योगवासिष्ठः/प्रकरणम् ५ (उपशमप्रकरणम्)/सर्गः ३४


चतुस्त्रिंशः सर्गः ३४

श्रीभगवानुवाच ।
वरं गुणनिधे दैत्यकुलचूडामहामणे ।
गृहाणाभिमतं भूयो जन्म दुःखोपशान्तये ।। १
प्रह्लाद उवाच ।
सर्वसंकल्पफलद सर्वलोकान्तरस्थित ।
यदुदारतमं वेत्सि तदेवादिश मे विभो ।। २
श्रीभगवानुवाच ।
सर्वसंभ्रमसंशान्त्यै परमाय फलाय च ।
ब्रह्मविश्रान्तिपर्यन्तो विचारोऽस्तु तवानघ ।। ३
श्रीवसिष्ठ उवाच ।
इत्युक्त्वा दितिपुत्रेन्द्रं विष्णुरन्तरधीयत ।
कृतघर्घरनिर्ह्रादस्तरङ्गस्तोयधेरिव ।। ४
विष्णावन्तर्हिते देवे पूजायां कुसुमाञ्जलिम् ।
पाश्चात्यं दानवस्त्वक्त्वा मणिरत्नपरिष्कृतम् ।। ५
पद्मासनस्थोऽतिमुदा ह्युपविश्य वरासने ।
स्तोत्रपाठविधावन्तश्चिन्तयामास चेतसा ।। ६
विचारवानेव भवान्भवत्विति भवारिणा ।
देवेनोक्तोऽस्मि तेनान्तः करोम्यात्मविचारणम् ।। ७
किमहं नाम तावत्स्यां योऽस्मिन्भुवनडम्बरे ।
वच्मि गच्छामि तिष्ठामि प्रयत्नेनाहरामि च ।। ८
जगत्तावदिदं नाहं सवृक्षतृणपर्वतम् ।
यद्बाह्यमलमत्यन्तं तत्स्यां कथमहं किल ।। ९
असन्नभ्युदितो मूकः पवनैः स्फुरितः क्षणम् ।
कालेनाल्पेन विलयी देहो नाहमचेतनः ।। १०
जडया कर्णशष्कुल्या कल्प्यमानः क्षणक्षयी ।
शून्याकृतिः शून्यभवः शब्दो नाहमचेतनः ।। ११
त्वचा क्षणविनाशिन्या प्राप्यमप्राप्यमप्यथ ।
चित्प्रसादोपलब्धात्मस्पर्शनं नास्म्यचेतनम् ।। १२
बद्धात्मा जिह्वया तुच्छो लोलया लोलसत्तया ।
स्वल्पस्पन्दो द्रव्यनिष्ठो रसो नाहमचेतनः ।। १३
दृश्यदर्शनयोर्लीनं क्षयिक्षणविनाशिनोः ।
केवले द्रष्टरि क्षीणं रूपं नाहमचेतनम् ।। १४
नासयाप्यन्धजडया क्षयिण्या परिकल्पितः ।
पेलवोऽनियताकारो गन्धो नाहमचेतनः ।। १५
निर्ममोऽमननः शान्तो गतपञ्चेन्द्रियभ्रमः ।
शुद्धचेतन एवाहं कलाकलनवर्जितः ।। १६
चेत्यवर्जितचिन्मात्रमहमेषोऽवभासकः ।
सबाह्याभ्यन्तरव्यापी निष्कलामलसन्मयः ।। १७
अनेन चेतनेनेमे सर्वे घटपटादयः ।
सूर्यान्ता अवभास्यन्ते दीपेनोत्तमतेजसा ।। १८
आ इदानीं स्मृतं सत्यमेतत्तदखिलं मया ।
निर्विकल्पचिदाभास एष आत्मास्मि सर्वगः ।। १९
अनेनैताः स्फुरन्तीह विचित्रेन्द्रियवृत्तयः ।
तेजसान्तःप्रकाशेन यथाग्निकणपङ्क्तयः ।। २०
अनेनैताः स्फुरन्तीह विचित्रेन्द्रियपङ्क्तयः ।
सर्वगेन निदाघेन यथा मरुमरीचिकाः ।। २१
अनेनैतत्पदार्थानां वस्तुत्वं प्रतिपाद्यते ।
शुक्लादिगुणवत्त्वं स्वं प्रदीपेनेव वाससाम् ।। २२
असावेव हि भूतानां सर्वेषामेव जाग्रताम् ।
