योगवासिष्ठः/प्रकरणम् ५ (उपशमप्रकरणम्)/सर्गः ५०


पञ्चाशः सर्गः ५०

श्रीवसिष्ठ उवाच ।
एवमेषातिवितता दुर्ज्ञाना रघुनन्दन ।
महामोहमयी माया विषमा पारमात्मिकी ।। १
क्व मुहूर्तद्वयस्वप्नसंभ्रमाल्लोकदृष्टता ।
क्वानेकवर्षसंभुक्तश्वपचावनिपभ्रमः ।। २
क्व संभ्रमोपलब्धत्वं क्व प्रत्यक्षनिदर्शनम् ।
क्वासत्यत्वमसंदिग्धं क्व सत्यपरिणामिता ।। ३
अतो वच्मि महाबाहो मायेयं विषमान्वहम् ।
असावधानमनसं संयोजयति संकटे ।। ४
श्रीराम उवाच ।
एवमस्य कथं ब्रह्मन्मायाचक्रस्य रोधनम् ।
कुर्युः प्रवहतो वेगात्सर्वाङ्गच्छेदकारिणः ।। ५
श्रीवसिष्ठ उवाच ।
अस्य संसाररूपस्य मायाचक्रस्य राघव ।
चित्तं विद्धि महानाभिं भ्रमतो भ्रमदायिनः ।। ६
तस्मिन्द्रुतमवष्टब्धे धिया पुरुषयत्नतः ।
गृहीतनाभिवहनान्मायाचक्रं निरुध्यते ।। ७
अवष्टब्धमनोनाभिमोहचक्रं न गच्छति ।
यथा रज्ज्वां निरुद्धायां कीलकं रज्जुवेष्टितम् ।। ८
चक्रयुद्धैकतज्ज्ञोऽसि कस्माज्जानासि नानघ ।
चक्रं नाभाववष्टब्धं वशमायाति नान्यथा ९
चित्तं नाभिमवष्टभ्य तस्माद्यत्नेन राघव ।
संसारचक्रं वहनादात्मनः परिरोधय ।। १०
एतां युक्तिं विना दुःखमनन्तमितमात्मनः ।
अस्यां दृष्टौ क्षणादन्तं गतमेवावलोकय ।। ११
चित्ताक्रमणमात्रात्तु परमादौषधादृते ।
प्रयत्नेनापि संसारमहारोगो न शाम्यति ।। १२
तस्माद्राघव संत्यज्य तीर्थदानतपःक्रियाः ।
श्रेयसे परमायान्तश्चित्तमेव वशं कुरु ।। १३
चित्तान्तरेव संसारः कुम्भान्तः कुम्भखं यथा ।
चित्तनाशे न संसारः कुम्भनाशे न कुम्भखम् ।। १४
चिरं संसरणाकाशकोटरं चित्तकुम्भखम् ।
विनाश्यातुलिताकाशस्वरूपं रूपमाविश ।। १५
वर्तमानमनायासं भजद्वाह्यधिया क्षणम् ।
भूतं भविष्यदभजद्याति चित्तमचित्तताम् ।। १६
संकल्पांशानुसंधानवर्जनं चेत्प्रतिक्षणम् ।
करोषि तदचित्तत्वं प्राप्त एवासि पावनम् ।। १७
यावत्संकल्पकलना तावच्चित्तविभूतयः ।
यावज्जलदविस्तारस्तावत्खजलबिन्दवः ।। १८
सचित्तं चेतनं यावत्तावत्संकल्पकल्पनम् ।
सचन्द्रांशु जगद्यावत्तावत्प्रालेयलेशकाः ।। १९
चेतनं चित्तरिक्तं चेद्भावितं तत्स्वसंसृतेः ।
आमूलमेव दग्धानि विद्धि मूलानि सिद्धवत् ।। २०
चेतनं चित्तरिक्तं हि प्रत्यक्चेतनमुच्यते ।
निर्मनस्कस्वभावं तन्न तत्र कलनामलः ।। २१
सा सत्यता सा शिवता सावस्था पारमात्मिकी ।
सर्वज्ञता सा सा दृष्टिर्नतु यत्र मनः क्षतम् ।। २२
मनो यत्र तु तत्राशास्तत्र दुःखसुखानि च ।
