योगवासिष्ठः/प्रकरणम् ५ (उपशमप्रकरणम्)/सर्गः ३०


त्रिंशः सर्गः ३०

श्रीवसिष्ठ उवाच ।
अथेमं परमं राम विज्ञानाभिगमे क्रमम् ।
श्रृणु दैत्येश्वरः सिद्धः प्रह्रादः स्वात्मना यथा ।। १
आसीत्पातालकुहरे विद्रावितसुरासुरः ।
हिरण्यकशिपुर्नाम नारायणपराक्रमः ।। २
आक्रान्तभुवनाभोगः स जहार हरेर्जगत् ।
षट्पदस्य बृहत्पत्रं राजहंस इवाम्बुजम् ।। ३
चकार जगतां राज्यं समाक्रान्तसुरासरः ।
दन्ती निरस्तहंसौघो नलिन्यामलिनामिव ।। ४
अथासावसुराधीशः कुर्वंस्त्रिभुवनेशताम् ।
कालेन सुषुवे पुत्रानङ्कुरानिव माधवः ।। ५
तेऽवर्धन्ताचिरेणैव तेजस्यूर्जितबालकाः ।
दशार्कांशुशतानीव व्योमाक्रान्तिविलासिनः ।। ५
प्रह्रादनामा बलवान्प्रधानात्मा बभूव ह ।
तेषां मध्ये महार्हाणां मणीनामिव कौस्तुभः ।। ७
तेनाराजत पुत्रेण हिरण्यकशिपुर्भृशम् ।
सर्वसौन्दर्ययुक्तेन वसन्तेनेव वत्सरः ।। ८
अथ पुत्रसहायोऽसौ बलकोशसमन्वितः ।
आजगाम मदं दैत्यस्त्रिगण्डगलितेभवत् ।। ९

तत्तापाक्रान्तितापेन त्रिजगन्ति विकासिना ।
कल्पान्तसूर्यगणवन्नवयैव करश्रिया ।। १०
अखिद्यन्तास्य तेनाथ सूर्येन्दुप्रमुखाः सुराः ।
दुर्विलासविलोलस्य बालस्येव स्वबन्धवः ।। ११
प्रार्थयांचक्रिरेऽथाजं दैत्येन्द्रेभपतेर्वधे ।
न क्षमन्ते महान्तोपि पौनःपुन्येन दुष्क्रियाम् ।। १२
ततः प्रलयपर्यस्तजगद्धर्घरजृम्भितम् ।
दिग्दन्तिदशनप्रख्यनखवज्रादिजृम्भितम् ।। १३
स्थिरविद्युल्लताजालभासुरद्विजमण्डलम् ।
दशदिक्कोटरोद्भान्तज्वलज्ज्वलनकुण्डलम् ।। १४
समस्तकुलशैलेन्द्रपिण्डपीठोद्भटोदरम् ।
दोर्द्रुमाधूतनिर्धूतस्फुरद्ब्रह्माण्डखर्परम् ।। १५
वदनोदरनिष्क्रान्तवातोत्सारितपर्वतम् ।
त्रिजगद्दहनोद्युक्तकोपकल्पाग्निगर्वितम् ।। १६
सटाविकटपीनांसस्पन्दप्रेरितभास्करम् ।
रोमकूपलसद्वह्निपुञ्जापिञ्जरपर्वतम् ।। १७
कुलाचलमहाकुड्यघटनोद्भटदिक्तटम् ।
सर्वावयवनिष्क्रान्तपट्टिशप्रासतोमरम् ।। १८
नारसिंहं वपुः कृत्वा माधवोऽहन्महासुरम् ।
लसत्कटकटारावं तुरङ्गममिव द्विपः ।। १९
पौरमासुरमुद्वान्तैददाहेक्षणवह्निभिः ।
स सर्वभूतकल्पान्ते जगज्जालमिवानलः ।। २०
नृसिंहमारुते तस्मिन्भृशं क्षोभमुपागते ।।
विस्फूर्जितघनास्फोटैरेकार्णव इवाकुले ।। २१
दुद्रुवुर्दानवौघास्ते दिग्ज्वलन्मशका इव ।
उपाययुरदृश्यत्वं दीपा इव गतत्विषः ।। २२
अथ विद्रुतदैत्येन्द्रं दग्धान्तःपुरमण्डलम् ।
बभूव पातालतलं कल्पक्षुण्णजगत्समम् ।। २३
अकालकल्पान्तविधौ हत्वा दैत्यं शनैर्विभौ ।
क्वापि याते समाश्वस्तसुरसंरम्भपूजिते ।। २४
मृतशिष्टा दनुसुताः प्रह्रादपरिपालिताः ।
दग्धं तं देशमाजग्मुः सरः शुष्कमिवाण्डजाः ।। २५
तत्र कालोचितां कृत्वा स्वनाशपरिदेवनाम् ।
और्ध्वदेहिकसत्कारं चक्रुः प्रेतेषु बन्धुषु ।। २६
हतबन्धुजनं प्लुष्टबन्धुबान्धवमण्डलम् ।
शनैराश्वासयामासुर्मृतशिष्टं स्वकं जनम् ।। २७
चित्रार्पितोपमदुराकृतयो निरीहा
दीनाशया हि महताम्बुरुहोपमानाः ।
शोकोपतप्तमनसोऽसुरनायकास्ते
दग्धद्रुमा इव निरस्तविकारमासन् ।। २८
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मो० उपशमप्रकरणे प्रह्लादविश्रान्तौ हिरण्यकशिपुवधो नाम त्रिंशः सर्गः ।। ३० ।।