सर्वानुभविताभूमिरात्मा मुकुरवत्स्थितः ।। २३
तस्यैकस्याविकल्पस्य चिद्दीपस्य प्रसादतः ।
उष्णोऽर्कः शिशिरश्चन्द्रो घनोऽद्रिर्विद्रुतं पयः ।। २४
सातत्येनानुभूतानां सर्वेषां च जगत्स्थितौ ।
एतत्कारणमाद्यं तत्कारणं नास्य विद्यते। ।। २५
सातत्येनानुभूतानां पदार्थानामनेन तत् ।
पदार्थत्वमुदेत्युच्चैः प्रतापेनेव तप्तता ।। २६
अनाकारात्कारणाच्च सर्वकारणकारणात् ।
एतस्मादिदमुत्पन्नं जगच्छैत्यं हिमादिव ।। २७
ब्रह्मविष्ण्विन्द्ररुद्राणां कारणानां जगत्स्थितौ ।
एतत्कारणमाद्यं तत्कारणं नास्य विद्यते ।। २८
चिच्चेत्यद्रष्टदृश्यादिनामभिर्वर्जितात्मने ।
स्वयं सकृद्विभाताय मह्यमस्मै नमो नमः ।। २९
एतस्मिन्सर्वभूतानि निर्विकल्पचिदात्मनि ।
गुणभूतानि भूतेशे तिष्ठन्ति विविशन्ति च ।। ३०
यत्किलानेन कलितं चेतनेनान्तरात्मना ।
तत्तद्भवति सर्वत्र नेतरत्सदपि स्थितम् ।। ३१
यच्चिता कलितं किंचित्तदाप्नोति निजं पदम् ।
यच्चिताकलितं नेह तत्सदप्यन्तमागतम् ।। ३२
इमे घटपटाकाराः पदार्थशतपङ्क्तयः ।
जागत्यो विपुलादर्शे ह्यस्मिन्व्योमनि बिम्बिताः।।३३
एतद्वृद्धं वृद्धतरे क्षयि क्षयिणि जायते ।
पदार्थे सदसच्चापि प्रतिबिम्बार्कवत्स्थितम् ।। ३४
अदृश्यं सर्वभूतानां प्राप्यं गलितचेतसाम् ।
एतत्तद्दृश्यते सद्भिः परं व्योमातिनिर्मलम् ।। ३५
इयमभ्युदयं याति नानादृश्यसुमञ्जरी ।
आचारचञ्चरीकाढ्या एतस्मात्कारणद्रुमात् ।। ३६
अस्मादियमुदेत्युच्चैः संसाररचनाचला ।
विचित्रतरुगुल्माढ्या शैलादिव वनावली ।। ३७
सर्वेषामविभिन्नोऽसौ त्रैलोक्योदरवर्तिनाम् ।
ब्रह्मादीनां तृणान्तानां चिदात्मा संप्रकाशकः ।। ३८
एकोऽसावहमाद्यन्तरहितः सर्वगाकृतिः ।
चराचराणां भूतानामन्तः स्वानुभवः स्थितः ।। ३९
अस्य तस्य ममेमानि स्थावराणि चराणि च ।
परिसंख्यादिहीनानि शरीराणि बहूनि च ।। ४०
एकोऽसावनुभूत्यात्मा स्वानुभूतिवशात्स्वयम् ।
सर्वदृग्द्रष्टृदृश्यत्वात्सहस्रकरलोचनः ।। ४१
एषोऽसावहमाकाशे सूर्यदेहेन चारुणा ।
विहरामीतरेणापि वायुदेहेन वायुना ।। ४२
ममैतद्वपुरानीलं शङ्खचक्रगदाधरम् ।
सर्वसौभाग्यसीमान्तं ह्यस्मिञ्जगति वल्गति ।। ४३
अहमस्मिन्समुद्भूतः पद्मासनगतः सदा ।
निर्विकल्पसमाधिस्थः परां निर्वृतिमागतः ।। ४४
अहं त्रिनेत्रयाऽऽकृत्या गौरीवक्त्राब्जषट्पदः ।
सर्गान्ते संहरामीदं कूर्मोऽङ्गपटलं यथा ।। ४५
अहमिन्द्रेण रूपेण त्रिलोकीमखिलामिमाम् ।
पालयामि क्रमप्राप्तां मठिकामिव तापसः ।। ४६
