योगवासिष्ठः/प्रकरणम् ५ (उपशमप्रकरणम्)/सर्गः २४


चतुर्विंशः सर्गः २४

बलिरुवाच ।
केनोपायेन बलवान्स तात परिजीयते ।
कोऽसावतिमहावीर्यः सर्वं प्रकथयाशु मे ।। १
विरोचन उवाच ।
मन्त्रिणस्तस्य तनय नित्याजेयस्थितेरपि ।
श्रृणु वच्मि सुसाधत्वं येनासौ परिजीयते ।। २
पुत्र युक्त्या गृहीतोऽसौ क्षणादायाति वश्यताम् ।
युक्तिं विना दहत्येष आशीविष इवोद्धतः ।। ३
बालवल्लालयित्वैनं युक्त्या नियमयन्ति ये ।
राजानं तं समालोक्य पदमासादयन्ति ते ।। ४
दृष्टे तस्मिन्महीपाले स मन्त्री वशमेति च ।
तस्मिंश्च मन्त्रिण्याक्रान्ते स राजा दृश्यते पुनः ।। ५
यावन्न दृष्टो राजासौ तावन्मन्त्री न जीयते ।
मन्त्री च यावन्न जितस्तावद्राजा न दृश्यते ।। ६
राजन्यदृष्टे दुर्मन्त्री स दुःखाय फलत्यति ।
मन्त्रिण्यनिर्जिते राजा सोऽत्यन्तं यात्यदृश्यताम् ।।७
अभ्यासेनोभयं तस्मात्सममेव समारभेत् ।
राजसंदर्शनं तस्य मन्त्रिणश्च पराजयम् ।। ८
पौरुषेण प्रयत्नेन स्वभ्यासेन शनैःशनैः ।
द्वयं संपाद्य यत्नेन देशमाप्नोषि तं शुभम् ।। ९
त्वमभ्यासे फलीभूते तं देशमभिगच्छसि ।
यदि दैत्येन्द्र तद्भूयो मनागपि न शोचसि ।। १०
संशान्तसकलायासा नित्यप्रमुदिताशयाः ।
साधवस्तत्र तिष्ठन्ति प्रशान्ताशेषसंशयाः ।। ११
श्रृणु कः पुत्र देशोऽसौ सर्वं प्रकटयामि ते ।
देशनाम्ना मयोक्तस्ते मोक्षः सकलदुःखहा ।। १२
राजा तु तत्र भगवानात्मा सर्वपदातिगः ।

तेन मन्त्री कृतः प्राज्ञो मनो नाम महामते ।। १३
मनोनिष्ठतया विश्वमिदं परिणतिं गतम् ।
घटत्वेनेव मृत्पिण्डो धूमोऽम्बुदतयैव च ।। १४
तस्मिञ्जिते जितं सर्वं सर्वमासादितं भवेत् ।
दुर्जयं तद्विजानीयात्युक्त्यैव परिजीयते ।। १५
बलिरुवाच ।
या युक्तिर्भगवंस्तस्य चित्तस्याक्रमणे स्फुटम् ।
तां मे कथय तत्तावद्यथा जेष्यामि दारुणम् ।। १६
विरोचन उवाच ।
विषयान्प्रति भोः पुत्र सर्वानेव हि सर्वथा ।
अनास्था परमा ह्येषा सा युक्तिर्मनसो जये ।। १७
एषैव परमा युक्तिरनयैव महामदः ।
स्वमनोमत्तमातङ्गो द्रागित्येवावदम्यते ।। १८
एषा ह्यत्यन्तदुष्प्रापा सुप्रापा च महामते ।
अनभ्यस्तातिदुष्प्रापा स्वभ्यस्ता प्राप्यते सुखम् ।।१९
क्रमादभ्यस्यमानैषा विषयारतिरात्मज ।
सर्वतः स्फुटतामेति सेकसिक्ता लता यथा ।। २०
नासाद्यते ह्यनभ्यस्ता कांक्षतापि शठात्मना ।
पुत्र शालिरिवाव्युप्ता तस्मादेनां समाहर ।। २१
तावद्भ्रमन्ति दुःखेषु संसारावटवासिनः ।
विरतिं विषयेष्वेते यावन्नायान्ति देहिनः ।। २२
अभ्यासेन विना कश्चिन्नाप्नोति विषयारतिम् ।
अप्यत्यन्तबलो देही देशान्तरमिवागतिः ।। २३
ध्येयत्यागमतोऽजस्रं ध्यायता देहधारिणा ।
भोगेष्वरतिरभ्यासाद्वृद्धिं नेया लता यथा ।। २४
पुरुषार्थादृते पुत्र नेह संप्राप्यते शुभम् ।
क्रियाफलं परिप्राप्तुं हर्षामर्षविवर्जितम् ।। २५
दैवमित्युच्यते लोके न दैवं देहवत्क्वचित् ।
अवश्यं भवितव्याख्या स्वेहया नियतिश्च या ।। २६ ।
उच्यते दैवशब्देन सा नरैरेव नेतरैः ।
यद्यस्येह यदा यत्र संपन्नं समतां गतम् ।। २७
हर्षामर्षविनाशाय तद्दैवमिति कथ्यते ।
दैवं नियतिरूपं च पौरुषेणोपजीयते ।। २८
सम्यग्ज्ञानविलासेन मृगतृष्णाभ्रमो यथा ।
यथा संकल्प्यते यद्यत्पौरुषेण तथैव तत् ।। २९
फलवत्तागृहीतत्वे फलवत्तासुखप्रदम् ।
कर्ता नो मन एवेह यत्कल्पयति तत्तथा ।। ३०
नियतिं यादृशीमेतत्संकल्पयति सा तथा ।
नियतानियतान्कांश्चिदर्थाननियतानपि ।। ३१
करोति चित्तं तेनैतच्चित्तं नियतियोजकम् ।
नियत्यां नियतिं कुर्वन्कदाचित्स्वार्थनामिकाम् ।। ३२
स्फुरत्यस्मिञ्जगत्कोशे जीवो व्योम्नीव मारुतः ।
नियत्या विहितं कुर्वन्कदाचिन्नियतिं चरः ।। ३३
संज्ञार्थं रूढनियतिशब्दः स्फुरति सानुवत् ।
तस्माद्यावन्मनस्तावन्न दैवं नियतिर्न च ।। ३४

