योगवासिष्ठः/प्रकरणम् ३ (उत्पत्तिप्रकरणम्)/सर्गः १००


शततमः सर्गः १००
श्रीवसिष्ठ उवाच ।
चित्तमेतदुपायातं ब्रह्मणः परमात्पदात् ।
अतन्मयं तन्मयं च तरङ्गः सागरादिव ।। १
प्रबुद्धानां मनो राम ब्रह्मैवेह हि नेतरत् ।
जलसामान्यबुद्धीनामब्धेर्नान्यस्तरङ्गकः ।। २
मनो रामाप्रबुद्धानां संसारभ्रमकारणम् ।
अपश्यतोऽम्बुसामान्यमन्यताम्बुतरङ्गयोः ।। ३
अप्रबुद्धदृशां पक्षे तत्प्रबोधाय केवलम् ।
वाच्यवाचकसंबन्धकृतो भेदः प्रकल्प्यते ।। ४
सर्वशक्ति परं ब्रह्म नित्यमापूर्णमव्ययम् ।
न तदस्ति न तस्मिन्यद्विद्यते विततात्मनि ।। ५
सर्वशक्तिर्हि भगवान्यैव तस्मै हि रोचते ।
शक्तिं तामेव विततां प्रकाशयति सर्वगः ।। ६
चिच्छक्तिर्ब्रह्मणो राम शरीरेष्वभिदृश्यते ।
स्पन्दशक्तिश्च वातेषु जडशक्तिस्तथोपले ।। ७
द्रवशक्तिस्तथाम्भःसु तेजःशक्तिस्तथाऽनले ।
शून्यशक्तिस्तथाकाशे भावशक्तिर्भवस्थितौ ।। ८
ब्रह्मणः सर्वशक्तिर्हि दृश्यते दशदिग्गता ।
नाशशक्तिर्विनाशेषु शोकशक्तिश्च शोकिषु ।। ९
आनन्दशक्तिर्मुदिते वीर्यशक्तिस्तथा भटे ।
सर्गेषु सर्गशक्तिश्च कल्पान्ते सर्वशक्तिता ।। १०
फलपुष्पलतापत्रशाखाविटपमूलवान् ।
वृक्षबीजे यथा वृक्षस्तथेदं ब्रह्मणि स्थितम् ।। ११
प्रतिभासवशादेव मध्यस्थं चित्तजाड्ययोः ।
जीवेतराभिधं चित्तमन्तर्ब्रह्मणि दृश्यते ।। १२
नानातरुलतागुल्मजालपल्लवशालयः ।
निर्विकल्पकचिन्मात्रं नानाऽनिर्ज्ञातकल्पना ।। १३
ब्रह्मैवेदमहंतत्त्वं जगत्पश्याद्य राघव ।
स आत्मा सर्वगो नाम नित्योदितमहावपुः ।। १४
यन्मनाड्मननीं शक्तिं धत्ते तन्मन उच्यते ।
पिच्छभ्रान्तिर्यथा व्योम्नि पयस्यावर्तधीर्यथा ।। १५
प्रतिभासकलामात्रं मनो जीवस्तथात्मनि ।
यदेतन्मनसो रूपमुदितं मननात्मकम् ।। १६
ब्राह्मी शक्तिरसौ तस्माद्ब्रह्मैव तदरिंदम ।
इदं तदहमित्येव विभागः प्रतिभासजः ।। १७
मनसो ब्रह्मणोऽन्यच्च मोहे परमकारणम् ।
यद्यच्चैतन्मनस्येव किंचित्सदसदात्मकम् ।। १८
व्याशब्दितं सर्वशक्तेस्तां शक्तिं ब्रह्मतां विदुः ।
मनः सत्तात्मकं नाम यथैतन्मनसि स्थितम् ।। १९
यथर्तोः शक्तयस्तद्वज्जीवेहा ब्रह्मणि स्थिताः ।
व्याप्तसर्वर्तुकुसुमा क्ष्मादेशविधिभेदतः ।। २०
यथा दधाति पुष्पाणि तथा चित्तानि लोककृत् ।
क्वचित्क्वचित्कदाचिद्धि तस्मादायान्ति शक्तयः ।।
देशकालादिवैचित्र्यात्क्ष्मातलादिव शालयः ।
न जातं प्रतिभासेन तेनैवान्येन पश्यति ।। २२
प्रतियोगिव्यवच्छेदसंख्यारूपादयश्च ये ।
