योगवासिष्ठः/प्रकरणम् ५ (उपशमप्रकरणम्)/सर्गः ४०


चत्वारिंशः सर्गः ४०

श्रीभगवानुवाच ।
स्थैर्यं देहस्य दृष्टस्य जीवितं प्रोच्यते जनैः ।
देहान्तरार्थं देहस्य संत्यागो मरणं स्मृतम् ।। १
द्वाभ्यां चैवासि पक्षाभ्यामाभ्यां मुक्तो महामते ।
किं ते मरणमस्तीह किं वा जीवितमस्ति ते ।। २
निदर्शनार्थमेतत्तु मयोक्तमरिमर्दन ।
न त्वं जीवसि सर्वज्ञ म्रियसे न कदाचन ।। ३
देहसंस्थोऽप्यदेहत्वाददेहोऽसि विदेहदृक् ।
व्योमसंस्थोऽप्यसक्तत्वादव्योमेव हि मारुतः ।। ४
स्पर्शसंबोधकारित्वाद्देह एवास्ति सुव्रत ।
उत्सेधारोधकत्वेन खमुत्सेधस्य कारणम् ।। ५
प्रबुद्धो ज्ञातवस्तुत्वाद्देहः क्व शमिनामिह ।
इदं त्वेकं परिच्छिन्नं रूपमज्ञेषु दुःस्थितम् ।। ६
सर्वदा सर्वमेवासि चित्प्रकाशः परैकधीः ।
को देहः कोऽप्यदेहस्ते यं गृह्णासि जहासि च ।। ७
समुदेतु वसन्तो वा वातु वा प्रलयानिलः ।
भावाभावविहीनस्य किमभ्यागतमात्मनः ।। ८
प्रलुठत्स्वपि शैलेषु कल्पाग्निषु दहत्स्वपि ।
वहत्सूत्पातवातेषु स्वात्मन्येव हि तिष्ठति ।। ९
सर्वभूतानि तिष्ठन्तु सर्वमेव प्रयातु वा ।
नश्यन्तु वाथ वर्धन्तामात्मन्येवाभितिष्ठति ।। १०
क्षीयते न क्षयं प्राप्ते वर्धमाने न वर्धते ।
न स्पन्दते स्पन्दमाने देहेऽस्मिन्परमेश्वरः ।। ११
देहस्याहमहं देहीति क्षीणे चित्तविभ्रमे ।
त्यजामि न त्यजामीति किं मुधा कलनोदिता ।। १२
इदं कृत्वा करोमीदमिदं त्यक्त्वेदमित्यलम् ।
इति तत्त्वविदां तात संकल्पाः संक्षयं गताः ।। २३
प्रबुद्धाः सर्वकर्तारः करिष्यन्तीह किंचन ।
न तस्याकरणे नित्यमकर्तृत्वपदं गताः ।। १४
अकर्तृत्वादभोक्तृत्वमर्थादेव समागतम् ।
संगृहीतं किलानुप्तं केनेह भुवनत्रये ।। १५
शान्ते कर्तृत्वभोक्तृत्वे शान्तिरेवेह शिष्यते ।
प्रौढिमभ्यागता सैव मुक्तिरित्युच्यते बुधैः ।। १६
प्रबुद्धाश्चिन्मयाः शुद्धाः सर्वमाक्रम्य संस्थिताः ।
किं त्यक्तं परिगृह्णन्तु किं गृहीतं त्यजन्तु वा ।। १७
ग्राह्यग्राहकसंबन्धप्रमितावयविक्रमैः ।
हीनः प्रमेयावयवैः किं गृह्णातु जहातु किम् ।। १८
ग्राह्यग्राहकसंबन्धे क्षीणे शान्तिरुदेत्यलम् ।
स्थितिमभ्यागता शान्तिर्मोक्षनाम्नाभिधीयते ।। १९
तत्र स्थिताः सदा शान्तास्त्वादृशाः पुरुषोत्तमाः ।
सुषुप्तावयवस्पन्दसाधर्म्येण चरन्ति हि ।। २०
परावबोधविश्रान्तवासनो जगति स्थितिम् । ।
अर्धसुप्त इवेहेमां त्वं पश्यात्मस्थया धिया ।। २१
न रमन्ते हि रम्येषु स्वात्मन्येव गताशयाः । ।
नोद्विजन्तेऽन्यदुःखेषु स्वात्मन्येकरसायनाः ।। २२
नित्यप्रबुद्धा गृह्णन्ति कार्याणीमान्यसङ्गिनः ।
मुकुरा इव बिम्बानि यथाप्राप्तान्यवाञ्छया ।। २३ ।
जाग्रति स्वात्मनि स्वस्थाः सुप्ताः संसारसंस्थितौ ।
बालवत्प्रविवेपन्ते सुषुप्तसदृशाशयाः ।। २४
त्वमजितपदवीमुपागतोऽन्तः
कमलजवासरमेकमेव भुक्त्वा ।
गुणगणकलितामिहैव लक्ष्मीं
व्रज परमास्पदमच्युतं महात्मन् ।। २५
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मोक्षोपायेषूपशमप्रकरणे प्रह्लादबोधनं नाम चत्वारिंशः सर्गः ।। ४० ।।