योगवासिष्ठः/प्रकरणम् ५ (उपशमप्रकरणम्)/सर्गः २६


षड्विंशः सर्गः २६

श्रीवसिष्ठ उवाच ।
इति संचिन्त्य बलवान्बलिरामीलितेक्षणः ।
दध्यौ कमलपत्राक्षं शुक्रमाकाशमन्दिरम् ।। १
सर्वस्थं चिन्तयानं तु नित्यध्यानोऽथ भार्गवः ।
चेतःस्थं ज्ञातवान् शिष्यं बलिं गुर्वर्थिनं पुरे ।। २
अथ सर्वगतानन्तचिदात्मा भार्गवः प्रभुः ।
आनिनाय स देहं स्वं रत्नवातायनं बलेः ।। ३
गुरुदेहप्रभाजालपरिमृष्टतनुर्बलिः ।
बुबुधे प्रातरर्कांशुसंबोधितमिवाम्बुजम् ।। ४
तत्र रत्नार्घ्यदानेन मन्दारकुसुमोत्करैः ।
पादाभिवन्दनैरेनं पूजयामास भार्गवम् ।। ५
रत्नार्घ्यपरिपूर्णाङ्गं कृतमन्दारशेखरम् ।
महार्हासनविश्रान्तमथोवाच गुरुं बलिः ।। ६
बलिरुवाच ।
भगवंस्त्वत्प्रसादोत्था प्रतिभेयं पुरस्तव ।
नियोजयति मां वक्तुं कार्यं कर्तुमिवार्कभाः ।। ७
भोगान्प्रति विरक्तोऽस्मि महासंमोहदायिनः ।
तत्तत्त्वं ज्ञातुमिच्छामि महासंमोहहारि यत् ।। ८
कियन्मात्रमिदं भोगजालं किमयमेव वा ।
कोऽहं कस्त्वं किमेते वा लोका इति वदाशु मे ।। ९

शुक्र उवाच ।
बहुनात्र किमुक्तेन खं गन्तुं यत्नवानहम् ।
सर्वदानवराजेन्द्र सारं संक्षेपतः शृणु ।। १०
चिदिहास्ति हि चिन्मात्रमिदं चिन्मयमेव च ।
चित्त्वं चिदहमेते च लोकाश्चिदिति संग्रहः ।। ११
भव्योऽसि चेत्तदेतस्मात्सर्वमाप्नोषि निश्चयात् ।
नो चेत्तद्वह्वपि प्रोक्तं त्वयि भस्मनि हूयते ।। १२
चिच्चेत्यकलनाबन्धस्तन्मुक्तिर्मुक्तिरुच्यते ।
चिदचेत्याखिलात्मेति सर्वसिद्धान्तसंग्रहः ।। १३
एनं निश्चयमादाय विलोकयसि हेलया ।
स्वयमेवात्मनात्मानमनन्तं पदमाप्स्यसि ।। १४
खं व्रजाम्यहमत्रैव मुनयः सप्त संगताः ।
केनापि सुरकार्येण वस्तव्यं तत्र वै मया ।। १५
राजन्यावदयं देहस्तावन्मुक्तधियामपि ।
यथाप्राप्तक्रियात्यागो रोचते न स्वभावतः ।। १६
इति कथितवताथ भार्गवेण
स्फुटजलराशिपथा महाजवेन ।
प्लुतमलिशबले नभोन्तराले
तरलतरङ्गवदाकुले ग्रहौघैः ।। १७ ।।
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषूपशमप्रकरणे बल्युपदेशयोगो नाम षड्विंशः सर्गः ।। २६ ।।