योगवासिष्ठः/प्रकरणम् ३ (उत्पत्तिप्रकरणम्)/सर्गः ०९७


सप्तनवतितमः सर्गः ९७
श्रीराम उवाच ।
ब्रह्मन्मनस एवेदमन्तश्चाडम्बरं सृतम् ।
यतस्तदेव कर्मेति वाक्यार्थादुपलभ्यते ।। १
श्रीवसिष्ठ उवाच ।
दृढभावोपरक्तेन मनसैवोररीकृतम् ।
मरुचण्डातपेनेव भास्वरावरणं पुनः ।। २
ब्रह्मात्मनि जगत्यस्मिन्मन एकाकृतिं गतम् ।
क्वचिन्नरतया रूढं क्वचित्सुरतयोत्थितम् ।। ३
क्वचिद्दैत्यतयोल्लासि क्वचिद्यक्षतयोदितम् ।
क्वचिद्गन्धर्वतां प्राप्तं क्वचित्किन्नररूपि च ।। ४
नानाचारनभोभागपुरपत्तनरूपया ।
मन्ये विततयाकृत्या मन एव विजृम्भते ।। ५
एवं स्थिते शरीरौघस्तृणकाष्ठलतोपमः ।
तद्विचारणया कोऽर्थो विचार्यं मन एव नः ।। ६
तेनेदं सर्वमाभोगि जगदित्याकुलं ततम् ।
मन्ये तद्व्यतिरेकेण परमात्मैव शिष्यते ।। ७
आत्मा सर्वपदातीतः सर्वगः सर्वसंश्रयः ।
तत्प्रसादेन संसारे मनो धावति वल्गति ।। ८
मनो मन्ये मनः कर्म तच्छरीरेषु कारणम् ।
जायते म्रियते तद्धि नात्मनीदृग्विधा गुणाः ।। ९
मन एव विचारेण मन्ये विलयमेष्यति ।
मनोविलयमात्रेण ततः श्रेयो भविष्यति ।। १०
मनोनाम्नि परिक्षीणे कर्मण्याहितसंभ्रमे ।
मुक्त इत्युच्यते जन्तुः पुनर्नाम न जायते ।। ११
श्रीराम उवाच ।
भगवन्भवता प्रोक्ता जातयस्त्रिविधा नृणाम् ।
प्रथमं कारणं तासां मनः सदसदात्मकम् ।। १२
तत्कथं शुद्धचिन्नाम्नस्तत्त्वाद्बुद्धिविवर्जितात् ।
उत्थितं स्फारतां यातं जगच्चित्रकरं मनः ।। १३
श्रीवसिष्ठ उवाच ।
आकाशा हि त्रयो राम विद्यन्ते विततान्तराः ।
चित्ताकाशश्चिदाकाशो भूताकाशस्तृतीयकः ।। १४
एते हि सर्वसामान्याः सर्वत्रैव व्यवस्थिताः ।
शुद्धचित्तत्वशक्त्या तु लब्धसत्तात्मतां गताः ।। १५
सबाह्याभ्यन्तरस्थो यः सत्तासत्तावबोधकः ।
व्यापी समस्तभूतानां चिदाकाशः स उच्यते ।। १६
सर्वभूतहितः श्रेष्ठो यः कालकलनात्मकः ।
येनेदमाततं सर्वं चित्ताकाशः स उच्यते ।। १७
दशदिङ्मण्डलाभोगैरव्युच्छिन्नवपुर्हि यः ।
भूतात्मासौ य आकाशः पवनाब्दादिसंश्रयः ।। १८
आकाशचित्ताकाशौ द्वौ चिदाकाशबलोद्भवौ ।
चित्कारणं हि सर्वस्य कार्यौघस्य दिनं यथा ।। १९
जडोऽस्मि न जडोऽस्मीति निश्चयो मलिनश्चितः ।
यस्तदेव मनो विद्धि तेनाकाशादि भाव्यते ।। २०
अप्रबुद्धात्मविषयमाकाशत्रयकल्पनम् ।
कल्प्यते उपदेशार्थं प्रबुद्धविषयं न तु ।। २१
एकमेव परं ब्रह्म सर्व सर्वावपूरकूम् ।
प्रबुद्धविषयं नित्यं कलाकलनवर्जितम् ।। २२
द्वैताद्वैतसमुद्भेदैर्वाक्यसंदर्भगर्भितैः ।
उपदेश्यत एवाज्ञो न प्रबुद्धः कथंचन ।। २३
यावद्रामाप्रबुद्धस्त्वमाकाशत्रयकल्पना ।
तावदेवावबोधार्थं मया त्वमुपदिश्यसे ।। २४
आकाशचित्ताकाशाद्याश्चिदाकाशकलङ्कितात् ।
प्रसूता दावदहनाद्यथा मरुमरीचयः ।। २५
चिनोति मलिनं रूपं चित्ततां समुपागतम् ।
त्रिजगन्तीन्द्रजालानि रचयत्याकुलात्मकम् ।। २६
चित्तत्वमस्य मलिनस्य चिदात्मकस्य
तत्त्वस्य दृश्यत इदं ननु बोधहीनैः ।
शुक्तौ यथा रजतता नतु बोधवद्भि-
र्मौर्ख्येण बन्ध इह बोधबलेन मोक्षः ।। २७
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मो० उत्पत्तिप्रकरणे चिदाकाशमाहात्म्यं नाम सप्तनवतितमः सर्गः ।। ९७ ।।