सदा संनिधिमायान्ति श्मशान इव वायसाः ।। २३
वस्तुतत्त्वावबोधेन सर्वभावव्यवस्थितेः ।
ससृतिव्रततेर्बीजं संकल्पेनोपजायते ।। २४
शास्त्रसज्जनसंपर्कसंतताभ्यासयोगतः ।
जागतानामवस्तुत्वं भावानामवगम्यते ।। २५
अविवेकादुपाहृत्य चेतसोद्यमनिश्चयैः ।
बलात्कारेण संयोज्यं शास्त्रसत्पुरुषक्रमैः ।। २६
मुख्यं कारणमात्मैव परमात्मावलोकने ।
अगाधे पतितं रत्नं रत्नेनैवावलोक्यते ।। २७
स्वानुभूतानि दुःखानि स्वात्मैव त्यक्तुमिच्छति ।
तेनात्मैवात्मविज्ञाने हेतुरेकः परः स्मृतः ।। २८
प्रलपन्विसृजन्गृह्णन्नुन्मिषन्निमिषन्नपि ।
निरस्तमननानन्तसंविन्मात्रपरो भव ।। २९
जायमानस्तथा जीवन्म्रियमाणः क्रियारतः ।
स्वात्मन्यमलतां प्राप्ते संविदंशे स्थिरो भव ।। ३०
ममेदं तदयं सोऽहमिति संत्यज्य वासनाः ।
एकनिष्ठतयान्तस्थसंविन्मात्रपरो भव ।। ३१
वर्तमानभविष्यन्त्योः स्थित्योरादेहमेकधीः ।
स्वसंवित्त्यानुसंधानसमाधानपरो भव ।। ३२
बाल्ययौवनवृद्धेषु दुःखेषु च सुखेषु च ।
जाग्रत्स्वप्नसुषुप्तेषु स्वसंवित्तिपरो भव ।। ३३
मलं संवेद्यमुत्सृज्य मनो निर्गलयन्परम् ।
आशापाशमलं छित्त्वा स्वसंवित्तिपरो भव ।। ३४
शुभाशुभस्वसंकेतसंशान्ताशाविषूचिकः ।
नष्टेष्टानिष्टदृष्टिस्त्वं संवित्सारपरो भव ।। ३५
सकर्तृकर्मकरणान्स्वास्पर्शानन्तरा स्पृशन् ।
निर्विकल्पनिरालम्बः स्वचिन्मात्रपरो भव ।। ३६
जाग्रत्येव हि संसुप्तां भावयन्सुस्थिरां स्थितिम् ।
सर्वमस्मीति संचिन्त्य सत्तैकात्मवपुर्भव ।। ३७
नानाऽनानादशामुक्तो युक्तो मुक्ततया समे ।
समग्रकलनादीपः स्वचिन्मात्रपरो भव ।। ३८
आत्मतापरते त्यक्त्वा निर्विभागो जगत्स्थितौ ।
वज्रस्तम्भवदात्मानमवलम्ब्य स्थिरो भव ।। ३९
स्थित्वान्तर्मानसान्पाशानाशारूपानुदारया ।
धिया धैर्यैकधर्मिण्या निर्धर्माधर्मता व्रज ।। ४०
समास्वादयतस्तत्त्वं स्वसंवेदनधर्मिणः ।
विषं हालाहलमपि यास्यत्यमृततामथ ।। ४१
तदोदेति महामोहः संसृतिभ्रमकारणम् ।
निर्मलाया निरंशायाः संवित्तेश्चामतिर्यदा ।। ४२
तदा संक्षीयते मोहः संसारभ्रमकारणम् ।
निर्मलायां निरंशायां स्वसंवित्तौ स्थितिर्यदा ।। ४३
स्वरूपमनुयातस्य तीर्णस्याशामहार्णवम् ।
प्रसरिष्यति ते संवित्सर्यांशुरिव सर्वतः ।। ४४
स्वभावमालोकयत आनन्दाद्वयसंस्थितेः ।
रसायनमपि स्वादु राम प्रतिविषायते ।। ४५
तैर्नो भजामहे पुंभिर्ये स्वभावमुपागताः ।
शेषाः पुरुषनामानो गर्दभा दीर्घबाहवः ।। ४६
पर्वतात्पर्वतं यान्ति पुरोऽद्रेरिव दन्तिनः ।
