योगवासिष्ठः/प्रकरणम् ५ (उपशमप्रकरणम्)/सर्गः १०


दशमः सर्गः १०

श्रीवसिष्ठ उवाच ।
इति चिन्तयतस्तस्य पुरः संप्रविवेश ह ।
प्रतीहारः परो भानोः स्यन्दनाग्र इवारुणः ।। १
प्रतीहार उवाच ।
देव दोःस्तम्भविश्रान्तसमस्तवसुधाभर ।
संपादयोत्तिष्ठ दिनव्यापारं नृपतोचितम् ।। २
एताः कुसुमकर्पूरकुङ्कुमाम्बुघटाः स्त्रियः ।
स्नानभूमौ स्थिताः सज्जा नद्यो मूर्तियुता इव ।। ३

एताः कमलकह्लारकाननभ्रान्तषट्पदाः ।
कृताः कमलिनीपाशरचितांशुकमण्डपाः ।। ४
एताः कमलिनीतीरभुवश्छत्रैः प्रपूरिताः ।
सचामररथेभाश्वैः स्नानावसरसेविनाम् ।। ५
समग्रसुमनःपूर्णैरन्नौषधिपूरिप्लुतैः ।
सज्जीकृताः पटलकैर्देवार्चनगृहास्तथा ।। ६
स्नातः पवित्रहस्तश्च परिजप्याघमर्षणः ।
त्वामेव प्रेक्षते देव दक्षिणार्हो द्विजव्रजः ।। ७
लसच्चामरहस्ताभिः पाल्यते परमेश्वर ।
सज्जीकृतास्ते कान्ताभिः शीता भोजनभूमयः ।। ८
शीघ्रमुत्तिष्ठ भद्रं ते नियतं कार्यमाचर ।
न कालमतिवर्तन्ते महान्तः स्वेषु कर्मसु ।। ९
प्रतीहारपतावित्थमुक्तवत्यथ पार्थिवः ।
तथैव चिन्तयामास चित्रां संसारसंस्थितिम् ।। १०
कियन्मात्रमिदं नाम राज्यं सुखमिति स्थितम् ।
न प्रयोजनमेतेन ममेह क्षणभङ्गिना ।। ११
सर्वमेव परित्यज्य मिथ्याशम्बरडम्बरम् ।
एकान्त एव तिष्ठामि संशान्त इव वारिधिः ।। १२
अलमेभिरसत्प्रायैर्मम भोगविजृम्भितैः ।
त्यक्त्वा सर्वाणि कर्माणि सुखं तिष्ठामि केवलम्।।१३
चित्त चातुर्यमेतस्माद्भोगाभ्यासकुसंभ्रमात्।
त्यज जन्मजराजाड्यजालजम्बालशान्तये ।। १४
दशासु स्वासु यास्वेव संभ्रमं चित्त पश्यसि ।
ताभ्य एवाभिरचितं परमं दुःखमेष्यसि ।। १५
प्रवृत्तं सन्निवृत्तं सद्भूयोभूयश्चिरंचिरम् ।
भोगभूमिषु सर्वासु चित्तं तृप्तिं न गच्छति ।। १६
तस्मात्पापालमनया तुच्छया भोगचिन्तया ।
भवत्यकृत्रिमा तृप्तिर्येनाभिपत तं ततः ।। १७
इति संचिन्त्य जनकस्तूष्णीमेव बभूव ह ।
शान्तचापलचेतस्त्वाल्लिपिकर्मार्पितोपमः ।। १८
प्रतीहारोऽपि नोवाच गौरवेण भयेन च ।
पुनर्वाक्यं महीपानां चित्तवृत्तिषु शिक्षितः ।। १९

तूष्णीमथ क्षणं स्थित्वा जनको जनजीवितम् ।
पुनः संचिन्तयामास मनसा शमशालिना ।। २०
किमुपादेयमस्तीह यत्नात्संसाधयाम्यहम् ।
कस्मिन्वस्तुनि बध्नामि धृतिं नाशविवर्जिते ।। २१
किं मे क्रियापरतया किं मे निष्क्रिययापि वा ।
न तदस्ति विनाशेन वर्जितं यत्किलोदितम् ।। २२
क्रियावानक्रियो वास्तु कायोऽयमसदुत्थितः ।
समस्थितस्य शुद्धस्य चितः का नाम मे क्षतिः ।। २३
नाभिवाञ्छाम्यसंप्राप्तं संप्राप्तं न त्यजाम्यहम् ।
स्वस्थ आत्मनि तिष्ठामि यन्ममास्ति तदस्तु मे ।। २४
न ममेह कृतेनार्थो नाकृतेनेह कश्चन ।
क्रिययाऽक्रियया वापि यत्प्राप्तं तदसन्मयम् ।। २५
अकुर्वतः कुर्वतो वा युक्तायुक्ताः क्रिया मम ।
नाभिवाञ्छितमस्तीह यदुपादेयतां गतम् ।। २६
तदुत्थाय क्रमप्राप्तां कायोऽयं प्रकृतां क्रियाम् ।
करोत्वस्पन्दिताङ्गस्तु किमयं साधु शुष्यति ।। २७
स्थिते मनसि निष्कामे समे विगतरञ्जने ।
कायावयवजौ कार्यौ स्पन्दास्पन्दौ फले समौ ।। २८
कर्मजासु फलश्रीषु मनसा कर्तृभोक्तृते ।
तस्मिन्प्रशान्तिमायाते कृतमप्यकृतं नृणाम् ।। २९
यो निश्चयोऽन्तः पुरुषस्य रूढः
क्रियास्वसौ तन्मयतामुपैति ।
अनामयं मे पदमाहता धी-
रधीरतामन्तरलं त्यजामि ।। ३०
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपाये उपशमप्रकरणे जनकनिश्चयो नाम दशमः सर्गः ।। १० ।।