योगवासिष्ठः/प्रकरणम् ४ (स्थितिप्रकरणम्)/सर्गः २७


सप्तविंशः सर्गः २७

श्रीवसिष्ठ उवाच ।
तस्मिंस्तदा वर्तमाने घोरे समरसंभ्रमे ।
देवासुरशरीरेषु गर्तेष्वभ्रोदरेष्विव ।। १
वहत्स्वसृक्प्रवाहेषु गङ्गापूरेष्विवाम्बरात् ।
दाम्नि वेष्टितदेवौघकृतक्ष्वेडाघनारवे ।। २
व्याले निजकराकृष्टिपिष्टसर्वसुरालये ।
कटे कठिनसंरम्भसङ्गरक्षपितामरे ।। ३
ऐरावते क्षीणरवे पलायनपरायणे ।
प्रवृद्धे दानवानीके मध्याह्न इव भास्करे ।। ४
पतिताङ्गव्यथार्तानि प्रस्रवद्रुधिराणि च ।
पयांसीवावसेतूनि देवसैन्यानि दुद्रुवुः ।। ५
दामव्यालकटास्तानि चिरमन्तर्हितानि च ।
अनुजग्मुर्लसन्नादसिन्धनानीव पावकाः ।। ६
अन्विष्टानपि यत्नेन नालभन्तासुराः सुरान् ।
घनजालवनोड्डीनान्सिंहा हरिणकानिव ।। ७
अलब्धेष्वमरौघेषु दामव्यालकटास्तदा ।
जग्मुः पातालकोशस्थं प्रभुं प्रमुदिताशयाः ।। ८
अथ देवा विषण्णास्ते क्षणमाश्वास्य वै ययुः ।
जयोपायाय विजिता ब्रह्माणममितौजसम् ।। ९
तेषामाविरभूद्ब्रह्मा रक्तरक्ताननश्रियाम् ।
सायं रक्तीकृताम्बूनामब्धीनामिव चन्द्रमाः ।। १०
प्रणम्य ते सुरास्तस्मा अनर्थं शम्बरेहितम् ।
सम्यक्प्रकथयामासुर्दामव्यालकटक्रमम् ।। ११
तदाकर्ण्याखिलं ब्रह्मा विचार्य स विचारवित् ।
उवाचेदं सुरानीकमाश्वासनकरं वचः ।। १२
श्रीब्रह्मोवाच ।
शतवर्षसहस्रान्ते शम्बरेण हरेः करात् ।
मर्तव्यं समरेशस्य तत्कालं संप्रतीक्षताम् ।। १३
दामव्यालकटानेतानद्य त्वमरसत्तमाः ।
योधयन्तः पलायध्वं मायायुद्धेन दानवान् ।। १४
युद्धाभ्यासवशादेषां मुकुराणामिवाशये ।
अहंकारचमत्कारः प्रतिबिम्बमुपैष्यति ।। १५
गृहीतवासनास्त्वेते दामव्यालकटाः सुराः ।
सुजेया वो भविष्यन्ति लग्नजालाः खगा इव ।। १६
अद्य त्ववासना ह्येते सुखदुःखविवर्जिताः ।
धैर्येणारीन्विनिघ्नन्तो देवा दुर्जयतां गताः ।। १७
वासनातन्तुबद्धा ये आशापाशवशीकृताः ।
वश्यतां यान्ति ते लोके रज्जुबद्धाः खगा इव ।। १८
ये भिन्नवासना धीराः सर्वत्रासक्तबुद्धयः ।
न हृष्यन्ति न कुप्यन्ति दुर्जयास्ते महाधियः ।। १९
यस्यान्तर्वासनारज्ज्वा ग्रन्थिबन्धः शरीरिणः ।
महानपि बहुज्ञोऽपि स बालेनापि जीयते ।। २०
अयं सोऽहं ममेदं तदित्याकल्पितकल्पनः ।
आपदां पात्रतामेति पयसामिव सागरः ।। २१
इयन्मात्रपरिच्छिन्नो येनात्मा भव्यभावितः ।
स सर्वज्ञोऽपि सर्वत्र परां कृपणतां गतः ।। २२
अनन्तस्याप्रमेयस्य येनेयत्ता प्रकल्पिता ।
आत्मनस्तस्य तेनात्मा स्वात्मनैवावशीकृतः ।। २३
आत्मनो व्यतिरिक्तं यत्किंचिदस्ति जगत्त्रये ।
यत्रोपादेयभावेन बद्धा भवतु वासना ।। २४
आस्थामात्रमनन्तानां दुःखानामाकरं विदुः ।
अनास्थामात्रमभितः सुखानामाकरं विदुः ।। २५
दामव्यालकटा यावदनास्था भवसंस्थितौ ।
तावन्न नाम जेयावो मशकानामिवानलाः ।। २६
अन्तर्वासनया जन्तुर्दीनतामनुयातया ।
जितो भवत्यन्यथा तु मशकोऽप्यमराचलः ।। २७
विद्यते वासना यत्र तत्र सा याति पीनताम् ।
गुणो गुणिनि हि द्वित्वं सतो दृष्टं हि नासतः ।। २८
अयं सोऽहं ममेदं चेत्येवमन्तः सवासनम् ।
यथा दामादयः शक्र भावयन्ति तथा कुरु ।। २९
या या जनस्य विपदो भावाभावदशाश्च याः ।
तृष्णाकरञ्जवल्ल्यास्ता मञ्जर्यः कटुकोमलाः ।। ३०
वासनातन्तुबद्धो यो लोको विपरिवर्तते ।
सा प्रवृद्धातिदुःखाय सुखायोच्छेदमागता ।। ३१
धीरोऽप्यतिबहुज्ञोऽपि कुलजोऽपि महानपि ।
तृष्णया बध्यते जन्तुः सिंहः शृङ्खलया यथा ।। ३२
देहपादपसंस्थस्य हृदयालयगामिनः ।
तृष्णा चित्तखगस्येयं वागुरा परिकल्पिता ।। ३३
दीनो वासनया लोकः कृतान्तेनापकृष्यते ।
रज्ज्वेव बालेन खगो विवशो भृशमुच्छवसन् ।। ३४
अलमायुधभारेण संगरभ्रमणेन च ।
वासनाया विपर्यासं युक्त्या यत्नाद्रिपोः कुरु ।। ३५
अन्तरा क्षुभिते धैर्ये रिपोरमरनायक ।
न शस्त्राणि न चास्त्राणि न शास्त्राणि जयन्ति च ।।३६
दामव्यालकटास्त्वेते युद्धाभ्यासवशेन च ।
अहंकारमयीं मत्तास्ते ग्रहीष्यन्ति वासनाम् ।। ३७
यदा तेऽत्यज्ञपुरुषाः शम्बरेण विनिर्मिताः ।
वासनामाश्रयिष्यन्ति तदा यास्यन्ति जेयताम् ।।३८
तत्तावद्युक्तियुद्धेन तान्प्रबोधयतामराः ।
यावदभ्यासवशतो भविष्यन्ति सवासनाः ।। ३९
ततो वश्या भविष्यन्ति भवतां बद्धवासनाः ।
तृष्णाऽप्रोताशया लोके न च केचन पेलवाः ।। ४०
समविषममिदं जगत्समग्रं
समुपनतं स्थिरतां स्ववासनान्तः ।
चलचललहरीभरो यथाब्धा-
वत इह सैव चिकित्स्यतां प्रयाता ।। ४१


इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मोक्षोपायेषु स्थितिप्रकरणे पितामहवाक्यं नाम सप्तविंशः सर्गः ।। २७ ।।