स्त्रीपुमानहमेवैतत्कुमारो ह्यहमित्यपि ।
जीर्णोऽहं देहधारित्वाज्जातोऽहं विश्वतोमुखः ।। ४७
अहं तृणलतागुल्मजालं रसतया स्थितः ।
उत्थापयामि चिद्भूमेः कूपोऽन्तरलतामिव ।। ४८
स्वलीलार्थमिदं चारु जगदाडम्बरं ततम् ।
मयाभिजातबालेन पङ्कक्रीडनकं यथा ।। ४९
मयेदमाप्यते सर्वं सत्ता मां प्राप्य गच्छति ।
मत्परित्यक्तमेतच्च सदप्येव न किंचन ।। ५०
मयि स्फारे चिदादर्शे प्रतिबिम्बं यदागतम् ।
तदस्ति नेतरद्यस्मान्मत्तोऽन्यन्नेह विद्यते ।। ५१
कुसुमेष्वहमामोदः पुष्पपत्रेष्वहं छविः ।
छविष्वहं रूपकला रूपेष्वनुभवोऽप्यहम् ।। ५२
यद्यत्किंचिदिदं दृश्यं जगत्स्थावरजङ्गमम् ।
सर्वसंकल्परहितं तच्चित्तत्त्वमहं परम् ।। ५३
आद्या रसमयी शक्ती रसौघो विस्तृतो यया ।
सा यथा दारुकुड्येषु तथाहं सर्ववस्तुषु ।। ५४
परमां तामहं सर्वपदार्थान्तरवर्तिताम् ।
उपेत्य संविद्वैचित्र्यं प्रतनोमि स्वयेच्छया ।। ५५
घृतं यथान्तः पयसो रसशक्तिर्यथा जले ।
चिच्छक्तिः सर्वभावेषु तथान्तरहमास्थितः ।। ५६
इदं जगत्त्रिकालस्थं चिति मध्ये च संस्थितम् ।
चेत्योपचाररहितं वस्तुजातमिवावनौ ।। ५७
भरिताशेषदिक्कुक्षिस्त्यक्तसंकोचविभ्रमः ।
सर्वस्थः सर्वकर्ता च विराट् सम्राडहं स्थितः ।। ५८
अपूर्वमनिबद्धेन्द्रमशस्त्रदलितामरम् ।
अप्रार्थितं मे संप्राप्तं जगद्राज्यमिदं ततम् ।। ५९
अहो नु विततात्मास्मि न माम्यप्यात्मनात्मनि ।
कल्पान्तपवनाधूत एकार्णव इवार्णवे ।। ६०
नात्मन्यन्तमवाप्नोमि स्वस्थेऽन्तः स्वदिते स्वयम् ।
क्षीरवारिनिधौ पङ्गुः सरीसृप इव स्फुरन् ।। ६१
स्वल्पेयं मठिका ब्राह्मी जगन्नाम्नी सुसंकटा ।
गजो बिल्व इव स्वाङ्गे न माति विपुलं वपुः ।। ६२
विरिञ्चिभवनात्पारे तत्त्वान्तेऽप्याहरत्पदम् ।
प्रसरत्येव मे रूपमद्यापि न निवर्तते ।। ६३
अयं नामाहमित्यन्तः कुतो निरवलम्बना ।
अपर्यन्ताकृतेरेषा किलासीत्स्वल्पता मम ।। ६४
भवानयमयं चाहमिति मिथ्यैव विभ्रमः ।
कोदेहः कोऽप्यदेहो वा को मृतः कश्च जीवति ।। ६५
वराकाः पेलवधियो बभूवुर्मे पितामहाः ।
ये साम्राज्यमिदं त्यक्त्वा रेमिरे भवभूमिषु ।। ६६
क्वेयं किल महादृष्टिर्भरिता ब्रह्मबृंहिता ।
क्व सरीसृपभीमाशा भीमा राज्यविभूतिभिः ।। ६७
अनन्तानन्दसंभोगा परोपशमशालिनी ।
शुद्धेयं चिन्मयी दृष्टिजयत्यखिलदृष्टिषु ।। ६८
सर्वभावान्तरस्थाय चेत्यमुक्तचिदात्मने ।
प्रत्यक्चेतनरूपाय मह्यमेव नमो नमः ।। ६९
जयाम्यहमजो जातो जीर्णसंसारसंसृतिः ।
