योगवासिष्ठः/प्रकरणम् ५ (उपशमप्रकरणम्)/सर्गः २२


द्वाविंशः सर्गः २२

श्रीवसिष्ठ उवाच ।
अथवा रघुवंशाख्यनभःपूर्णनिशाकर ।
बलिवद्बुद्धिभेदेन ज्ञानमासादयामलम् ।। १
श्रीराम उवाच ।
भगवन्सर्वधर्मज्ञ त्वत्प्रसादान्मया हृदि ।
प्राप्तं प्राप्तव्यमखिलं विश्रान्तं चामले पदे ।। २
शरदीवाम्बरादभ्रमदभ्रं मम चेतसः ।
विभो व्यपगतं सर्वं तृष्णाख्यं तन्महातमः ।। ३
अमृतापूरितः स्वस्थः शीतलात्मा महाद्युतिः ।
तिष्ठाम्यानन्दवानन्तः सायं पूर्णं इवोडुराट् ।। ४
अशेषसंशयाम्भोदशरत्समय किंत्वहम् ।
तृप्तिमेषां न गच्छामि वचसां वदतस्तव ।। ५
बलेर्विज्ञानसंप्राप्तिं पुनर्मद्बोधवृद्धये ।
विभो कथय खिद्यन्ते सन्तो नावनतं प्रति ।। ६
श्रीवसिष्ठ उवाच ।
श्रृणु राघव ते वक्ष्ये बलेर्वृत्तान्तमुत्तमम् ।
श्रुतेन येन तं तत्त्वबोधं प्राप्स्यसि शाश्वतम् ।। ७
अस्त्यस्मिञ्जगतः कोशे कस्मिंश्चिद्दिङ्निकुञ्जके ।
पातालमिति विख्यातो लोको भूमेरधः स्थितः ।। ८