परां कोटिं प्रयातस्य स्वसंवित्त्युन्नतस्थितेः ।। ४७
अदृष्टादृश्यसीम्नोऽन्तः सूर्यादीन्यखिलान्यपि ।
न तेजांस्युपकुर्वन्ति स्वसंविद्दिव्यचक्षुषः ।। ४८
अवस्तुतां व्रजन्त्येते माध्याह्ना इव दीपकाः ।
अर्कादयो महालोका विद्ययाधिगतात्मनः ।। ४९
तेजोंशुषु प्रभावेषु बलिष्वपि महत्स्वपि ।
सर्वेषून्नतियुक्तेषु तत्त्वज्ञः परमोन्नतः ।। ५०
भान्तीह भासा यस्यार्कवह्नीन्दुमणितारकाः ।
तथा जगति राजन्ते ज्ञातज्ञेया नरोत्तमाः ।। ५१
धराविवरकीटेभ्यो गर्दभेभ्योऽपि मानवः ।
तिर्यग्भ्यश्चाप्यतत्त्वज्ञा राम तुच्छतराः स्मृताः ।। ५२
तावत्संमोहवेतालो देही यावदनात्मवान् ।
आत्मज्ञ एव संयुक्तश्चेतनेनेति तद्विदः ।। ५३
अनात्मज्ञो हि दुःखेहः प्रस्फुरन्नपि भूतले ।
शव एव भ्रमत्युच्चैरात्मज्ञस्तु सचेतनः ।। ५४
दूरादात्मज्ञता याति चित्ते पीवरतां गते ।
आलोकलक्ष्मीरभितो महामेघ इवोत्थिते ।। ५५
भोगाभोगतिरस्कारैः कार्श्यं नेयं शनैर्मनः ।
रसापहारैस्तज्ज्ञेन कालेनाजीर्णपर्णवत् ।। ५६
अन्यात्मन्यात्मभावेन देहमात्रास्थयानया ।
पुत्रदारकुटुम्बैश्च चेतो गच्छति पीनताम् ।। ५७
अहंकारविकारेण ममतामलहेलया ।
इदं ममेति भावेन चेतो गच्छति पीनताम् ।। ०४८
जरामरणदुःखेन व्यर्थमुन्नतिमीयुषा ।
दोषाशीविषकोशेन चेतो गच्छति पीनताम् ।। ५९
आधिव्याधिविलासेन समाश्वासेन संसृतेः ।
हेयादेयप्रयत्नेन चेतो गच्छति पीनताम् ।। ६०
स्नेहेन धनलोभेन लाभेन मणियोषिताम् ।
आपातरमणीयेन चेतो गच्छति पीनताम् ।। ६१
दुराशाक्षीरपानेन भोगानिलबलेन च ।
आस्थादानेन चारेण चित्ताहिर्याति पीनताम् ।। ६२
आगमापायवपुषा विषवैषम्यशंसिना ।
भोगाभोगेन भीमेन चेतो गच्छति पीनताम् ।। ६३
शरीरदुःश्वभ्रचिरप्ररूढं
चिन्ताचयोच्चाकृतिमञ्जरीकम् ।
जरामृतिव्याधिफलौघनम्रं
कामोपभोगौघविकासिपुष्पम् ।। ६४
विचारसारक्रकचेन चित्त-
विषद्रुमं त्वद्भुतमद्रिकल्पम् ।
आशामहाशाखमशङ्कमेनं
छिन्धि प्रसह्यात्र विकल्पपत्रम् ।। ६५
मत्तेक्षणं चैकतटोपवेशं
विश्रान्तिसौख्येष्वसमर्थमुग्रम् ।
आलोकनोत्कं सुजनक्रमाल्ल-
खण्डस्य चण्डं सुखदुःखगण्डम् ।। ६६
चेतोगजं कायकुकाननस्थं
सुतीक्ष्णया धीकरजाग्रपङ्क्त्या ।
विदारयादीर्घविकारदन्तं
क्रियाकरं राघव राजसिंह ।। ६७
रतिं गतं नित्यमसत्प्रदेशे
शरीरमांसग्रसनेन पुष्टम् ।
दुष्टक्रियाकर्कशचञ्चुदण्ड-
मेकेक्षणं पुष्टतमोंशुकृष्णम् ।। ६८
दूरे समुत्सारय भारभूतं
दुश्चेष्टितं कर्कशमारटन्तम् ।