प्राप्तप्राप्यो महात्मायं जीवामि च जयामि च ।। ७०
इदमुत्तमसाम्राज्यं बोधं संत्यज्य शाश्वतम् ।
न रमेऽहमरम्यासु राज्यदुःखविभूतिषु ।। ७१
दारुवारिदृषन्मात्रे लुलितो यो धरातले ।
धिग्वराकमनात्मज्ञं तं कुदानवकीटकम् ।। ७२
अविद्यैकात्मभिर्द्रव्यैरविद्यामयमङ्गकम् ।
अज्ञेन संतर्पयता किं नाम गुरुणा कृतम् ।। ७३
वर्षाणि कतिचित्प्राप्य जगच्छ्रीमठिकामिमाम् ।
किं नाम प्रापदुचितं हिरण्यकशिपुः किल ।। ७४
अनास्वाद्येदमानन्दं जगद्राज्यशतान्यपि ।
समास्वादयता नेह किंचिदास्वादितं भवेत् ।। ७५
न किंचिद्येन संप्राप्तं तेनेदं परमामृतम् ।
संप्राप्यान्तः प्रपूर्णेन सर्वं प्राप्तमखण्डितम् ।। ७६
त्यक्त्वा पदमिदं मूर्खो मितमेति न पण्डितः ।
उष्ट्रो हि त्यक्तसुलतः कण्टकं याति नेतरः ।। ७७
परां दृष्टिमिमां त्यक्त्वा दग्धराज्ये रमेत कः ।
कस्त्यक्त्वेक्षुरसं प्राज्ञः कटु निम्बपयः पिबेत् ।। ७८
मूर्खा एव हि ते सर्वे बभुवुर्मे पितामहाः ।
इमां दृष्टिं परित्यज्य रेमिरे राज्यसंकटे ।। ७९
क्व फुल्लानन्दनस्थल्यः क्व दग्धमरुभूमयः ।
क्वेमा बोधदृशः शान्ताः क्व भोगेष्वात्मबुद्धयः ।। ८०
न किंचिदपि त्रैलोक्ये यद्राज्यमपि वाञ्छते ।
सर्वमस्त्येव चित्तत्त्वे तत्कस्मान्नानुभूयते ।। ८१
चिता सर्वस्थया स्वस्थसमया निर्विकारया ।
सर्वया सर्वदा सर्वं सर्वतः साधु लभ्यते ।। ८२
भासिनी तैजसी शक्तिरमृतप्राप्तिरैन्दवी ।
ब्राह्मी महत्ता महती शाक्री त्रैलोक्यराजता ।। ८३
परमा पूर्णता शार्वी जयलक्ष्मीश्च वैष्णवी ।
मानसी शीघ्रगतिता बलवत्ता च वायवी ।। ८४
आग्नेयी दाहकलना पायसी रसनिर्वृतिः ।
मौनी महातपःसिद्धिर्विद्या बार्हस्पती तथा ।। ८५
वैमानिकी व्योमगतिः स्थिरता चापि पार्वती ।
गम्भीरताथ सामुद्री मैरवी च महोन्नतिः ।। ८६
शमश्रीः सौगती सौम्या मादिरी मदलोलता ।
माधवी पुष्पमयता वार्षिकी घनशब्दिता ।। ८७
याक्षी च मायामयता नाभसी निष्कलङ्कता ।
शीततापि च तौषारी नैदाघी तापतप्तता ।। ८८
एताश्चान्यास्तथा बह्वयो देशकालक्रियात्मिकाः ।
नानाकारविकारोत्थास्त्रिकालोदरसंस्थिताः ।। ८९
विचित्राः शक्तयः स्वस्थसमया निर्विकारया ।
चिता क्रियन्ते परया कलाकलनयुक्तया ।। ९०
विकल्पहीना चित्सर्वा पदार्थशतदृष्टिषु ।
सममेवाभिपतति प्रभा प्राभाकरी यथा ।। ९१
सर्वाशाकोशविश्रान्तां पदार्थपटलीं महीम् ।
कालत्रयेहाकलितां यथानुभवति क्षणात् ।। ९५
तथा समस्तसंसारबृहद्दृश्यदशाश्रियम् ।
कालत्रयस्थाममला चिच्चेतति तदात्मिका ।। ९३