क्षीरोदार्णवजाताभिर्दिरधाभिरमृतांशुभिः ।
क्वचिद्दानवकन्याभिर्भाति निर्विवरान्तरः ।। ९
जिह्वागणोद्दामरवैर्विलोलरसनायुगैः ।
क्वचिद्भोगिभिरापूर्णः सहस्रशतमस्तकैः ।। १०
देहाद्रिवलिताशेषविश्वोद्धरणघस्मरैः ।
क्वचिद्दनुसुतैर्व्याप्तश्चलद्भिरिव मेरुभिः ।। ११
कुम्भकूटाग्रविश्रान्तवसुधामण्डलोदरैः ।
क्वचिद्दिग्दन्तिभिर्दन्तद्रुमाद्रिभिरुपाश्रितः ।। १२
महाकटकटाशब्दत्रस्तभूतपरम्परैः ।
क्वचिद्दुर्गन्धभूताभैरधोनारकमण्डलैः ।। १३
आभूतलमभिप्रोतसप्तपातालमण्डलैः ।
क्वचिद्रत्नाकरैर्व्याप्तः पातालैर्विवरैरिव ।। १४
सुरासुरशिरःसुप्तपादाम्भोरुहपांसुना ।
क्वचिद्भगवता तेन कपिलेन पवित्रितः ।। १५
आसुरीसंभृतानन्तपूजनक्रीडनैषिणा ।
क्वचिद्भगवता तेन हाटकेशेन पालितः ।। १६
तस्मिन्नसुरदोस्तम्भधार्यमाणमहाभरे ।
बभूव दानवो राजा विरोचनसुतो बलिः ।। १७
साक्रन्देन समं सर्वैः सुरविद्याधरोरगैः ।
पादसंवाहनं यस्य सुरराजेन वाञ्छितम् ।। १८
कोशस्त्रैलोक्यरत्नानां पाता सर्वशरीरिणाम् ।
धर्ता भुवनधर्तृणां यस्य पालयिता हरिः ।। १९
ऐरावणस्य संशोषं यन्नाम्ना कटभित्तयः ।
केकयेवाहिहृन्नाड्यो जग्मुराजग्मुरार्तताम् ।। २०
प्रतापोग्रोष्मभिर्यस्य कल्पकाल इवाब्धयः ।
ययुः शोषोन्मुखाः सप्त सप्ततां कुपिताकृतेः ।। २१
यदध्वराग्र्यधूमाभ्रराजयो वलिताब्धयः ।
ब्रह्माण्डकोटरस्यास्य सदा कवचतां ययुः ।। २२
यस्य दृष्टिदृढाघातनुन्नाधारकुलाचलाः ।
विनमन्ति दिशः सर्वा लताः फलनता इव ।। २३
लीलाविजितनिःशेषभुवनाभोगभूषणः ।
दशकोटीः स वर्षाणि दैत्यो राज्यं चकार ह ।। २४
अथ गच्छत्स्वनल्पेषु युगेष्वावर्तवृत्तिषु ।
सुरासुरमहौघेषु प्रोत्पतत्सु पतत्सु च ।। २५
अजस्रमतिभुक्तेषु त्रैलोक्योदारवृत्तिषु ।
भोगेष्वभजदुद्वेगं बलिर्दानवनायकः ।। २६
मेरुश्रृङ्गशिखारत्नकृतवातायनस्थितः ।
एकदा चिन्तयामास स्वयं संसारसंस्थितिम् ।। २७
कियन्तमिदमक्षुण्णशक्तिनैव मयाधुना ।
साम्राज्यमिह कर्तव्यं विहर्तव्यं जगत्त्रये ।। २८
महता मम राष्ट्रेण त्रैलोक्याद्भुतकारिणा ।
किं वा भवति भुक्तेन भूरिभोगातिहारिणा ।। २९
आपातमात्रमधुरमावश्यकपरिक्षयम् ।
भोगोपभोगमात्रं मे किं नामेदं सुखावहम् ।। ३०
पुनर्दिनैककलनाशर्वरीसंस्थितिः पुनः ।
पुनस्तान्येव कर्माणि लज्जायै नच तुष्टये ।। ३१
पुनरालिङ्ग्यते कान्ता पुनरेव च भुज्यते ।
सेयं शिशुजनक्रीडा लज्जायै महतामिह ।। ३२
तमेव भुक्तविरसं व्यापारौघं पुनःपुनः ।
दिवसे दिवसे कुर्वन्प्राज्ञः कस्मान्न लज्जते ।। ३३
पुनर्दिनं पुना रात्रिः पुनः कार्यपरम्पराः ।
पुनःपुनरहं मन्ये प्राज्ञस्येयं विडम्बना ।। ३४
ऊर्मितां पुनरासाद्य पुनरेति निरूर्मिताम् ।
यथा जलं तथैवायं तां तामेति क्रियां जनः ।। ३५
उन्मत्तचेष्टिताकारा पुनःपुनरियं क्रिया ।
जनं हासयते प्राज्ञं बाललीलोपमा मुहुः ।। ३६
कृतयाप्यनया नित्यं क्रियया कृतकार्यया ।
कोऽर्थः स्यात्तादृशो येन पुनः कर्म न विद्यते ।। ३७
कियन्तमथवा कालमिदमाडम्वरं महत् ।
इहास्माभिरनुष्ठेयं किं तावत्समवाप्यते ।। ३८
अनन्तेयं शिशुक्रीडा वस्तुशून्यैव वस्तुतः ।
आवृत्त्या क्रियते व्यर्थमनर्थप्रसरार्थिभिः ।। ३९
फलमेकं महोदारं नेह पश्यामि किंचन ।
कार्यमस्तीतरत्प्राप्ते यस्मिन्नाम न किंचन ।। ४०
भोगादृते किमन्यत्स्यात्तद्भव्यमविनाशि यत् ।
एवं संचिन्तयाम्याशु दध्यौ मत्वेत्यसौ बलिः ।।४१
अथाभ्युवाचासुरराडाः संस्मृतमिति क्षणात् ।
स्वात्मन्येव मनस्यर्थं सभ्रूभङ्गं विमर्शयन् ।। ४२
पुरा किलेह भगवान्पृष्टोऽभूत्स विरोचनः ।
पिता मयात्मतत्त्वज्ञो दृष्टलोकपरावरः ।। ४३
यथा सकलदुःखानां सुखानां च महामते ।
यत्र सर्वे भ्रमाः शान्ताः कोऽसौ सीमान्त उच्यते ।।४४
कोपशान्तो मनोमोहः क्वातीताः सकलैषणाः ।
विरामरहितं कुत्र तात विश्रमणं चिरम् ।। ४५
किं प्राप्तेह समस्तेभ्यः प्राप्येऽस्मिंस्तृप्तिमान्पुमान् ।
किं दृष्ट्वा दर्शनं भूयो न तातोपकरोत्यलम् ।। ४६
अत्यन्तबहवोऽप्येते भोगा हि न सुखावहाः ।
क्षोभयन्ति मनो मोहे पातयन्ति सतामपि ।। ४७
तत्ताताविहतानन्दसुन्दरं किंचिदेव मे ।
तादृक्कथय यत्रस्थश्चिरं विश्रान्तिमेम्यहम् ।। ४८
इत्याकर्ण्य पुरा निशाकरकरस्पर्धालुगुच्छस्खल-
त्पुष्पापूरकृतावगुण्ठनपदस्योक्तं तले तेन मे ।
पित्रा स्वर्गहृतस्य सागरतरोः संरोपितस्याजिरे
स्फाराकाररसायनासवसमं संमोहशान्त्यै वचः ।।
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषूपशमप्रकरणे विरोचनस्मरणं नाम द्वाविंशः सर्गः ।। २२ ।।
5.23