योगवासिष्ठः/प्रकरणम् ३ (उत्पत्तिप्रकरणम्)/सर्गः ०९८


अष्टनवतितमः सर्गः ९८
श्रीवसिष्ठ उवाच ।
यतःकुतश्चिदुत्पन्नं चित्तं यत्किंचिदेव हि ।
नित्यमात्मविमोक्षाय योजयेद्यत्नतोऽनघ ।। १
संयोजितं परे चित्तं शुद्धं निर्वासनं भवेत् ।
ततस्तु कल्पनाशून्यमात्मतां याति राघव ।। २
चित्तायत्तमिदं सर्वं जगत्स्थिरचरात्मकम् ।
चित्ताधीनवतो राम बन्धमोक्षावपि स्फुटम् ।। ३
अत्रार्थे कथ्यमानं मे चित्ताख्यानमनुत्तमम् ।
ब्रह्मणा यत्पुरा प्रोक्तं श्रृणु रामातियत्नतः ।। ४
अस्ति रामाटवी स्फारा शून्याशान्तातिभीषणा ।
योजनानां शतं यस्यां लक्ष्यते कणमात्रकम् ।। ५
तस्यामेको हि पुरुषः सहस्रकरलोचनः ।
पर्याकुलमतिर्भीमः संस्थितो वितताकृतिः ।। ६
स सहस्रेण बाहूनामादाय परिघान्बहून् ।
प्रहरत्यात्मनः पृष्ठे स्वात्मनैव पलायते ।। ७
दृढप्रहारैः प्रहरन्स्वयमेवात्मनात्मनि ।
प्रविद्रवति भीतात्मा स योजनशतान्यपि ।। ८
क्रन्दन्पलायमानोऽसौ गत्वा दूरमितस्ततः ।
श्रमवान्विवशाकारो विशीर्णचरणाङ्गकः ।। ९
पतितोऽवश एवाशु महत्यन्धोऽन्धकूपके ।
कृष्णरात्रितमोभीमे नभोगम्भीरकोटरे ।। १०
ततः कालेन बहुना सोऽन्धकूपात्समुत्थितः ।
पुनः प्रहारैः प्रहरन्विद्रवत्यात्मनात्मनः ।। ११
पुनर्दूरतरं गत्वा करञ्जवनगुल्मकम् ।
प्रविष्टः कण्टकव्याप्तं शलभः पावकं यथा ।। १२
तस्मात्करञ्जगहनाद्विनिःसृत्य क्षणादिव ।
पुनः प्रहारैः प्रहरन्विद्रवत्यात्मनात्मनः ।। १३
पुनर्दूरतरं गत्वा शशाङ्ककरशीतलम् ।
कदलीकाननं कान्तं संप्रविष्टो हसन्निव ।। १४
कदलीखण्डकात्तस्माद्विनिःसृत्य क्षणात्पुनः ।
स्वयं प्रहारैः प्रहरन्विद्रवत्यात्मनात्मनि ।। १५
पुनर्दूरतरं गत्वा तमेवान्धोऽन्धकूपकम् ।
स संप्रविष्टस्त्वरया विशीर्णावयवाकृतिः ।। १६
अन्धकूपात्समुत्थाय प्रविष्टः कदलीवनम् ।
कदलीकाननाच्छ्वभ्रं करञ्जवनगुल्मकम् ।। १७
करञ्जकाननात्कूपं कूपाद्रम्भावनान्तरम् ।
प्रविशन्प्रहरंश्चैव स्वयमात्मनि संस्थितः ।। १८
एवंरूपनिजाचारः सोऽवलोक्य चिरं मया ।
अवष्टभ्य बलादेव मुहूर्तं रोधितः पथि ।। १९
पृष्टः स कस्त्वं किमिदं केनार्थेन करोषि वा ।
किं नामाभिमतं तेऽत्र किं मुधा परिमुह्यसि ।। २०
इति पृष्टेन कथितं तेन मे रघुनन्दन ।
नाहं कश्चिन्न चैवेदं मुने किंचित्करोम्यहम् ।। २१
त्वयाहमवभग्नोऽस्मि त्वं मे शत्रुरहो वत।
त्वया दृष्टोऽस्मि नष्टोऽस्मि दुःखाय च सुखाय च ।।२२
इत्युक्त्वा विक्लवान्यङ्गान्यालोक्य स्वान्यतुष्टिमान् ।
रुरोदातिरवं दीनो मेघो वर्षन्निवाटवीम् ।। २३
