योगवासिष्ठः/प्रकरणम् ५ (उपशमप्रकरणम्)/सर्गः २५


पञ्चविंशः सर्गः २५

बलिरुवाच ।
एतन्मे कथितं पूर्वं पित्रा चारुविचारिणा ।
इदानीं संस्मृतं दिष्ट्या संप्रबोधमहं गतः ।। १
अद्येयं मम संजाता भोगान्प्रत्यरतिः स्फुटम् ।
दिष्ट्या शमसुखं स्वच्छं विशाम्यमृतशीतलम् ।। २
पुनरापूरयन्नाशां पुनरप्याहरन्धनम् ।

पुनरावर्जयन्कातां खिन्नोऽस्मि विभवस्थितौ । ३
अहो नु खलु रम्येयं शमभूः शीतलान्तरा ।
सर्वा एव शमं यान्ति सुखदुःखदृशः शमे ।। ४
शाम्यामि परिनिर्वामि सुखमासे शमे स्थितः ।
अयमन्तः प्रहृष्यामि चन्द्रबिम्ब इवार्पितः ।। ५
उत्ताण्डवन्मनोरंहःप्रोषितोरुशरीरकम् ।
अनारतपरिक्षोभं हा दुःखं विभवार्जनम् ।। ६
अङ्गमङ्गेन संपीड्य मांसं मांसेन च स्त्रियः ।
पुराहमभवं प्रीतो यत्तन्मोहविजृम्भितम् ।। ७
दृष्टान्तदृष्टयो दृष्टा भुक्तं भोक्तव्यमक्षतम् ।
आक्रान्तमखिलं भूतं जातं किमिव शोभनम् ।। ८
पुनस्तान्येव तान्येव तत्रेहान्यत्र वापि च ।
इतश्चेतश्च वस्तूनि नापूर्वं नाम किंचन ।। ९
सर्वमेव परित्यज्य परिहृत्य धिया स्वयम् ।
स्वस्थ एवावतिष्ठेऽहं पूर्णात्पूर्ण इवात्मनि ।। १०
पाताले भूतले स्वर्गे स्त्रियो रत्नोपलादयः ।
सारं तदपि तुच्छेन कालेनाशु निगीर्यते ।। ११
एतावन्तमहं कालं भृशं बालोऽभवं पुरा ।
यः कुर्वन्द्वेषममरैस्तुच्छया जगदिच्छया ।। १२
मनोनिर्माणमात्रेण जगन्नाम्ना महाधिना ।

त्यक्तेनानेनकोऽर्थः स्यात्को नु रागोमहात्मनः ।।१३
कष्टं चिरतरं कालमनर्थोऽर्थधिया मया ।
अज्ञानमदमत्तेन कालेन स्वेन सेवितः ।। १४
तरत्तरलतृष्णेन किमिवास्मिञ्जगत्त्रयम् ।
मया न कृतमज्ञेन पश्चात्तापाभिवृद्धये ।। १५
एतया तदलं मेऽस्तु तुच्छया पूर्वचिन्तया ।
पौरुषं याति साफल्यं वर्तमानचिकित्सया ।। १६
अद्यापरिमिताकारकारणैकतयात्मनि ।
सर्वतः सुखमभ्येति रसायनमिवार्णवे ।। १७
कोऽयं तावदहं किं स्यादात्मेत्यात्मावलोकनम् ।
पृच्छाम्यौशनसं नाथं नूनमज्ञानशान्तये ।। १८
संचिन्तयामि परमेश्वरमाशु शुक्र-
मुद्यत्प्रसादमथ तेन गिरोपदिष्टे ।
तिष्ठाम्यनन्तविभवे स्वयमात्मनात्म-
न्यक्षीणमर्थमुपदेशगिरः फलन्ति ।। १९
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० उपशमप्रकरणे बलिचिन्तासिद्धान्तयोगोपदेशो नाम पञ्चविंशः सर्गः ।। २५ ।।