योगवासिष्ठः/प्रकरणम् ४ (स्थितिप्रकरणम्)/सर्गः २८


अष्टाविंशः सर्गः २८

श्रीवसिष्ठ उवाच ।
इत्युक्त्वा भगवान्देवांस्तत्रैवान्तर्धिमाययौ ।
वेलावनितटे शब्दं कृत्वेवाम्बुतरङ्गकः ।। १
सुरास्त्वाकर्ण्य तद्वाक्यं जग्मुः स्वाभिमतां दिशम् ।
कमलामोदमादाय वनमालामिवानिलाः ।। २
दिनानि कतिचित्स्वेषु कान्तेषु स्थिरकान्तिषु ।
द्विरेफा इव पद्मेषु मन्दिरेषु विशश्रमुः ।। ३
कंचित्कालं समासाद्य स्वात्मोदयकरं शुभम् ।
चक्रुर्दुन्दुभिनिर्घोषं प्रलयाभ्ररवोपमम् ।। ४
अथ दैत्यैर्ममाव्योम्नि तैः पातालतले स्थितैः ।
कालक्षेपकरं घोरं पुनर्युद्धमवर्तत ।। ५
ववुरसिशरशक्तिमुद्गरौघा
मुसलगदापरशूग्रचक्रशङ्खाः ।
अशनिगिरिशिलाहुताशवृक्षा
अहिगरुडादिमुखानि चायुधानि ।। ६
मायाकृतायुधमहाम्बुघनप्रवाहा
क्षिप्रावहा प्रतिदिशं किल निर्जगाम ।
पाषाणपर्वतमहीरुहलक्षवृक्ष-
क्षुब्धाम्बुपूरघनघोषवती नदी द्राक् ।। ७
मध्यप्रवाहवहदुल्मुकशूलशैल-
प्रासासिकुन्तशरतोमरमुद्गरौघा
गङ्गोपमाम्बुवलितामरमन्दिरेण
सर्वासु दिक्ष्वशनिवर्षनिकर्षणेन ।। ८
पृथ्व्यादिदारुणशरीरमपि प्रहार-
दानग्रहा गहनराशिशरीरकेव ।
मायोपशाम्यति सुरासुरसिद्धसन्ना
मायाकृतिः पुनरुदेति नचैव सैव ।। ९
शैलोपमायुधविघट्टितभूधराणि
रक्ताम्बुपूरपरिपूर्णमहार्णवानि ।
दैवासुरेन्द्रशवशैलविरूढकुन्त-
तालीवनानि ककुभां वदनानि चासन् ।।१०
उद्गीर्णकुन्तशरशक्तिगदासिचक्र-
हेलानिगीर्णसुरदानवमुक्तशैला ।
काषोल्लसत्क्रकचदन्तनखाग्रमाला
जीवान्विता ह्यपतदायससिंहसृष्टिः ।। ११
उज्ज्वाललोचनविषज्वलनातपौघ-
दिग्दाहदर्शितयुगान्तदिनेशसेना ।
उड्डीयमानपरिदीर्घमहामहीध्र-
मग्नाब्धिवद्विषधरावलिरुल्ललास ।। १२

