योगवासिष्ठः/प्रकरणम् ४ (स्थितिप्रकरणम्)/सर्गः ०४


चतुर्थः सर्गः ४

श्रीवसिष्ठ उवाच ।
इन्द्रियग्रामसंग्रामसेतुना भवसागरः ।
तीर्यते नेतरेणेह केनचिन्नाम कर्मणा ।। १
शास्त्रसत्संगमाभ्यासात्सविवेको जितेन्द्रियः ।
अत्यन्ताभावमेतस्य दृश्यस्याप्यवगच्छति ।। २
एतत्ते कथितं सर्वं स्वरूपं रूपिणां वर ।
संसारसागरश्रेण्यो यथा यान्ति प्रयान्ति च ।। ३
बहुनात्र किमुक्तेन मनःकर्मद्रुमाङ्कुरः ।
तस्मिंश्छिन्ने जगच्छाखी छिन्नः कर्मतनुर्भवेत् ।। ४
मनः सर्वमिदं राम तस्मिन्नन्तश्चिकित्सिते ।
चिकित्सितो वै सकलो जगज्जालामयो भवेत् ।। ५
तदेतज्जायते लोके मनोमननमाकुलम् ।

मनसो व्यतिरेकेण देहः क्व किल दृश्यते ।। ६
दृश्यात्यन्तासंभवेन ऋते नान्येन हेतुना ।
मनःपिशाचः प्रशमं याति कल्पशतैरपि ।। ७
एतच्च संभवत्येव मनोव्याधिचिकित्सिते ।
दृश्यात्यन्तासंभवात्म परमौषधमुत्तमम् ।। ८
मनो मोहमुपादत्ते म्रियते जायते मनः ।
तत्स्वचिन्ताप्रसादेन बध्यते मुच्यते पुनः ।। ९
स्फुरतीदं जगत्सर्वं चित्ते मननमूर्च्छिते ।
शून्यमेवाम्बरे स्फारे गन्धर्वाणां पुरं यथा ।। १०
मनसीदं जगत्कृत्स्नं स्फारं स्फुरति चास्ति च ।
पुष्पगुच्छ इवामोदस्तत्स्थं तस्मादिवेतरत् ।। ११
यथा तिलकणे तैलं गुणो गुणिनि वा यथा ।
यथा धर्मिणि वा धर्मस्तथेदं चित्तके जगत् ।। १२
रश्मिजालं यथा सूर्ये यथालोकस्तु तेजसि ।
यथौष्ण्यं चित्रभानौ च मनसीदं तथा जगत् ।। १३
शैत्यं यथैव तुहिने यथा नभसि शून्यता ।
यथा चञ्चलता वायौ मनसीदं तथा जगत् ।। १४

मनो जगज्जगदखिलं तथा मनः
परस्परं त्वविरहिते सदैव हि ।
तयोर्द्वयोर्मनसि निरन्तरं क्षिते
क्षितं जगन्नतु जगति क्षिते मनः ।। १५

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मी० दे० मो० स्थितिप्रकरणे स्थित्यङ्कुरकलनं नाम चतुर्थः सर्गः ।। ४ ।।