत्त्वतः ।
एनं मे संशयं स्फारं छिन्धि वेद्यविदांवर ।। २७
श्रीवसिष्ठ उवाच ।
साधु राघव पृष्टोऽस्मि त्वया प्रश्नमिमं शुभम् ।
शृणु वक्ष्यामि ते येन भृशं ज्ञानोदयो भवेत् ।। २८
मानसोऽयं समुन्मेषः कलाकलनरूपतः ।
एतत्तत्कर्मणां बीजं फलमस्यैव विद्यते ।। २९
यदैव हि मनस्तत्त्वमुत्थितं ब्रह्मणः पदात् ।
तदैव कर्म जन्तूनां जीवो देहतया स्थितः ।। ३०
कुसुमाशययोर्भेदो न यथा भिन्नयोरिह ।
तथैव कर्ममनसोर्भेदो नास्त्यविभिन्नयोः ।। ३१
क्रियास्पन्दो जगत्यस्मिन्कर्मेति कथितो बुधैः ।
पूर्वं तस्य मनो देहं कर्मातश्चित्तमेव हि ।। ३२
न स शैलो न तद्व्योम न सोऽब्धिश्च न विष्टपम् ।
अस्ति यत्र फलं नास्ति कृतानामात्मकर्मणाम् ।। ३३
ऐहिकं प्राक्तनं वापि कर्म यद्रचितं स्फुरत् ।
पौरुषोऽसौ परो यत्नो न कदाचन निष्फलः ।। ३४
कृष्णतासंक्षये यद्वत्क्षीयते कज्जलं स्वयम् ।
स्पन्दात्मकर्मविगमे तद्वत्प्रक्षीयते मनः ।। ३५
कर्मनाशे मनोनाशो मनोनाशो ह्यकर्मता ।
मुक्तस्यैव भवत्येव नामुक्तस्य कदाचन ।। ३६
वह्न्यौष्णयोरिव सदा श्लिष्टयोश्चित्तकर्मणोः ।
द्वयोरेकतराभावे द्वयमेव विलीयते ।। ३७
चित्तं सदा स्पन्दविलासमेत्य स्पन्दैकरूपं ननु कर्मविद्धि ।
कर्माथ चित्तं किल धर्मकर्मपदं गते राम परस्परेण ।। ३८
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० उ० कर्मपुरुषयोरैक्यप्रतिपादनं नाम पञ्चनवतितमः सर्गः ।। ९५ ।।