उन्नादवज्रमकरोत्करकर्कशान्तः-
क्षुब्धाब्धिवीचिवलयैर्वलिताचलेन्द्रैः ।
आसीज्जगत्सकलमेव सुसंकटाङ्ग-
मावृत्तिभिर्विविधहेतिनदीप्रवाहैः ।। १३
शैलास्त्रशस्त्रगरुडाचलचालितोच्च-
नागं महासुरगणाङ्गणमन्तरिक्षम् ।
आसीत्क्षणं जलधिभिः क्षणमग्निपूरैः
पूर्णं क्षणं दिनकरैः क्षणमन्धकारैः ।। १४
गरुडगुडगुडाकुलान्तरिक्ष-
प्रविसृतहेतिहुताशपर्वतौघैः ।
जगदभवदसह्यकल्पकाले
ज्वलितसुरालयभूतलान्तरालम् ।। १५
उदपतन्नसुरावसुधातला-
द्गगनमद्रितटादिव पक्षिणः ।
अतिबलादपतन्विबुधा भुवि
प्रलयचालितशैलशिला इव ।। १६
शरीररूढोन्नतहेतिवृक्ष-
वनावलीलग्नमहाग्निदाहाः ।
सुरासुराः प्रापुरथाम्बरान्तः
कल्पानिलान्दोलितशैलशोभाम् ।। १७
सुरासुराद्रीन्द्रशरीरमुक्तै
रक्तप्रवाहैरभितो भ्रमद्भिः ।
बभार पूर्णं परितोऽम्बरोऽद्रेः
संध्याकरौघक्षतमङ्ग गङ्गाम् ।। १८
गिरिवर्षणमम्बुवर्षणं
विविधोग्रायुधवर्षणं तथा ।
विषमाशनिवर्षणं च ते
सममन्योन्यमथाग्निवर्षणम् ।। १९
अनयन्नयमार्गकोविदा
दलिताशेषगिरीन्द्रभित्तयः ।
ससृजुश्च समं समन्ततः
करिकुम्भेष्विव पुण्यवर्षणम् ।। २०
देवासुराः समरसंभ्रममाकुलास्ते
अन्योन्यमङ्गदलनाकुलहेतिहस्ताः ।
नागेन्द्रडिम्भपृतनापृथुपीठपेषैः
कीर्णश्रियो नभसि बभ्रमुरक्षिपन्तः ।। २१
छिन्नैः शिरःकरभुजोरुभरैर्भ्रमद्भि-
राकाशकाष्ठशलभैरशिवैस्तदानीम् ।
आसीज्जगज्जठरमभ्रभरैरिवोग्रै-
राभास्करस्थगितदिक्तटशैलजालम् ।। २२
रटद्भटास्फोटकटिस्फुटद्भिः
समीरितैर्हेतिकलासितौघैः ।
परस्पराघातहतैः पतद्भि-
र्जगाम शीर्णा दलशो धरित्री ।। २३
अन्योन्यमायुधशिलाचलवृक्षवर्षै-
र्मेरुप्रमाणकठिनाङ्गनिघर्षणैश्च ।
आसीद्रणं चटचटास्फुटदन्तरिक्षं
कल्पक्षयान्तमिव भीमभरोग्रनादैः ।। २४
मत्तानिलक्षुब्धजलानलार्क-
दलद्वयं दीर्घसुरासुरौघम् ।
ब्रह्माण्डमाखण्डितकुड्यकोण-
सकालकल्पान्तकरालमासीत् ।। २५
भ्रान्तैर्भृशं भरितदिक्तटमद्रिकूटै-
रात्मप्रमाणघनहेतिहतै रणद्भिः
कूजद्भिरार्तिभिरिवोग्रगुहोच्चवातैः
क्रन्दद्भिरापतितसिंहरवैरदभ्रैः ।। २६
मायानदीजलधियोधघनाग्निदाहै-
र्वृक्षैः सुरासुरशवैरचलैः शिलोच्चैः ।
भ्रान्तेः शरासिशितशक्तिगदास्त्रशस्त्रै-
र्वातावकीर्णवनपर्णवदन्तरन्तः ।। २७
अद्रीन्द्रपक्षपरिमाणगमाक्षमोक्त-
दुर्वारहस्तिबलदारुणदेहकैर्द्राक् ।
आसीत्पतद्भटशरीरगिरीन्द्रवात-
विभ्रष्टदेवपुरपूर्णजलार्णवौघम् ।। २८
घनघुंघुमपूरितान्तरिक्षा
क्षतजक्षालितभूधरा धरा च ।
रुधिरह्रदवृत्तिवर्तिनी वा
भुवनाभोगगुहा तदाकुलाभूत् ।। २९
अनन्तदृक्प्रसृतविकारकारिणी
क्षयोदयोन्मुखसुखदुःखशंसिनी ।
रणक्रियासुरसुरघट्टसंकटा
तदाभवत्खलु सदृशीह संसृतेः ।। ३०

इत्यार्षे श्रीवासिष्ठमह्यरामायणे वा० दे० मो० स्थितिप्रकरणे दामव्यालकटपुनर्युद्धवर्णनं नामाष्टाविंशः सर्गः ।। २८ ।।