योगवासिष्ठः/प्रकरणम् ५ (उपशमप्रकरणम्)/सर्गः ०८
अष्टमः सर्गः ८
श्रीवसिष्ठ उवाच ।
अस्त्यस्तमितसर्वापदुद्यत्संपदुदारधीः ।
विदेहानां महीपालो जनको नाम वीर्यवान् ।। १
कल्पवृक्षोऽर्थिसार्थानां मित्रालानां दिवाकरः ।
माधवो बन्धुपुष्पाणां स्त्रीणां मकरकेतनः ।। २
द्विजकैरवशीतांशुर्द्विपत्तिमिरभास्करः ।
सौजन्यरत्नजलधिर्भुवं विष्णुरिवास्थितः ।। ३
प्रफुल्लवाललतिके मञ्जरीपुञ्जपिञ्जरे ।
स कदाचिन्मधौ मत्ते कोकिलालापलासिनि ।। ४
ययौ कुसुमिताभोगंसुविलासलताङ्गनम् ।
लीलयोपवनं कान्तं नन्दनं वासवो यथा ।। ५
तस्मिन्वरवने हृद्ये केसरोद्दाममारुते ।
दूरस्थानुचरः सानुकुञ्जेषु विचचार ह ।। ६
अथ शुश्राव कस्मिंश्चित्तमालवनगुल्मके ।
सिद्धानामप्रदृश्यानां स्वप्रसङ्गादुदाहृताः ।। ७
विविक्तवासिनां नित्यं शैलकन्दरचारिणाम् ।
इमाः कमलपत्राक्ष गीता गीतात्मभावनाः ।। ८
सिद्धा ऊचुः ।.
द्रष्टृदृश्यसमायोगात्प्रत्ययानन्दनिश्चयः ।
यस्तं स्वमात्मतत्त्वोत्थं निःस्पन्दं समुपास्महे ।। ९
अन्ये ऊचुः ।
द्रष्टृदर्शनदृश्यानि त्यक्त्वा वासनया सह ।
दर्शनप्रथमाभासमात्मानं समुपास्महे ।। १०
अन्ये ऊचुः ।
द्वयोर्मध्यगतं नित्यमस्तिनास्तीति पक्षयोः ।
प्रकाशनं प्रकाश्यानामात्मानं समुपास्महे ।। ११
अन्ये ऊचुः ।
यस्मिन्सर्वं यस्य सर्वं यतः सर्वं यस्मायिदम् ।
येन सर्वं यद्धि सर्वं तत्सत्यं समुपास्महे ।। १२
अन्ये ऊचुः ।
अशिरस्कं हकारान्तमशेषाकारसंस्थितम् ।
अजस्रमुच्चरन्तं स्वं तमात्मानमुपास्महे ।। १३
अन्ये ऊचुः ।
संत्यज्य हृद्गुहेशानं देवमन्यं प्रयान्ति ये ।
ते रत्नमभिवाञ्छन्ति त्यक्तहस्तस्थकौस्तुभाः ।। १४
अन्ये ऊचुः ।
सर्वाशाः किल संत्यज्य फलमेतदवाप्यते ।
येनाशाविषवल्लीनां मूलमाला विलूयते ।। १५
अन्ये ऊचुः ।
बुद्ध्वाप्यत्यन्तवैरस्यं यः पदार्थेषु दुर्मतिः ।
बध्नाति भावनां भूयो नरो नासौ स गर्दभः ।। १६
अन्ये ऊचुः ।
उत्थितानुत्थितानेतानिन्द्रियाहीन्पुनः पुनः ।
हन्याद्विवेकदण्डेन वज्रेणेव हरिर्गिरीन् ।। १७
अन्ये ऊचुः ।
उपशमसुखमाहरेत्पवित्रं
सुशमवतः शममेति साधुचेतः ।
प्रशमितमनसः स्वके स्वरूपे
भवति सुखे स्थितिरुत्तमा चिराय ।। १८
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषूपशमप्रकरणे सिद्धगीतानामाष्टमः सर्गः ।। ८ ।।