योगवासिष्ठः/प्रकरणम् ५ (उपशमप्रकरणम्)/सर्गः ३८
अष्टत्रिंशः सर्गः ३८
श्रीवसिष्ठ उवाच
अथाखिलजगज्जालक्रमपालनदेवनः ।
क्षीरोदनगरे शेषशय्यासनगतो हरिः ।। १
प्रावृण्निद्राव्युपरमे देवार्थमरिसूदनः ।
धिया विलोकयामास कदाचिज्जागतीं गतिम् ।। २
त्रिविष्टपं स्वमनसा पार्थिवं चावलोक्य सः ।
आचारमाजगामाशु पातालमरिपालितम् ।। ३
तत्र स्थिरसमाधाने स्थिते प्रह्लाददानवे ।
दृष्ट्वा संपदमिन्द्रस्य पुरे प्रौढिमुपागताम् ।। ४
व्यालतल्पतलस्थस्य क्षीरोदार्णवशायिनः ।
शङ्खचक्रगदापाणेर्देहस्यान्तरचारिणः ।। ५
पद्मासनस्थस्य मनः शरीरेणातिभास्वता ।
इदं संचिन्तयामास त्रैलोक्यालमहालिना ।। ६
प्रह्लादे पदविश्रान्ते पाताले गतनायके ।
कष्टं सृष्टिरियं प्रायो निर्दैत्यत्वमुपागता ।। ७
दैत्याभावे सुरश्रेणी निर्जिगीषुपदं गता ।
शममेष्यत्यदृष्टाब्दपटलेषु सरिद्यथा ।। ८
मोक्षाख्यं निर्गतद्वन्द्वं ततो यास्यति तत्पदम् ।
क्षीणाभिमानविरसा लतेव प्रविशुष्कताम् ।। ९
देवौघे शान्तिमायाते भुवि यज्ञतपःक्रियाः ।
अदेवत्वफलाः सर्वाः शममेष्यन्त्यसंशयम् ।। १०
क्रियास्वथोपशान्तासु भूर्लोकोऽस्तमुपैष्यति ।
असंसारप्रसङ्गोऽथ तस्य नाशे भविष्यति ।। ११
आकल्पान्तं त्रिभुवनं यदिदं कल्पितं मया ।
नाशमेष्यत्यकालेन तापे हिमकणो यथा ।। १२
किमेवमस्मिन्नाभोगे विलीय क्षयमागते ।
कृतं मयेह भवति स्वलीलाक्षयकारिणा ।। १३
ततोऽहमपि शून्येऽस्मिन्नष्टचन्द्रार्कतारके ।
वपुःप्रशान्तिमाधाय स्थितिमेष्यामि तत्पदे ।। १४
अकाण्ड एवमेवं हि जगत्युपशमं गते ।
नेह श्रेयो न पश्यामि मन्ये जीवन्तु दानवाः ।। १५
दैत्योद्योगेन विबुधास्ततो यज्ञतपःक्रियाः ।
तेन संसारसंस्थानं न संसारक्रमोऽन्यथा ।। १६
तस्माद्रसातलं गत्वा यथावत्स्थापयाम्यहम् ।
स्वे क्रमे दानवाधीशमृतुः पुनरिव द्रुमम् ।। १७
विना प्रह्लादमथ चेदितरं दानवेश्वरम् ।
करोमि तदसौ मन्ये देवानासादयिष्यति ।। १८
प्रह्लादस्य त्वयं देहः पश्चिमः पावनो महान् ।
आकल्पमिह वस्तव्यं देहेनानेन तेन च ।। १९
एवं हि नियतिर्देवी निश्चिता पारमेश्वरी ।
प्रह्लादेन यथाकल्पं स्थातव्यमिह देहिना ।। २०
तस्मात्तमेव गत्वा तु दैत्येन्द्रं बोधयाम्यहम् ।
गर्जन्गिरिनदीसुप्तं मयूरमिव वारिदः ।। २१
जीवनमुक्तसमाधिस्थः करोत्वसुरनाथताम् ।
मणिर्मुक्तमनस्कारः प्रतिबिम्बक्रियामिव ।। २२
नहि नश्यति सर्गोऽयमेवं सह सुरासुरैः ।
भविष्यति च तद्द्वन्द्वं तन्मे क्रीडा भविष्यति ।। २३
सर्गक्षयोदयावेतौ सुसमौ मम यद्यपि ।
तथापीदं यथासंस्थं भवत्वन्येन किं मम ।। २४ '
भावाभावेषु यत्तुल्यं तन्नाशे तत्स्थितौ च वा ।
यः प्रयत्नस्त्वबुद्धित्वात्तद्योगगमनं भवेत् ।। २५
तस्मात्प्रयामि पातालं बोधयाम्यसुरेश्वरम् ।
स्थैर्यं यामि न संसारलीलां संपादयाम्यहम् ।। २६
असुरपुरमवाप्य प्रोद्धताचारघोरं
कमलमिव विवस्वान्दैत्यमुद्बोधयामः ।
जगदिदमखिलं स्वस्थैर्यमभ्यानयामो
घनविधिरिव शैले चञ्चलं मेघजालम् ।। २७
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषूपशमप्रकरणे परमेश्वरवितर्को नामाष्टात्रिंशः सर्गः ।। ३८ ।।