मनस्यस्तंगते साधो यद्भवत्यस्तु तत्तथा ।
जीवो हि पुरुषो जातः पौरुषेण स यद्यथा ।। ३९
संकल्पयति लोकेऽस्मिंस्तत्तथा तस्य नान्यथा ।
पुरुषार्थादृते पुत्र न किंचिदिह विद्यते ।। ३६
परं पौरुषमाश्रित्य भोगेष्वरतिमाहरेत् ।
न भोगेष्वरतिर्यावज्जायते भवनाशनी ।। ३७
न परा निर्वृतिस्तावत्प्राप्यते जयदायिनी ।
विषयेषु रतिर्यावत्स्थिता संमोहकारिणी ।। ३८
तावद्भवदशादोला विलोलान्दोलनस्थितिः ।
अभ्यासेन विना पुत्र न कदाचन दुःखदा ।। ३९
भोगभोगिभरप्रोता कदाशा विनिवर्तते ।। ४०
बलिरुवाच
भोगेष्वरतिरेवान्तः कथं सर्वासुरेश्वर ।
स्थितिमायाति जीवस्य दीर्घजीवितदायिनी ।। ४१
विरोचन उवाच ।
आत्मावलोकनलता फलिनी फलति स्फुटम् ।
जीवस्य भोगेष्वरतिं शरदीव महालता ।। ४२
आत्मावलोकनेनैषा विषयारतिरुत्तमा ।
हृदये स्थितिमायाति श्रीरिवाम्भोजकोटरे ।। ४३
तस्मात्प्रज्ञानिकाषेण विचारेणातिचारुणा ।
देवमालोकयेद्भोगाद्रतिं चावहरेत्समम् ।। ४४
चित्तस्य भोगैर्द्वौ भागौ शास्त्रेणैकं प्रपूरयेत् ।
गुरुशुश्रूषया चैकमव्युत्पन्नस्य सत्क्रमे ।। ४५
किंचिद्व्युत्पत्तियुक्तस्य भागं भोगैः प्रपूरयेत् ।
गुरुशुश्रूषया भागौ भागं शास्त्रार्थचिन्तया ।। ४६
व्युत्पत्तिमनुयातस्य पूरयेच्चेतसोऽन्वहम् ।
द्वौ भागौ शास्त्रवैराग्यैर्द्वौ ध्यानगुरुपूजया ।। ४७
साधुतामागतो जीवो योग्यो ज्ञानकथाक्रमे ।
निर्मलाकृतिरादत्ते पट उत्तमरञ्जनाम् ।। ४८
शनैः शनैर्लालनीयं युक्तिभिः पावनोक्तिभिः ।
शास्त्रार्थपरिणामेन पालयेच्चित्तबालकम् ।। ४९
परे परिणतं ज्ञाने शिथिलीभूतदुर्ग्रहम् ।
ज्योत्स्नाऽहीनस्फटिकवच्चेतः शीतं विराजते ।। ५०
प्रज्ञया परया ऋज्व्या भोगानामीश्वरस्य च ।
सममेवाथ देहस्य रूपमाश्ववलोकयेत् ।। ५१
प्रज्ञाविचारवशतः सममेव सदा सुत ।

