योगवासिष्ठः/प्रकरणम् ५ (उपशमप्रकरणम्)/सर्गः ०४


चतुर्थः सर्गः ४
श्रीवाल्मीकिरुवाच ।
मेघगम्भीरया वाचा विश्रब्धपदसुन्दरम् ।
इदं दशरथो वाक्यमुवाच मुनिनायकम् ।। १
भगवन्ह्यस्तनेन त्वं वाक्यसंदर्भजन्मना ।
कच्चिन्मुक्तोऽसि खेदेन तपःकार्श्यातिशायिना ।। २
ह्यस्तनोक्तो य आनन्दी विविक्तो वचसां गणः ।
अमृतावर्षणेनेव तेनैवाश्वासिता वयम् ।। ३
चन्द्रांशव इवोत्सार्य तमांस्यमृतनिर्मलाः ।
अन्तःशीतलयन्त्येता महताममला गिरः ।। ४
अपूर्वाह्लाददायिन्य उच्चैस्तरपदाश्रयाः ।
अतिमोहापहारिण्यः सूक्तयो हि महीयसाम् ।। ५
आत्मरत्नावलोकैकदीपिका सरसात्मिका ।
यमाद्युक्तिलतोदेति स वन्द्यः सुजनद्रुमः ।। ६
दुरीहितं दुर्विहितं सर्व सज्जनसूक्तयः ।
प्रमार्जयन्ति शीतांशोस्तमःकाण्डमिवाङ्घ्रयः ।। ७
तृष्णालोभादयोऽस्माकं संसारनिगडा मुने ।
तवोक्त्या तनुतां याताः शरदीवासिताम्बुदाः ।। ८
संप्रवृत्ता वयं द्रष्टुमात्मानमपकल्मषम् ।
रसाञ्जनानीतदृशो जात्यन्धा इव काञ्चनम् ।। ९
संसारवासनानाम्नी मिहिका हृदयाम्बरे ।
प्रवृत्ता तनुतां गन्तुं त्वदुक्तिशरदेव नः ।। १०
मुने मन्दारमञ्जर्यस्तरङ्गा वामृताम्भसः ।
न तथा ह्लादयन्त्यन्तर्यथोदारधियां गिरः ।। ११
यद्यद्राघव संयाति महाजनसपर्यया ।
दिनं तदिह सालोकं शेषास्त्वन्धा दिनालयः ।। १२
राम राजीवपत्राक्ष प्रकृतार्थमिहाव्ययम् ।
मुनिमाबोधय पुनः प्रसादे समवस्थितम् ।। १३
इत्युक्तो भूभृता तत्र रामाभिमुखमास्थितः ।
उवाचेदमुदारात्मा वसिष्ठो भगवान्मुनिः ।। १४
श्रीवसिष्ठ उवाच ।
राघव स्वकुलैकेन्दो यन्मयोक्तं महामते ।
कच्चित्स्मरसि वाक्यार्थं पूर्वापरविचारितम् ।। १५
उत्पत्तीनां विचित्राणां सत्त्वादिगुणभेदतः ।
कच्चित्स्मरसि सर्वासां विभागमरिमर्दन ।। १६
कश्चित्सर्वमसर्वं च सदसच्च सदोदितम् ।
रूपं स्मरसि वेत्स्येव विविक्तं परमात्मनः ।। १७
यथेदमुदितं विश्वं विश्वेशादेव चेश्वरात् ।
कच्चित्स्मरसि तत्साधो साधुवादैकभाजन ।। १८
रूपं कच्चिदविद्याया बलाद्भङ्गुरमाततम् ।
अनन्तमन्तवच्चैव सम्यक्स्मरसि सन्मते ।। १९
चित्तमेव नरो नान्यदिति यत्प्रतिपादितम् ।
लक्षणादिविचारेण कच्चित्स्मरसि साधु तत् ।। २०
वाक्यार्थश्चाखिलः कच्चित्त्वया राम विचारितः ।
ह्यस्तनस्य विचारस्य रात्रौ हृदि निवेशितः ।। २१
भूयोभूयः परामृष्टं हृदये सुनियोजितम् ।
प्रयोजनं फलत्युच्चैर्न हेलाहतसंस्थितेः ।। २२
भाजनं त्वं विविक्तानां वचसां शुद्धिशालिनाम् ।
विविक्तहृदयः कण्ठे मुक्तानामिव राघव ।। २३
श्रीवाल्मीकिरुवाच ।
कमलासनपुत्रेण मुनिना समहौजसा ।
एवं वितीर्णावसरो रामो वाक्यमुवाच ह ।। २४
श्रीराम उवाच ।
भगवन्सर्वधर्मज्ञ तवैवैतद्विजृम्भितम् ।
यदहं परमोदारो बुद्धवान्वचनं तव ।। २५
यदादिशसि तत्सर्वं तथैव न तदन्यथा ।
अपास्तनिद्रेण मया वाक्यार्थो हृदि चिन्तितः ।। २६
भवान्धकारक्षतये भवतोक्तिविवस्वता ।
ह्यः प्रसादितमाह्लादि वाग्रश्मिपटलं प्रभो ।। २७
तदतीतमदीनात्मन्सर्वमन्तःकृतं मया ।
रम्यं पुण्यं पवित्रं च रत्नवृन्दमिवान्वितम् ।। २८
हितानुबन्धि हृद्यं च पुण्यमानन्दसाधनम् ।
शिरसा ध्रियते कैर्नो सिद्धैस्त्वदनुशासनम् ।। २९
प्रतिक्षिपन्तः संसारमिहिकावरणं वयम् ।
प्रसन्नास्त्वत्प्रसादेन वर्षान्त इव वासराः ।। ३०
आपातमधुरारम्भं मध्ये सौभाग्यवर्धनम् ।
अनुत्तमफलोदर्कं पुण्यं त्वदनुशासनम् ।। ३१
विकासिसितमम्लानमाह्लादितशुभाशुभम् ।
त्वद्वचःकुसुमं नित्यं श्रीमत्फलदमस्तु नः ।। ३२
सकलशास्त्रविचारविशारद प्रसृतपुण्यजलैकमहाह्रद ।
भज भृशं विततव्रत संप्रति प्रसृततां हतकिल्बिष संततिम् ।। ३३
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मोक्षोपाये उपशमप्रकरणे राघवप्रश्नो नाम चतुर्थः सर्गः ।। ४ ।।