योगवासिष्ठः/प्रकरणम् ५ (उपशमप्रकरणम्)/सर्गः ४२

← सर्गः ४१ योगवासिष्ठः/प्रकरणम् ५ (उपशमप्रकरणम्)
सर्गः ४२
अज्ञातलेखकः
सर्गः ४३ →

श्रीवसिष्ठ उवाच ।
इत्युक्त्वा पुण्डरीकाक्षः सनरामरकिन्नरः ।
द्वितीय इव संसारश्चचालासुरमन्दिरात् ।। १
प्रह्रादादिविनिर्मुक्तैः पश्चात्पुष्पाञ्जलिव्रजैः ।
पूर्यमाणो विहङ्गेशपाश्चात्याङ्गरुहोत्करैः ।। २
क्रमात्क्षीरोदमासाद्य विसृज्य सुरवाहिनीम् ।
भोगिभोगासने तस्थौ श्वेताब्ज इव षट्पदः ।। ३
भोगिभोगासने विष्णुः शक्रः स्वर्गे सहामरैः ।
पाताले दानवाधीश इति तस्थुर्गतज्वराः ।। ४
एषा ते कथिता राम निःशेषमलनाशिनी ।
प्राह्रादी बोधसंप्राप्तिरैन्दवद्रवशीतला ।। ५
तां तु ये मानवा लोके बहुदुष्कृतिनोऽपि हि ।
धिया विचारयिष्यन्ति ते प्राप्स्यन्त्यचिरात्पदम् ।। ६
सामान्येन विचारेण क्षयमायाति दुष्कृतम् ।
योगवाक्यविचारेण को न याति परं पदम् ।। ७
अज्ञानमुच्यते पापं तद्विचारेण नश्यति ।
पापमूलच्छिदं तस्माद्विचारं न परित्यजेत् ।। ८
इमां प्रह्रादसंसिद्धिं प्रविचारयता नृणाम् ।
सप्तजन्मकृतं पापं क्षयमायात्यसंशयम् ।। ९
श्रीराम उवाच ।
परे पदे परिणतं पाञ्चजन्यस्वनैर्मनः ।
कथं प्रबुद्धं भगवन्प्रहादस्य महात्मनः ।। १०
श्रीवसिष्ठ उवाच ।
द्विविधा मुक्तता लोके संभवत्यनघाकृते ।
सदेहैका विदेहान्या विभागोऽयं तयोः शृणु ।। ११
असंसक्तमतेर्यस्य त्यागादानेषु कर्मणाम् ।
नैषणा तत्स्थितिं विद्धि त्वं जीवन्मुक्ततामिह ।। १२
सैव देहक्षये राम पुनर्जननवर्जिता ।
विदेहमुक्तता प्रोक्ता तत्स्था नायान्ति दृश्यताम् ।। १३
भृष्टबीजोपमा भूयो जन्माङ्कुरविवर्जिताः ।
हृदि जीवद्विमुक्तानां शुद्धा भवति वासना ।। १४
पावनी परमोदारा शुद्धसत्त्वानुपातिनी ।
आत्मध्यानमयी नित्यं सुषुप्तस्येव तिष्ठति ।। १५
अपि वर्षसहस्रान्ते तयेवान्तरवस्थया ।
सति देहे प्रबुध्यन्ते जीवन्मुक्ता रघूद्वह ।। ५५
प्रह्रादोऽन्तस्थया शुद्धसत्त्ववासनया स्वया ।
बोधमाप महाबाहो शङ्खशब्दावबुद्धया ।। १७
हरिरात्मा हि भूतानां तस्य यत्प्रतिभासते ।
तत्तथैव भवत्याशु सर्वमात्मैव कारणम् ।। १८
प्रबोधमेतु प्रह्रादो यदैवेति विचिन्तितम् ।
निमेषाद्वासुदेवेन तदैवैतदुपस्थितम् ।। १९
आत्मन्यकारणेनैव भूतानां कारणेन च ।
सृष्ट्यर्थं वपुरात्तं हि वासुदेवमयात्मना ।। २०
आत्मावलोकनेनाशु माधवः परिदृश्यते ।
माधवाराधनेनाशु स्वयमात्मावलोक्यते ।। २१
एतां दृष्टिमवष्टभ्य राघवात्मावलोकने ।
विहराशु विचारात्मा पदं प्राप्स्यसि शाश्वतम् ।। २२
दुःखासारवती राम संसारप्रावृडातता ।
जाड्यं ददाति परमं विचारार्कमपश्यताम् ।। २३
प्रसादादात्मनो विष्णोर्मायेयमतिभासुरा ।
प्रबाधते न धीरांस्तु यक्षी मन्त्रवतो यथा ।। २४
आत्मेच्छयैव घनतां समुपागतान्त-
रात्मेच्छयैव तनुतामुपयाति काले ।
संसारजालरचनेयमनन्तमाया-
ज्वालेह वातवलयादिव पावकस्य ।। २५
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये देवदूतोक्ते मो० उपशमप्रकरणे प्रह्रादव्यवस्था नाम द्विचत्वारिंशः सर्गः ।। ४२ ।।