योगवासिष्ठः/प्रकरणम् ४ (स्थितिप्रकरणम्)/सर्गः ५१

← सर्गः ५० योगवासिष्ठः/प्रकरणम् ४ (स्थितिप्रकरणम्)
सर्गः ५१
अज्ञातलेखकः
सर्गः ५२ →

श्रीवसिष्ठ उवाच ।
ततःप्रभृति तत्रासौ प्रसिद्धस्तापसाश्रमे ।
कदम्बदाशूर इति शूरस्तपसि दारुणे ।। १
तस्मिँल्लतादले स्थित्वा विलोक्य ककुभः क्षणात् ।
दृढपद्मासनं बद्ध्वा दिग्भ्यः प्रत्याहृतात्मना ।। २
अज्ञातपरमार्थेन क्रियामात्रे च तिष्ठता ।
फलकार्पण्ययुक्तेन मनसा सोऽकरोन्मखम् ।। ३
नभोगतलतापत्रसंस्थितेनान्तरात्मना ।
सर्वाः स्वमनसा तेन कृता यज्ञक्रियाः क्रमात् ।। ४
तत्रासौ दश वर्षाणि मनसैवायजत्सुरान् ।
गवाश्वनरमेधाद्यैर्यज्ञैर्विपुलदक्षिणैः ।। ५
कालेनामलतां याते वितते तस्य चेतसि ।
बलादवततारान्तर्ज्ञानमात्मप्रसादजम् ।। ६
ततो विशीर्णावरणो विगलद्वासनामलः ।
स ददर्शैकदा तस्यां लतायामग्रतः स्थिताम् ।। ७
वनदेवीं विशालाक्षीमालोककुसुमाम्बराम् ।
कामिनीं कान्तवदनां मदघूर्णितलोचनाम् ।। ८
नीलोत्पलामोदवतीमतीव सुमनोहराम् ।
तामुवाचानवद्याङ्गीं स मुनिर्विनताननाम् ।। ९
कोकिलाकुसुमापूरनतां वनलतामिव ।
का त्वमुत्पलपत्राक्षि कान्तिविक्षोभितस्मरा ।। १०
वयस्यामिव पुष्पाढ्यां लतां किमिव तिष्ठसि ।
इत्युक्ते मृगशावाक्षी गौरपीनपयोधरा ।। ११
मुनिमाह मनोहारि मुग्धाक्षरमिदं वचः ।
यानि यानि दुरापानि वाञ्छितानि महीतले ।। १२
प्राप्यन्ते तानि तान्याशु महतामेव याच्ञया ।
अहमस्मिँल्लताकीर्णे त्वत्कदम्बाभ्यलंकृते ।। १३
लतालीलालया ब्रह्मन्विपिने वनदेवता ।
यश्चैत्रसितपक्षस्य त्रयोदश्यां स्मरोत्सवे ।। १४
बभूव वनदेवीनां समाजो नन्दने वने ।
तत्राहमगमं नाथ त्रैलोक्यललनासदः ।। १५
तत्र दृष्टा मया सर्वा वयस्या मदनोत्सवे ।
अपुत्रया पुत्रयुतास्तेनाहं दुःखिता भृशम् ।। १६
त्वयि सर्वार्थसार्थस्य बृहत्कल्पतरौ स्थिते ।
अनाथेव कथं नाथ किल शोचाम्यपुत्रिका ।। १७
देहि मे भगवन्पुत्र नो चेद्देहमिहाग्नये ।
प्रकरोम्याहुतिं पुत्र दुःखदाहोपशान्तये ।। १८
तामित्युक्तवतीं तन्वीं विहस्य मुनिपुङ्गवः ।
आह हस्तगतं पुष्पं तस्यै दत्त्वा दयान्वितः ।। १९
गच्छ तन्वङ्गि मासेन पूजार्हमलिलोचनम् ।
प्रसोष्यसे सुतं कान्तं प्रसूनमिव सल्लता ।। २०
किंत्वसौ मरणावेशयायिन्या नस्त्वया सुतः ।
याचितः कृच्छ्रं संप्राप्य ज्ञाता तेन भविष्यति ।। २१
इत्युक्त्वा स मुनिस्तन्वीं प्रसन्नमुखमण्डलाम् ।
परिचर्यां करोमीति प्रार्थनोत्कां व्यसर्जयत् ।। २२
सा जगामात्मसदनं सोऽतिष्ठत्स्वात्मना सह ।
अवहत्क्रमशः काल ऋतुसंवत्सराङ्कितः ।। २३
अथ दीर्घेण कालेन सैवोत्पलविलोचना ।
द्वादशाब्दमुपादाय सुतं मुनिमुपाययौ ।। २४
सा प्रणम्योपविश्याग्रे मुनिमिन्दुसमाननम्।
उवाच कलया वाचा चूतद्रुमभिवालिनी ।। २५
अयं स भगवन्भव्यः कुमारः पुत्र आवयोः ।
कृतो मया समग्राणां कलानां किल कोविदः ।। २३
प्रभो केवलमेतेन ज्ञानं नाधिगतं शुभम् ।
येन संसारचक्रेऽस्मिन्न पुनः परिपीड्यते ।। २७
ज्ञानं त्वमेवास्य विभो कृपयोपदिशाधुना ।
को हि नाम कुले जातं पुत्रं मौर्ख्येण योजयेत् ।। २८
एवं वदन्तीं स मुनिः सच्छिष्यमबले सुतम् ।
इहैव स्थापयैनं त्वमित्युक्त्वा तां व्यसर्जयत् ।। २९
तस्यां गतायां स पितुरन्तेवासितया तया ।
अतिष्ठत्संयतो धीमानर्कस्येवारुणः पुरः ।। ३०
कदर्थः प्राप्य विज्ञानं ततश्चित्राभिरुक्तिभिः ।
चिरकालमसौ तत्र मुनिः पुत्रमबोधयत् ।। ३१
आख्यायिकाख्यानशतैर्दृष्टान्तैर्दृष्टिकल्पितैः ।
तथेतिहासवृत्तान्तैर्वेदवेदान्तनिश्चयैः ।। ३२
अनुद्वेगितया नित्यं विस्तरेण कथाक्रमैः ।
अनुभूतिमुपारूढै रूढिमेति यथा मयि ।। ३३
अनुभववशतो रसातिरिक्तै-
रलमुचितार्थवचोगणैर्महात्मा ।
जलद इव शिखण्डिनं पुरःस्थं
तनयमबोधयदम्बरे महर्षिः ।। ३४
इत्यार्षे श्रीवसिष्ठमहारामायणे वाल्मीकीये मोक्षोपायेषु स्थितिप्रकरणे दाशूरो० दाशूरसुतानुबोधनं नामैकपञ्चाशः सर्गः ।। ५१ ।।