योगवासिष्ठः/प्रकरणम् ५ (उपशमप्रकरणम्)/सर्गः २७


सप्तविंशः सर्गः २७

श्रीवसिष्ठ उवाच ।
सुरासुरसभाज्येष्ठे तस्मिन्भृगुसुते गते ।
मनसा चिन्तयामास बलिर्बुद्धिमतां वरः ।। १
युक्तमुक्तं भगवता चिदेवेदं जगत्त्रयम् ।
चिदहं चिदिमे लोकाश्चिदाशाश्चिदियं क्रिया ।। २
सबाह्याभ्यन्तरं सर्वं चिदेव परमार्थतः ।
अस्ति चिद्व्यतिरेकेण नेह किंचन कुत्रचित् ।। ३
अयमादित्य इत्यर्को न चिता यदि चेत्यते ।
तदर्कतमसोर्भेदः क इहेवोपलभ्यते ।। ४
इयं भूरिति भूरेषा चिता यदि न चेत्यते ।
भूमेः किं नाम भूमित्वं तद्भव्ये भव्यतां गतम् ।। ५
इमा दिशो दिश इति चेत्यन्ते न चिता यदि ।
तत्किं नाम दिशां दिक्त्वं शैलानां चापि काद्रिता ।। ६
इदं जगज्जगदिति चिता यदि न चेत्यते ।
तत्किं जगत्त्वं जगतो नभस्त्वं नभसोऽथ किम् ।। ७
कायोऽयं पर्वताकारश्चिता यदि न चेत्यते ।
तत्किं नाम शरीरत्वं शरीरस्य शरीरिणाम् ।। ८
चिदिन्द्रियाणि चित्कायश्चिन्मनश्चित्तदेषणा ।
चिदन्तश्चिद्बहिश्चित्खं चिद्भावाश्चिद्भवस्थितिः ।। ९
चितैवैनमहं सर्वं स्पर्शनैषणपूर्वकम् ।
करोमि मात्रासंस्पर्शं शरीरेण न किंचन ।। १०
किमनेन शरीरेण काष्ठलोष्टसमेन मे ।
अशेषजगदेकात्मा चिदहं चेतनात्मकः ।। ११
अहं चिदम्बरे भानावहं चिद्भूतपञ्जरे ।
सुरासुरेषु चिदहं स्थावरेषु चरेषु च ।। १२
चिदस्तीह द्वितीया हि कल्पनैव न विद्यते ।
द्वित्वस्यासंभवाल्लोके कः शत्रुः कश्च वा सुहृत् ।। १३
बलिनाम्नः शरीरस्य च्छिन्ने शिरसि भासुरे ।
चितः किं तद्भवेच्छिन्नं सर्वलोकावपूरणात् ।। १४
चिता संचेतितो द्वेषो द्वेषो भवति नान्यथा ।
तस्माद्द्वेषादयः सर्वे भावाभावाश्चिदात्मकाः ।। १५
न चितो व्यतिरेकेण प्रविचार्यापि किंचन ।
आसाद्यते किल स्फारादस्मात्त्रिभुवनोदरात् ।। १६
न द्वेषोऽस्ति न रागोऽस्ति न मनो नास्य वृत्तयः ।
चिन्मात्रस्यातिशुद्धस्य विकल्पकलना कुतः ।। १७
चिदहं सर्वगो व्यापी नित्यानन्दमयात्मकः ।
विकल्पकलनातीतो द्वितीयांशविवर्जितः ।। १८
चितश्चिदिति यन्नाम निर्नामाया न नाम तत् ।
शब्दात्मिकैषा चिच्छक्तिः परिस्फुरति सर्वगा ।। १९
दृश्यदर्शननिर्मुक्तकेवलामलरूपवान् ।
नित्योदितो निराभासो द्रष्टास्मि परमेश्वरः ।। २०
कल्पनाविकलाकारः कालकान्तकलामयः ।
आभासमात्रमुदितो नित्याभासविवर्जितः ।। २१
भारूपैकस्वरूपेऽस्मिन्स्वरूपेण जयाम्यहम् ।
चेत्यरञ्जनरिक्ताय विमुक्ताय महात्मने ।। २२
प्रत्यक्चेतनरूपाय स्वरूपाय नमोऽस्तु ते ।
चितये चेत्यमुक्ताय युक्त्या युक्ताय योग्यया ।। २३
सर्वावभासदीपाय मह्यमेव नमोऽस्तु ते ।
चेत्यनिर्मुक्तचिद्रूपं विष्वग्विश्वावपूरकम् ।। २४
संशान्तसर्वसंवेद्यं सच्चिन्मात्रमहं महत् ।
आकाशवदनन्तोऽहमप्यणोरणुराततः ।। २५
नासादयन्ति मामेताः सुखदुःखदशा दृशः ।
संवेदनमसंवेद्यमचेत्यं चेतनं ततम् ।। २६
न शक्ता मां परिच्छेत्तुं भावाभावा जगद्गताः ।
अथ चैते जगद्भावाः परिच्छिन्दन्तु मामिमम् ।। २७
यथाभिमतमेवैते मत्तो न व्यतिरेकिणः ।
यदि स्वभावभूतेन वस्तुना वस्तु नीयते ।। २८
ह्रियते दीयते वापि तत्किं कस्य किल क्षतम् ।
सर्वदा सर्वमेवाहं सर्वकृत्सर्वसंगतः ।। २९
चेत्यमस्म्यहमेवैतन्न किंचिदपि चोदितम् ।
किं संकल्पविकल्पाभ्यां चितं चिदियमेकिका ।। ३०
संक्षोभयाम्यहं तावच्छाम्याम्यात्मनि पावने ।
इति संचिन्तयन्नेव बलिः परमकोविदः ।। ३१
ओंकारादर्धमात्रार्थं भावयन्मौनमास्थितः ।
संशान्तसर्वसंकल्पः प्रशान्तकलनागणः ।। ३२
निःशङ्कमपि दूरास्तचेत्यचिन्तकचिन्तनः ।
ध्यातृध्येयध्यानहीनो निर्मलः शान्तवासनः ।। ३३
बभूवावातदीपाभो बलिः प्राप्तमहापदः ।
उपशान्तमनास्तत्र रत्नवातायने बलिः ।
अवसद्बहुकालं स समुत्कीर्ण इवोपले ।। ३४
प्रशमितैषणया परिपूर्णया
मननदोषदशोज्झितयैतया ।
बलिरराजत निर्मलसत्तया
विघनमच्छतयेव शरन्नभः ।। ३५
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये देवदूतोक्ते मो० उपशमप्रकरणे बलिविश्रान्तिर्नाम सप्तविंशः सर्गः ।। २७ ।।