योगवासिष्ठः/प्रकरणम् ४ (स्थितिप्रकरणम्)/सर्गः ३४


चतुस्त्रिंशः सर्गः ३४

श्रीवसिष्ठ उवाच ।
अत्र ते श्रृणु वक्ष्यामि दामादिषु गतेष्वथ ।
यद्वृत्तं शम्बरस्यैव नगरे नगसंनिभे ।। १
तथा गगनविभ्रष्टे समस्ते ध्वस्तसंस्थितौ ।
विनष्टे शम्बरानीके शरदीवाब्दमण्डले ।। २
देवनिर्जितसैन्योऽसौ नीत्वा कतिपयाः समाः ।
पुनर्देववधोयुक्तश्चिन्तयामास दानवः ।। ३
दामादयस्तु रचिता ये मया माययाऽसुराः ।
मौर्ख्यातैर्भाविता युद्धे मिथ्यैव दुरहंकृतिः ।। ४
इदानीं संसृजाम्यन्यान्दानवान्माययोदितान् ।
तानप्यध्यात्मशास्त्रज्ञान्सविवेकान्करोम्यहम् ।। ५
ततस्तत्त्वपरिज्ञानान्मिथ्याभावनयोज्झिताः ।
नाहंकारं प्रयास्यन्ति विजेष्यन्ति च तान्सुरान् ।। ६
इति संचिन्त्य दैत्येन्द्रस्तादृशान्दानवान्धिया ।
माययोत्पादयामास बुद्बुदानिव वारिधिः ।। ७
सर्वज्ञा वेद्यवेत्तारो वीतरागा गतैनसः ।
यथाप्राप्तैककर्तारो भावितात्मान उत्तमाः ।। ८
भीमो भासो दृढ इति नामभिः परिलाञ्छिताः ।
जगत्तृणमिवाशेषं पश्यन्तः पावनाशयाः ।। ९
ते दैत्या भुवनं प्राप्य च्छादयामासुरम्बरम् ।
गर्जन्तो हेतितडितः प्रावृषीव पयोधराः ।। १०
अयुध्यन्त समं देवैरपि वर्षगणान्बहून् ।
विवेकवशतो जग्मुर्नाहंकारं कदाचन ।। ११
तेषां यावदुदेत्यन्तर्ममेदमिति वासना ।
तावत्कोऽयमहं चेति विचाराद्यात्यसत्यताम् ।। १२
असच्छरीरं विबुधाः कोऽसावहमिति स्थितिः ।
विचारादित्थमेतेषां प्रोदगुर्न भयादयः । ।। १३
असच्छरीरं नास्तीदं चिच्छुद्धैवात्मनि स्थिता ।
अहं नाम न चान्योऽस्ति निश्चित्यैवासुरा ययुः ।। १४
ततस्तैर्निरहंकारैर्जरामरणनिर्भयैः ।
प्राप्तार्थकारिभिर्धीरैर्वर्तमानानुसारिभिः ।। १५
असक्तबुद्धिभिर्नित्यं हतान्यैरप्यहन्तृभिः ।
वासनाजालनिर्मुक्तैः कृतकार्यैरकर्तृभिः ।। १६
प्रभोः कार्यमिदं कार्यमिति संगरतत्परैः ।
वीतरागैर्गतद्वेषैः सर्वदा समदृष्टिभिः ।। १७
सा दैवी दानवैः सेना भीमभासदृढादिभिः ।
हता भुक्ता हृता पुष्टा स्वान्नश्रीरिव भोक्तृभिः ।। १८
भीमभासदृढक्षुण्णा जाता गीर्वाणवाहिनी ।
परिदुद्राव वेगेन गङ्गेव हिमवच्च्युता ।। १९
सा सुरानीकिनी देवं क्षीरोदार्णवशायिनम् ।
जगाम शरणं शैलं वातार्तेवाब्दमालिका ।। २०
हरिराश्वासयामास तां भीतां देववाहिनीम् ।
भुजङ्गाभिवृतामेकां रमणीमिव नायकः ।। २१
अथ क्षीरोदकुहरे तावत्सा सुरवाहिनी ।
उवास यावद्भगवांस्तन्निरासार्थमुद्ययौ ।। २२
बभूव दारुणं युद्धं शौरिशम्बरयोस्ततः ।
अकाल इव कल्पान्ते समुड्डीनकुलाचलम् ।। २३
शशाम समरे तस्मिन्दैत्यः सबलवाहनः ।
नारायणहतो यातः शम्बरो वैष्णवीं पुरीम् ।। २४
भीमभासदृढास्ते तु तस्मिन्विषमसंगरे ।
विष्णुनैव शमं नीताः पवनेनेव दीपिकाः ।। २५
ते हि निर्वासना एव यदा शान्तिमुपागताः ।
न तदैषां गतिर्ज्ञाता दीपानामिव शाम्यताम् ।। २६
तस्माद्वासनया बद्धं मुक्तं निर्वासनं मनः ।
राम निर्वासनीभावमाहरस्व विवेकतः ।। २७
सम्यगालोकनात्सत्याद्वासना प्रविलीयते ।
वासनाविलये चेतः शममायाति दीपवत् ।। २८
न सत्यं किंचिदेवेह सद्भावो भावयत्यलम् ।
नास्त्येव भावना तस्मादित्येतत्सम्यगीक्षणम् ।। २९
आत्मैवेदं जगत्सर्वं कः किं भावयतु क्व वा ।
भावना नाम नास्त्वेव तदेतत्सम्यगीक्षणम् ।। ३०
वासनाचित्तनामानौ शब्दावर्थसमन्वितौ ।
सत्यावलोकनाद्यत्र विलीनौ तत्परं पदम् ।। ३१
वासनावलितं चित्तमिह स्थितिमुपागतम् ।
तदेव तद्विनिर्मुक्तं विमुक्तमिति कथ्यते ।। ३२
नानाघटपटाकारैश्चेतःस्थितिमुपागतम् ।
तदेवाशु शमं नेयं मिथ्यायक्ष इवोत्थितः । ३३
दामव्यालकटाकारैश्चेतः परिणतं यथा ।

भीमभासदृढन्यायो राघवास्त्वचलस्तव । ३४
दामव्यालकटन्यायो मा ते भवतु राघव ।
एतद्राम पुरा प्रोक्तं पित्रा कमलजेन मे ।। ३५
भवते यन्मया प्रोक्तं शिष्यायात्यन्तधीमते ।
दामव्यालकटन्यायस्तस्मान्मा तेऽस्तु राघव ।
भीमभासदृढन्यायो नित्यमस्तु तवानघ ।। ३६
अविरलसुखदुःखसंकटेयं
भवपदवी भवतापनोपयाता ।
व्यवहरणवतो विभूतियातौ
सततमसक्ततयैव नश्यतीति। ।। ३७

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मो० स्थितिप्रकरणे दामव्यालकटोपाख्यानसमाप्तिर्नाम चतुस्त्रिंशः सर्गः ।। ३४ ।।