योगवासिष्ठः/प्रकरणम् ३ (उत्पत्तिप्रकरणम्)/सर्गः ११५


पञ्चदशोत्तरशततमः सर्गः ११५
श्रीवाल्मीकिरुवाच ।
एवमुक्तो भगवता वसिष्ठेन महात्मना ।
रामः कमलपत्राक्ष उन्मीलित इवाबभौ ।। १
विकासितान्तःकरणः शोभामलमुपाययौ ।
आश्वस्तस्तमसि क्षीणे पद्मोऽर्कालोकनादिव ।। २
बोधविस्मयसंजातसौम्यस्मितसिताननः ।
दन्तरश्मिसुधाधौतामिमां वाचमुवाच ह ।। ३
श्रीराम उवाच ।
अहो नु चित्रं पद्मोत्थैर्बद्धास्तन्तुभिरद्रयः ।
अविद्यमाना या विद्या तया सर्वे वशीकृताः ।। ४
इदं तद्वज्रतां यातं तृणमात्रं जगत्त्रये ।
अविद्ययापि यन्नामासदेव सदिव स्थितम् ।। ५
अस्याः संसारमायाया नद्यास्त्रिभुवनाङ्गणे ।
रूपं मदवबोधार्थं कथयानुग्रहात्पुनः ।। ६
अन्यो यत्संशयोऽयं मे महात्मन्हृदि वर्तते ।
लवणोऽसौ महाभागः किं नामापदमाप्तवान् ।। ७
संश्लिष्टयोराहतयोर्द्वयोर्वा देहदेहिनोः ।
ब्रह्मन्क इव संसारी शुभाशुभफलैकभाक् ।। ८
लवणस्य तथा दत्त्वा तामापदमनुत्तमाम् ।
किं गतश्चञ्चलारम्भः कश्चासावैन्द्रजालिकः ।। ९
श्रीवसिष्ठ उवाच ।
काष्ठकुड्योपमो देहो न किंचन इहानघ ।
स्वप्नालोक इवानेन चेतसा परिकल्प्यते ।। १०
चेतस्तु जीवतां यातं चिच्छक्तिपरिभूषितम् ।
विद्यात्संसारसंरम्भं कपिपोतकचञ्चलम् ।। ११
देही हि कर्मभाग्यो हि नानाकारशरीरधृक् ।
अहंकारमनोजीवनामभिः परिकल्प्यते ।। १२
तस्येमान्यप्रबुद्धस्य न प्रबुद्धस्य राघव ।
सुखदुःखान्यनन्तानि शरीरस्य न कानिचित् ।। १३
अप्रबुद्धं मनो नानासंज्ञाकल्पितकल्पनम् ।
वृत्तीरनुपतच्चित्रा विचित्राकृतितां गतम् ।। १४
अप्रबुद्धं मनो यावन्निद्रितं तावदेव हि ।
संभ्रमं पश्यति स्वप्ने न प्रबुद्धं कदाचन ।। १५
अज्ञाननिद्राक्षुभितो जीवो यावन्न बोधितः ।
तावत्पश्यति दुर्भेदं संसारारम्भविभ्रमम् ।। १६
संप्रबुद्धस्य मनसस्तमः सर्वं विलीयते ।
कमलस्य यथा हार्दं दिनालोकविकासिनः ।। १७
चित्ताविद्यामनोजीववासनेति कृतात्मभिः ।
कर्मात्मेति च यः प्रोक्तः स देही दुःखकोविदः ।।१८
जडो देहो न दुःखार्हो दुःखी देह्यविचारतः ।
अविचारो घनाज्ञानादज्ञानं दुःखकारणम् ।। १९
शुभाशुभानां धर्माणां जीवो विषयतां गतः ।
अविवेकैकदोषेण कोशेनेव हि कीटकः ।। २०
अविवेकामयोन्नद्धं मनो विविधवृत्तिमत् ।
नानाकारविहारेण परिभ्रमति चक्रवत् ।। २१
उदेति रौति हन्त्यत्ति याति वल्गति निन्दति ।
मन एव शरीरेऽस्मिन्न शरीरं कदाचन ।। २२
यथा गृहपतिर्गेहे विविधं हि विचेष्टते ।
न गृहं तु जडं राम तथा देहे हि जीवकः ।। २३
सर्वेषु सुखदुःखेषु सर्वासु कलनासु च ।
मनः कर्तृ मनो भोक्तृ मानसं विद्धि मानवम् ।। २४
अत्र ते श्रृणु वक्ष्यामि वृत्तान्तमिममुत्तमम् ।
लवणोऽसौ यथा यातश्चण्डालत्वं मनोभ्रमात् ।। २५
मनः कर्मफलं भुङ्कते शुभं वाऽशुभमेव वा ।
यथैतद्बुद्ध्यसे नूनं तथाकर्णय राघव ।। २६
हरिश्चन्द्रकुलोत्थेन लवणेन पुरानघ ।
एकं तेनोपविष्टेन चिन्तितं मनसा चिरम् ।। २७
पितामहो मे सुमहान्राजसूयस्य याजकः ।
अहं तस्य कुले जातस्तं यजे मनसा मखम् ।। २८
इति संचिन्त्य मनसा कृत्वा संभारमादृतः ।
राजसूयस्य दीक्षायां प्रविवेश महीपतिः ।। २९
ऋत्विजश्चाह्वयामास पूजयामास सन्मुनीन् ।
देवानामन्त्रयामास ज्वालयामास पावकम् ।। ३०
यथेच्छं यजमानस्य मनसोपवनान्तरे ।
ययौ संवत्सरः साग्रो देवर्षिद्विजपूजया ।। ३१
भूतेभ्यो द्विजपूर्वेभ्यो दत्त्वा सर्वस्वदक्षिणाम् ।
विबुध्यत दिनस्यान्ते स्व एवोपवने नृपः ।। ३२
एवं स लवणो राजा राजसूयमवाप्तवान् ।
मनसैव हि तुष्टेन युक्तं तस्य फलेन च ।। ३३
अतश्चित्तं नरं विद्धि भोक्तारं सुखदुःखयोः ।
तन्मनः पावनोपाये सत्ये योजय राघव ।। ३४
पूर्णे देशे सुसंपूर्णः पुमान्नष्टे विनश्यति ।
देहोऽहमिति येषां तु निश्चयस्तैरलं बुधाः ।। ३५
उच्चैर्विवेकवति चेतसि संप्रबुद्धे
दुःखान्यलं विगलितानि विविक्तबुद्धेः ।
भास्वत्करप्रकटिते ननु पद्मखण्डे
संकोचजाड्यतिमिराणि चिरं क्षतानि ।। ३६
इत्यार्षे श्रीवासिष्ठमहारामायणे वा० मो० उत्पत्तिप्रकरणे सुखदुःखभोक्तृत्वोपदेशो नाम पञ्चदशोत्तरशततमः सर्गः ।। ११५ ।।