तुल्यकालपरामृष्टा त्रिकालकलनाशता ।
अनन्तभुवनाभोगा परिपूर्णैव शुद्धचित् ।। ९४
परामृष्टत्रिकालाया दृष्टानन्तदृशश्चितः ।
समतापरपर्याया पूर्णतैवावशिष्यते ।। ९५
तुल्यकालावबुद्धेन स्वादुना कटुनापि चित् ।
समेन समतामेति मधुनिम्बानुभूतिवत् ।। ९६
त्यक्तसंकल्पकलया सूक्ष्मया चिद्व्यवस्थया ।
सर्वभावानुगतया सत्ताद्वैतैकरूपया ।। ९७
विचित्रापि पदार्थश्रीरन्योन्यवलितान्तरा ।
तुल्यकालानुभवना साम्येनैवानुभूयते ।। ९८
भावेनाभावमाश्रित्य भावस्त्यजति दुःखताम् ।
प्रेक्ष्य भावमभावेन भावस्त्यजति दुष्टताम् ।। ९९
कालत्रयमपश्यन्त्या हीनायाश्चेत्यबन्धनैः ।
चितश्चेत्यमुपेक्षिण्याः समतैवावशिष्यते ।। १००
याति वाचामगम्यत्वादसत्तामिव शाश्वतीम् ।
नैरात्म्यसिद्धान्तदशामुपयातेव तिष्ठति ।। १०१
भवत्यात्मा तथा ब्रह्म न किंचिच्चाखिलं च वा ।
परमोपशमेऽलीना मोक्षनाम्ना परोच्यते ।। १०२
संकल्पकलिता त्वेषा मन्दाभासतया जगत् ।
न सम्यक्पश्यतीदं चिदृष्टिः पटलिनी यथा ।। १०३
ईहानीहामयैरन्तर्या चिदावलिता मलैः ।
सा हि नोड्डयितुं शक्ता पाशबद्धेव पक्षिणी ।। १०४
संकल्पकलनेनैव ये केचन जना इमे ।
पतिता मोहजालेषु विनेत्रा इव पक्षिणः ।। १०५
संकल्पजालवलितैर्विषयावटपातिभिः ।
पदवी गतबाधेयं न दृष्टा मत्पितामहैः ।। १०६
दिनैः कतिपयैरेव स्फुरिता धरणीतले ।
वराकास्तेन ते नष्टा मशकाः कुहरेष्विव ।। १०७
यद्यज्ञास्यन्निमे तत्त्वं भोगदुःखार्थिनस्तदा ।
भावाभावान्धकूपेषु नापतिष्यन्हताशयाः ।। १०८
इच्छाद्वेषसमुत्थेन द्वन्द्वमोहेन जन्तवः ।
धराविवरमग्नानां कीटानां समतां गताः ।। १०९
ईहितानीहिताकाराः कलनामृगतृष्णिकाः ।
सत्यावबोधमेधेन यस्य शान्ताः स जीवति ।। ११०
कुतः किलास्याः शुद्धाया अविच्छिन्नामलाकृतेः ।
चन्द्रिकाया रुचः कोष्णाः कलङ्काः कलनाश्चितः।। १११
आत्मनेऽस्तु नमो मह्यमविच्छिन्नचिदात्मने ।
लोकालोकमणे देव चिरेणाधिगतोऽस्यहो ।। ११२
परामृष्टोऽसि लब्धोऽसि प्रोदितोऽसि चिराय च ।

उद्धृतोसिविकल्पेभ्यो योसि सोसि नमोस्तु ते ।। ११३
मह्यं तुभ्यमनन्ताय मह्यं तुभ्यं शिवात्मने ।
नमो देवाधिदेवाय पराय परमात्मने ।। ११४
गतघनपरिपूर्णमिन्दुबिम्बं
गतकलनावरणं स्वमेव रूपम् ।
स्ववषुषि मुदिते स्वयं स्वसंस्थं
स्वयमुदितं स्ववशं स्वयं नमामि ।। ११५
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मोक्षोपायेषूपशमप्रकरणे प्रह्लादात्मोपदेशयोगो नाम चतुस्त्रिंशः सर्गः ।। ३४ ।।