आत्मावलोकनं तृष्णासंत्यागं च समाहरेत् ।। ५२
परदृष्टौ वितृष्णत्वं तृष्णाभावे च दृक्परा ।
एते मिथः स्थिते दृष्टी तेजोदीपदशे यथा ।। ५३
भोगपूगे गतास्वादे दृष्टे देवे परावरे ।
परे ब्रह्मणि विश्रान्तिरनन्तोदेति शाश्वती ।। ५४
विषयाकलितानन्दमनन्तोदेति निर्वृतिः ।
न कदाचन जीवानामात्मविश्रवणादृते ।। ५५
यज्ञदानतपस्तीर्थसेवाभिर्जायते सुखम् ।
न तपोभिर्न दानेन न तीर्थैरपि जायते ।। ५६
भोगेषु विरतिर्जन्तोः स्वभावालोकनादृते ।
कयाचिदपि नो युक्त्या बुद्धिरात्मावलोकने ।। ५७
स्वप्रयत्नादृते पुंसः श्रेयसे संप्रवर्तते ।
भोगसंत्यागसंप्राप्तपरमार्थादृते सुत ।। ५८
न ब्रह्मपदविश्रान्तिसुखमासाद्यते परम् ।
आब्रह्मस्तम्बपर्यन्ते जगत्यस्मिन्न कुत्रचित् ।। '५९
तद्वदाश्वस्यते भाते परमे कारणे यथा ।
पौरुषं यत्नमाश्रित्य दैवं कृत्वा सुदूरतः ।। ६०
भोगान्विगर्हयेत्प्राज्ञः श्रेयोद्वारदृढार्गलान् ।
प्रौढायां भोगगर्हायां विचार उपजायते ।। ६१
वृद्धायां प्रावृषि श्रीमांशरत्काल इवामलः ।
विचारो भोगगर्हातो विचाराद्भोगगर्हणम् ।। ६२
अन्योन्यमेते पूर्येते समुद्रजलदाविव ।
भोगगर्हाविचारश्च स्वात्मालोकश्च शाश्वतः ।। ६३
अन्योन्यं साधयन्त्यर्थं सुस्निग्धाः सुहृदो यथा ।
पूर्वं दैवमनादृत्य पौरुषेण प्रयत्नतः ।। ६४
दन्तैर्दन्तान्प्रसंपीड्य भोगेष्वरतिमाहरेत् ।
देशाचाराविरुद्धेन बान्धवैकमतेन च ।। ६५
पौरुषेण क्रमेणादौ धनानि समुपार्जयेत् ।
धनैरभ्याहरेद्भव्यान्सुजनान्गुणशालिनः ।। ६६
प्रवर्तते समासङ्गात्तेषां भोगविगर्हणा ।

ततो विचारस्तदनु ज्ञानं शास्त्रार्थसंग्रहः ।। ६७
ततः क्रमेण परमपदप्राप्तिः प्रजायते ।
यदा तूपरते काले विषयेभ्यो विरम्यसे ।। ६८
तदा विचारवशतः परमं पदमेष्यसि ।
सम्यक्प्राप्स्यसि विश्रान्तिमात्मन्यत्यन्तपावने ।। ६९
न पुनः कल्पनापङ्के दुःखाय निपतिष्यसि ।
स्थितापि नास्था ते शुद्ध नमस्तेऽस्तु सदाशिव ।। ७०
देशक्रमेण धनमल्पविगर्हणेन
तेनाङ्ग साधुजनमर्जय मानपूर्वम् ।
तत्संगमोत्थविषयाद्यवहेलनेन
सम्यग्विचारविभवेन तवात्मलाभः ।। ७१
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषूपशमप्रकरणे चित्तविचिकित्सायोगोपदेशो नाम चतुर्विंशः सर्गः ।।२४।।