योगवासिष्ठः/प्रकरणम् ५ (उपशमप्रकरणम्)/सर्गः ०६


षष्ठः सर्गः ६

श्रीवसिष्ठ उवाच ।
इमं विश्वपरिस्पन्दं करोमीत्यस्तवासनम् ।
प्रवर्तते यः कार्येषु स मुक्त इति मे मतिः ।। १
पौरुषीं तनुमाश्रित्य केचिदेतत्क्रियारताः ।
स्वर्गान्नरकमायान्ति स्वर्गं च नरकात्पुनः ।। २
केचित्त्वकर्मणि रता विरता अपि कर्मणः ।
नरकान्नरकं यान्ति दुःखाद्दुःखं भयाद्भयम् ।। ३
केचित्स्ववासनातन्तुबद्धाः कर्मफलोदिताः ।
तिर्यक्त्वात्स्थावरतनुं यान्ति तिर्यक्तनुं ततः ।। ४
केचिदात्मविदो धन्या विचारितमनोदृशः ।
विच्छिन्नतृष्णानिगडा यान्ति निष्केवलं पदम् ।। ५
पुरा कतिपयान्येव भुक्त्वा जन्मानि राघव ।
अस्मिञ्जन्मनि यो मुक्तस्तस्माद्राजससात्त्विकः ।। ६
जातोऽसौ वृद्धिमभ्येति पार्वणश्चन्द्रमा इव ।
कुटजं प्रावृषीवैनं सौभाग्यमनुगच्छति ।। ७
यस्येदं जन्म पाश्चात्यं तमाश्वेव महामते ।

विशन्ति विद्या विमला मुक्ता वेणुमिवोत्तमम् ।। ८
आर्यता हृद्यता मैत्री सौम्यता करुणा ज्ञता ।
समाश्रयन्ति तं नित्यमन्तःपुरमिवाङ्गनाः ।। ९
यः कुर्वन्सर्वकार्याणि पुण्ये नष्टेऽथ तत्फले ।
समः सन्सर्वकार्येषु न तुष्यति न शोचति ।। १०
तमांसीव दिवा यान्ति तत्र द्वन्द्वानि संक्षयम् ।
शरदीव घनास्तत्र गुणा गच्छन्ति शुद्धताम् ।। ११
पेशलाचारमधुरं सर्वे वाञ्छन्ति तं जनाः ।
वेणुं मधुरनिध्वानं वने वनमृगा इव ।। १२
नरं पाश्चात्यजन्मानमेवंप्राया गुणश्रियः ।
जातमेवानुधावन्ति बलाका इव वारिदम् ।। १३
ततोऽसौ गुणसंपूर्णो गुरुमेवानुगच्छति ।
स तमेवं विवेके वै नियोजयति पावने ।। १४
विचारवैराग्यवता चेतसा गुणशालिना ।
देवं पश्यत्यथात्मानमेकरूपमनामयम् ।। १५
तनोत्ययं विचारेण चारुणा शान्तचेतसा ।
प्रबोधनाय प्रथमं मनोमननमान्तरम् ।। १६
ये हि पाश्चात्यजन्मानस्ते हि सुप्तं मनोमृगम् ।
प्रबोधयन्ति प्रथमं गुणहीनं महागुणाः ।। १७

प्रथितगुणान्सुगुरून्निषेव्य यत्ना-
दमलधिया प्रविचार्य चित्तरत्नम् ।
गतिममलामुपयान्ति मानवास्ते
परमवलोक्य चिरं प्रकाशमन्तः ।। १८
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मोक्षोपायेषूपशमप्रकरणे प्रथमोपदेशो नाम षष्ठः सर्गः ।। ६ ।।