योगवासिष्ठः/प्रकरणम् ४ (स्थितिप्रकरणम्)/सर्गः ०७

← सर्गः ६ योगवासिष्ठः/प्रकरणम् ४ (स्थितिप्रकरणम्)
सर्गः ०७
अज्ञातलेखकः
सर्गः ८ →


सप्तमः सर्गः ७

श्रीवसिष्ठ उवाच ।
इति शुक्रः पुरं प्राप्य वैबुधं स्वेन तेजसा ।
विसस्मार निजं भावं प्राक्तनं व्यसनं विना ।। १
मुहूर्तमिव विश्रम्य तस्य पार्श्वे शचीपतेः ।
स्वर्गं विहर्तुमुत्तस्थौ स्वर्गाभिपरिमोदितः ।। २
स्वःश्रियं स समालोक्य लोललोचनवाञ्छिताम् ।
स्त्रैणं द्रष्टुं जगामासौ नलिनीमिव सारसः ।। ३
तत्र तां मृगशावाक्षीं कान्तामध्यगतामसौ ।
ददर्श विपिनान्तस्थां भृगुश्चूतलतामिव ।। ४
सापि तं भार्गवं राम दृष्ट्वा परवशाभवत् ।
तामालोक्य लसल्लोलविलासवलिताकृतिम् ।। ५
आसीद्विलीयमानाङ्गो ज्योत्स्नामिन्दुमणिर्यथा ।
विलीयमानसर्वाङ्गस्तामवैक्षत कामिनीम् ।। ६
चन्द्रकान्त इव ज्योत्स्नां शीतलां खे विलासिनीम् ।
तेनावलोकिता सापि तत्परायणतां गता ।। ७
निशान्ते चक्रवाकेन कान्तेव परिकूजिता ।
रसाद्विकसिता नूनमन्योन्यमनुरक्तयोः ।। ८
प्रातरर्कनलिन्योर्या शोभा सैव तयोरभूत् ।
संकल्पितार्थदायित्वाद्देशस्याभूच्च तेन सा ।। ९
सर्वाङ्गं विवशीकृत्य कामायैव समर्पिता ।
पेतुः स्मरशरास्तस्या मृदुष्वङ्गेषु भूरिशः ।। १०
पलाशेष्विव पद्मिन्या धारा इव पयोमुचः ।
सा बभूवस्मरोद्भूता लोलालिवलयाकुला ।। ११
मन्दवाताभिनुन्नाया मञ्जर्याः सहधर्मिणी ।
नीलनीरजनेत्रान्तां हंससारसगामिनीम् ।। १२
मदनः क्षोभयामास गजः कमलिनीमिव ।
अथ तां तादृशीं दृष्ट्वा शुक्रः संकल्पितार्थभाक् ।।१३
तमः संकल्पयामास संहार इव भूतभुक् ।
त्रिविष्टपस्य देशोऽसौ बभूव तिमिराकुलः ।। १४
भूलोकस्यान्धतमसा लोकालोकतटो यथा ।
लज्जान्धकारतीक्ष्णांशौ तस्मिंस्तिमिरमण्डले ।। १५
प्रतिष्ठामागते तस्य मिथुनस्येव मण्डले ।
तेषु सर्वेषु भूतेषु गतेष्वभिमतां दिशम् ।। १६
तस्मात्प्रदेशाद्भूलोके दिनान्ते विहगेष्विव ।
सा दीर्घचञ्चलापाङ्गी प्रवृद्धमदनव्यथा ।। १७
आजगाम भृगोः पुत्रं मयूरी वारिदं यथा ।
धवलागारमध्यस्थे पर्यङ्के परिकल्पिते ।। १८
विवेश भार्गवस्तत्र क्षीरोद इव माधवः ।
सा कराववलम्ब्यास्य विवेशावनतानना ।। १९
रराज च सुरेभस्य हृदि लग्नेव पद्मिनी ।
उवाच चेदं मधुरं रसस्नेहाक्तया गिरा ।। २०
वचो मधुरमानन्दविलासवलिताक्षरम् ।
पश्यामलेन्दुवदनमण्डलीकृतकार्मुकः ।। २१
अबलामनुबध्नाति मामेष किल नाङ्गकः ।
पाहि मामबलां नाथ दीनां त्वच्छरणामिह ।। २२
कृपणाश्वासनं साधो विद्धि सच्चरितव्रतम् ।
स्नेहदृष्टिमजानद्भिर्मूढैरेव महामते ।। २३
प्रणया अवगण्यन्ते न रसज्ञैः कदाचन ।
अशङ्कितोपसंपन्नः प्रणयोऽन्योन्यरक्तयोः ।। २४
अधःकरोति निष्यन्दं चन्द्रमाह्लादनं प्रिय ।
न तथा सुखयत्येषा चेतस्त्रिभुवनेशिता ।। २५
यथा परस्परानन्दः स्नेहः प्रथमरक्तयोः ।
त्वत्पादस्पर्शनेनेयं समाश्वस्तास्मि मानद ।। २६
चन्द्रपादपरामृष्टा यथा निशि कुमुद्वती ।
संस्पर्शामृतपानेन तव जीवामि सुन्दर ।। २७
चन्द्रांशुरसपानेन चकोरी चपला यथा ।
मामिमां चरणालीनां भ्रमरीं करपल्लवैः ।। २८
आलिङ्ग्यामृतसंपूर्णे स्वपद्महृदये कुरु ।
इत्युक्त्वा पुष्पमृद्वङ्गी सा तस्य पतितोरसि ।
व्याघूर्णितालिनयना सुतरोरिव मञ्जरी ।। २९
तौ दम्पती तत्र विलासकान्ती
विवेशतुस्तासु वनस्थलीषु ।
किञ्जल्कगौरानिलघूर्णितासु
रक्तौ द्विरेफाविव पद्मिनीषु ।। ३०
इत्यार्षे श्रीवासिष्ठमहारामायणे वा० मो० स्थितिप्रकरणे भार्गवोपाख्याने नवसंगमो नाम सप्तमः सर्गः ।। ७ ।।