मनःशब्दैः प्रकल्प्यन्ते ब्रह्मजान्ब्रह्म विद्धि तान् ।। २३
यथा यथास्य मनसः प्रतिभासः प्रवर्तते ।
तथा तथैव भवति दृष्टान्तोऽत्र किलैन्दवाः ।। २४
स्वयमक्षुब्धविमले यथा स्पन्दो महाम्भसि ।
संसारकारणं जीवस्तथायं परमात्मनि ।। २५
ज्ञस्य सर्वं चितं राम ब्रह्मैवावर्तते सदा ।
कल्लोलोर्मितरङ्गौघैरब्धेर्जलमिवात्मनि ।। २६
द्वितीया नास्ति सत्तैका नामरूपक्रियात्मिका ।
परे नानातरङ्गेऽब्धौ कल्पनेव जलेतरा ।। २७
जायते नश्यति तथा यदिदं याति तिष्ठति ।
तदिदं ब्रह्मणि ब्रह्म ब्रह्मणा च विवर्तते ।। २८
स्वात्मन्येवातपस्तीव्रो मृगतृष्णिकया यथा ।
विचित्रेण विचित्रोऽपि प्रस्फुरत्यात्मना तथा ।। २९
करणं कर्म कर्ता च जननं मरणं स्थितिः ।
सर्वं ब्रह्मैव नह्यस्ति तद्विना कल्पनेतरा ।। ३०
न लोभोऽस्ति न मोहोऽस्ति न तृष्णास्ति न रञ्जना ।
क आत्मन्यात्मनोलोभस्तृष्णामोहोऽथवाकुतः ।।३१
आत्मैवेदं जगत्सर्वमात्मैव कलनाक्रमः ।
हेमाङ्गदतयेवायमात्मोदेति मनस्तया ।। ३२
अबुद्धं यत्परं धाम तच्चित्तं जीव उच्यते ।
अपरिज्ञात एवाशु बन्धुरायात्यबन्धुताम् ।। ३३
चिन्मयेनात्मनाऽज्ञेन स्वसंकल्पनया स्वयम् ।
शून्यता गगनेनेव जीवता प्रकटीकृता ।। ३४
आत्मैवानात्मवदिह जीवो जगति राजते ।
द्वीन्दुत्वमिव दुर्दृष्टेः सच्चासच्च समुत्थितम् ।। ३५
मोहार्थशब्दार्थदृशोरेतयोरत्यसंभवात् ।
सत्यत्वादात्मनश्चैव क्वात्मा बद्धः क्व मुच्यते ।। ३६
नित्यासंभवबन्धस्य बद्धोऽस्मीति कुकल्पना ।
यस्य काल्पनिकस्तस्य मोक्षो मिथ्या न तत्त्वतः ।। ३७
श्रीराम उवाच ।
मनो यं निश्चयं याति तत्तद्भवति नान्यथा ।
तेन काल्पनिको नास्ति बन्धः कथमिह प्रभो ।। ३८
श्रीवसिष्ठ उवाच ।
मिथ्या काल्पनिकीवेयं मूर्खाणां बन्धकल्पना ।
मिथ्यैवाभ्युदिता तेषामितरा मोक्षकल्पना ।। ३९
एवमज्ञानकादेव बन्धमोक्षदृशोऽस्मृतेः ।
वस्तुतस्तु न बन्धोऽस्ति न मोक्षोऽस्तिमहामते ।। ४०
कल्पनाया अवस्तुत्वं संप्रबुद्धमतिं प्रति ।
रज्ज्वहेरिव हे प्राज्ञ तत्त्वबुद्धमतिं प्रति ।। ४१
बन्धमोक्षादिसंमोहो न प्राज्ञस्यास्ति कश्चन ।
संमोहबन्धमोक्षादि ह्यज्ञस्यैवास्ति राघव ।। ४२
आदौ मनस्तदनु बन्धविमोक्षदृष्टी
पश्चात्प्रपञ्चरचना भुवनाभिधाना ।
इत्यादिका स्थितिरियं हि गता प्रतिष्ठा-
माख्यायिका सुभग बालजनोदितेव ।। ४३
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे चित्तचिकित्सापूर्वकं चित्तोत्पत्तिवर्णनं नाम शततमः सर्गः ।। १०० ।।