गन्धोद्गतं कायकुलायकोशा-
द्दोषोपशान्त्यै निजचित्तकाकम् ।। ६९
तृष्णापिशाच्या परिचर्यमाणं
विश्रान्तमज्ञानमहावटेषु ।
भ्रान्तं चिरं देहशतेष्वटव्यां
स्वसंसृतौ चेतनवर्जितेषु ।। ७०
विवेकवैराग्यगुरुप्रयत्न-
मन्त्रैः स्वतन्त्रैः स्वचिदात्मगेहात् ।
नोत्सादयेच्चित्तपिशाचमेनं
यावत्कुतस्तावदिहात्मसिद्धिः ।। ७१
शुभाशुभास्यं हतमानवौघं
चिन्ताविषं कायकुकञ्चुकं च ।
अजस्रमच्छश्वसनाशनं च
सर्वस्य नानाभयनाशदं च ।। ७२
हृदज्जदुःशाल्मलिकोटरस्थ-
ममोघया चित्खगमन्त्रशक्त्या ।
नीत्वा शमं राम मनोमहाहिं
भयं भृशं प्रोज्झ्य भवाभयात्मा ।। ७३
अमङ्गलाकारधरः शरीर-
शवावलीसंततसेवनेन ।
दिगावलीसंभ्रमणश्रमार्तः
श्मशानसेवी वपुषा क्षतेन ।। ७४
भोगमिषो दिक्ष्वभिधावमान
उत्कन्धरो धीरविवृद्धगर्धः ।
उड्डीय वै गच्छति चित्तगृध्रो
देहद्रुमात्तन्निपुणं जयस्ते ।। ७५
भ्रान्तं वनान्तेषु दिगन्तरेषु
फलार्थिनं चञ्चलमाकुलाङ्गम् ।
जन्मावनेर्जन्ममहिं प्रयातं
संसारबन्धं जनतां हसन्तम् ।। ७६
द्रुमेऽक्षिनासाकुसुमे भुजादि-
शाखे विलोलाङ्गुलिजालपत्रे ।
समुल्लसन्तं परिमारयान्त-
र्मनोमहामर्कटमङ्ग सिद्ध्यै ।। ७७
अभ्युत्थितं सत्फलसंक्षयाय
लसन्मुखासङ्गितडित्प्रकाशम् ।
वर्षन्तमासारमनर्थसार्थ-
मान्दोलितं वासनवात्ययान्तः ।। ७८
संकल्पसंकल्पनवर्जनोग्र-
मन्त्रप्रभावाद्हृदयाम्बरस्थम् ।
सोत्साहमुत्सादय चित्तमेघं
बृहत्फलं प्राप्य भवालमाद्यः ।। ७९
ग्रन्थीकृतं कर्मभिरात्मसृष्टे-
र्मन्त्रैरभेद्यं ज्वलनैरदग्धम् ।
पीडां परामात्मनि कल्पयन्तं
समस्तजात्यन्तरदीर्घदाम ।। ८०
संप्रोतनिःसंख्यशरीरमालं
बलादसंकल्पनमात्रशस्त्रैः ।
छित्त्वा स्वयं राघव चित्तपाशं
यथासुखं त्वं विहरास्तशङ्कः ।। ८१
फूत्कारदग्धाखिलपान्थलोक-
मत्यन्तदुष्प्रापपरप्रबोधम् ।
आशीविषं शोषितलोकखण्डं
व्यात्त्यामिषोद्धूतशरीरदण्डम् ।। ८२
आमन्थरं देहगुहासु गुप्तं
संकल्पघोराजगरं जवेन ।
अकामनानाममहानलेन
बलेन दग्ध्वा विभवो भव त्वम् ।। ८३
चित्तेन चेतः शममाशु नीत्वा
शुद्धेन घोरास्त्रमिवास्त्रयुक्त्या ।
चिराय साधो त्यज चञ्चलत्वं
विमर्कटो वृक्ष इवाक्षतश्रीः ।। ८४
अमलमिति च कृत्वा चेतसा वीतशङ्क-
मुपशमितमनोऽन्तः सर्वमादेहमेव ।
तृणलवलघु पश्यँल्लीलया हेयदृष्ट्या
पिव विहर रमस्व प्राप्तसंसारपारः ।। ८५

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषूपशमप्रकरणे राघवाशयविनियोगो नाम पञ्चाशः सर्गः ।। ५० ।।