क्षणमात्रेण तत्रासावुपसंहृत्य रोदनम् ।
स्वान्यङ्गानि समालोक्य जहास च ननाद च ।। २४
अथाट्टहासपर्यन्ते स पुमान्पुरतो मम ।
क्रमेण तानि तत्याज स्वान्यङ्गानि समंततः ।। २५
प्रथमं पतितं तस्य शिरः परमदारुणम् ।
ततस्ते बाहवः पश्चाद्वक्षस्तदनु चोदरम् ।। २६
अथ क्षणेन स पुमांस्तान्यङ्गानि यथाक्रमम् ।
संत्यज्य नियतेः शक्त्या क्वापि गन्तुमुपस्थितः ।। २७
दृष्टवानहमेकान्ते पुनरन्यं तथा नरम् ।
सोऽपि प्रहारान्परितः प्रयच्छन्स्वयमात्मनि ।। २८
बाहुभिः पीवराकारैः स्वयमेव पलायते ।
कूपे पतति कूपात्तु समुत्थायाभिधावति ।। २९
पुनः पतति कुण्डेऽन्तः पुनरार्तः पलायते ।
पुनः प्रविशति श्वभ्रं क्षणं शिशिरकाननम् ।। ३०
कष्टं पुनःपुनस्तुष्टः पुनः प्रहरति स्वयम् ।
एवंप्रायनिजाचारश्चिरमालोक्य सस्मयम् ।। ३१
स मया समवष्टभ्य परिपृष्टस्तथैव हि ।
तेनैवासौ क्रमेणाद्य रुदित्वा संप्रहस्य च ।। ३२
अङ्गैर्विशीर्णतामेत्य ययावलमलक्ष्यताम् ।
विचार्य नियतेः शक्तिं ततो गन्तुमुपस्थितः ।। ३३
दृष्टवानहमेकान्ते पुनरन्यं तथा नरम् ।
प्रहरंस्तद्वदेवासौ स्वयमेव पलायते ।। ३४
पलायमानः पतितो महत्यन्धेऽन्धकूपके ।
तत्राहं सुचिरं कालमवसं तत्प्रतीक्षकः ।। ३५
यावत्स सुचिरेणापि कूपान्नाभ्युदितः शठः ।
अथाहमुत्थितो गन्तुं दृष्टवान्पुरुषं पुनः ।। ३६
तादृशं तादृशाकारं प्रपतन्तं तथैव च ।
अवष्टभ्य तथैवाशु तस्य प्रोक्तं पुनर्मया ।। ३७
तथैवोत्पलपत्राक्ष नासौ तदवबुद्धवान् ।
केवलं मामसौ मूढो नैव जानासि किंचन ।। ३८
आः पाप दुर्द्विजेत्युक्त्वा स्वव्यापारपरो ययौ ।
अथ तस्मिन्महारण्ये तथा विहरता मया ।। ३९
बहवस्तादृशा दृष्टाः पुरुषा दोषकारिणः ।
मत्पृष्टाः केचिदायान्ति स्वप्नसंभ्रमवच्छमम् ।। ४०
मदुक्तं नाभिनन्दन्ति केचिच्छवतनुं यथा ।
विनिपत्यान्धकूपेभ्यः केचित्तत्प्रोत्थिताः पुनः ।। ४१
कदलीखण्डकात्केचिच्चिरेणापि न निर्गताः ।
केचिदन्तर्हिताः स्फारे करञ्जवनगुल्मके ।। ४२

न क्वचित्स्थितिमायान्ति केचिद्धर्मपरायणाः ।
एवंविधा सा वितता रघूद्वह महाटवी ।। ४३
अद्यापि विद्यते यस्यामित्थं ते पुरुषाः स्थिताः ।
सा च दृष्टा त्वया राम त्वयेह व्यवहारिणी ।
बाल्यात्तु बुद्धितत्त्वस्य न तां स्मरसि राघव ।। ४४
सा भीषणा विविधकण्टकसङ्कटाङ्गी
घोराटवी घनतमोगहनापि लोके ।
आगत्य निर्वृतिमलब्धपरावबोधै-
रासेव्यते कुसुमगुल्मकवाटिकेव ।। ४५
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे चित्तोपाख्यानं नामाष्टनवतितमः सर्गः ।। ९८ ।।