योगवासिष्ठः/प्रकरणम् ३ (उत्पत्तिप्रकरणम्)/सर्गः १०३


त्र्युत्तरशततमः सर्गः १०३
श्रीवसिष्ठ उवाच ।
परस्मादुत्थितं चेतस्तत्कल्लोल इवार्णवात् ।
स्फारतामेत्य भुवनं तनोतीदमितस्ततः ।। १
ह्रस्वं दीर्घं करोत्याशु दीर्घं नयति खर्वताम् ।
स्वतां नयत्यन्यदलं स्वं तथैवान्यतामपि ।। २
प्रादेशमात्रमपि यद्वस्तुभावनयैव तत् ।
स्वयं संपन्नयेवाशु करोत्यद्रीन्द्रभासुरम् ।। ३
लब्धप्रतिष्ठं परमात्पदादुल्लसितं मनः ।
निमेषेणैव संसारान्करोति न करोति च ।। ४
यदिदं दृश्यते किंचिज्जगत्स्थास्नु चरिष्णु च ।
सर्वं सर्वप्रकाराढ्यं चित्तादेतदुपागतम् ।। ५
देशकालक्रियाद्रव्यशक्तिपर्याकुलीकृतम् ।
भावाद्भावान्तरं याति लोलत्वान्नटवन्मनः ।। ६
सदसत्तां नयत्याशु सत्तां वा सन्नयत्यलम् ।
तादृशान्येव चादत्ते सुखदुःखानि भावितम् ।। ७
यदाप्तं स्वयमादत्ते यथैव चञ्चलं मनः ।
हस्तपादादिसंघातस्तदा प्रयतते तथा ।। ८
ततः सैव क्रिया चित्तसमाहितफलाफलम् ।
क्षणात्प्रयच्छति लता कालसिक्तेव तादृशम् ।। ९
चित्रां क्रीडनकश्रेणीं यथा पङ्काद्गृहे शिशुः ।
करोत्येवं मनो राम विकल्पं कुरुते जगत् ।। १०
मनःसर्वजनक्रीडानृजम्बाललवेष्वतः ।
किमेतद्धि पदार्थेषु रूढं जगति कल्प्यते ।। ११
करोत्यृतुकरः कालो यथा रूपान्यथा तरोः ।
चित्तमेवं पदार्थानामेषामेवान्यतामिव ।। १२
मनोरथे तथा स्वप्ने संकल्पकलनासु च ।
गोष्पदं योजनव्यूहः स्वासु लीलासु चेतसः ।। १३
कल्पं क्षणीकरोत्यन्तः क्षणं नयति कल्पताम् ।
मनस्तदायत्तमतो देशकालक्रमं विदुः ।। १४
तीव्रमन्दत्वसंवेगाद्बहुत्वाल्पत्वभेदतः ।
विलम्बनेन च चिरं नतु शक्तिमशक्तितः ।। १५
व्यामोहसंभ्रमानर्थदेशकालगमागमाः ।
चेतसः प्रभवन्त्येते पादपादिव पल्लवाः ।। १६
जलमेव यथाम्भोधिरौष्ण्यमेव यथानलः ।
तथा विविधसंरम्भः संसारश्चित्तमेव वा ।। १७
सकर्तृकर्मकरणं यदिदं चेत्यमागतम् ।
द्रष्टृदर्शनदृश्याढ्यं तत्सर्वं चित्तमेव च ।। १८
चित्तं जगन्ति भुवनानि वनान्तराणि
संलक्ष्यते स्वयमुपागतमात्मभेदैः ।
केयूरमौलिकटकैश्च लसत्स्वरूपं
त्यक्त्वैव काञ्चनधियेव जनेन हेम ।। १९
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मोक्षोपायेषूत्पत्तिप्रकरणे चित्तमाहात्म्यं नाम त्र्युत्तरशततमः सर्गः ।। १०३ ।।