योगवासिष्ठः/प्रकरणम् ५ (उपशमप्रकरणम्)/सर्गः ५२


द्विपञ्चाशः सर्गः ५२
श्रीवसिष्ठ उवाच ।
स तां विवेश धर्मात्मा गन्धमादनकन्दराम् ।
चित्रभ्रमणसंप्राप्तामलिः पद्मकुटीमिव ।। १
समाधानोन्मुखतया प्रविशन्स व्यराजत ।
सर्गव्यापारविरतावात्मपुर्यामिवाब्जजः ।। २
चकारासनमम्लानैः पत्रैरन्तस्वगुच्छकम् ।
मृदुमेघविधिर्वृन्दमम्भोदमिव तत्र सः ।। ३
स तत्प्रस्तारयामास पृष्ठे चारु मृगाजिनम् ।
नीलरत्नतटे मेरुस्तारासारमिवाम्बरम् ।। ४
स तत्रोपाविशद्वृत्तीश्चेतसस्तनुतां नयन् ।
अन्तःशुद्धवपुः श्रृङ्गे वृष्य मूक इवाम्बुदः ।। ५
बुद्धवत्सुदृढं बद्धपद्मासन उदङ्मुखः ।
पार्ष्णिभ्यां वृषणौ धृत्वा चकार ब्राह्ममञ्जलिम् ।। ६
वासनाभ्यः समाहृत्य मनोमृगमुपप्लुतम् ।
निर्विकल्पसमाध्यर्थं चकारेमां विचारणाम् ।। ७
अयि मूर्ख मनः कोऽर्थस्तव संसारवृत्तिभिः ।
धीमन्तो न निषेवन्ते पर्यन्ते दुःखदां क्रियाम् ।। ८
अनुधावति यो भोगांस्त्यक्त्वा शमरसायनम् ।
संत्यज्य मन्दारवनं स याति विषजङ्गलम् ।। ९
यदि यासि महीरन्ध्रं ब्रह्मलोकमथापि वा ।
तन्न निर्वाणमायासि विनोपशमनामृतम् ।। १०
आशाशतावपूर्णत्वे त्वमेवं सर्वदुःखदम् ।
त्यज्य याहि परं श्रेयः परमेकान्तसुन्दरम् ।। ११
इमा विचित्राः कलना भावाभावमयात्मिकाः ।
दुःखायैव तवोग्राय न सुखाय कदाचन ।। १२
शब्दादिकाभिरेताभिः किं मूर्ख हतवृत्तिभिः ।
भ्रमस्यविरतं व्यर्थं मेघे मण्डूकिका यथा ।। १३
मनोमण्डूकिके व्यर्थमियन्तं कालमन्धया ।
भ्रमन्त्या भुवनं क्षिप्रं किं समासादितं त्वया ।। १४
यस्मात्किंचिदवाप्नोषि यस्मिन्वहसि निर्वृतिम् ।
तस्मिंश्चेतः शमे मूर्ख नानुबध्नासि किं पदम् ।। १५
आगत्य श्रोत्रतां मूर्ख व्यर्थोत्थानोपबृंहिताम् ।
धिया शब्दानुसारिण्या मृगवन्मा क्षयं व्रज ।। १६
त्वक्तामागत्य दुःखाय स्पर्शोन्मुखतया धिया ।
मूर्ख मा बद्धतामेहि गजीलुब्धगजेन्द्रवत् ।। १७
रसनाभावमागत्य गर्द्धेनान्ध दुरन्धसाम् ।
मा नाशमेहि बडिशपिण्डीलम्पटमत्स्यवत् ।। १८
चाक्षुषीं वृत्तिमाश्रित्य प्रभारूपचयोन्मुखीम् ।
मा गच्छ दग्धतां मुग्ध कान्तिलुब्धपतङ्गवत् ।। १९
घ्राणमार्गमुपाश्रित्य शरीराम्भोजकोटरे ।
गन्धोन्मुखतया बन्धं मा त्वं संश्रय भृङ्गवत् ।। २०
कुरङ्गालिपतङ्गेभमीनास्त्वेकैकशो हताः ।
सर्वैर्युक्तैरनर्थैस्तु व्याप्तस्याज्ञ कुतः सुखम् ।। २१
हे चित्त वासनाजालं बन्धाय भवतोहितम् ।
स्वात्मनः सहजः फेनस्ततः कुकृमिणा यथा ।। २२
शरदभ्रवदागत्य शुद्धिं त्यक्तभवामयाम् ।
यदि शाम्यसि निर्मूलं तदनन्तो जयस्तव ।। २३
क्षयोदयदशाधात्रीं पर्यन्तपरितापिनीम् ।
जानन्नपि जगत्सृष्टिं न त्यक्ष्यसि विनंक्ष्यसि ।। २४
करोम्यथ किमर्थं वा तवैतदनुशासनम् ।
विचारणवतः पुंसश्चित्तमस्ति हि नानघ ।। २५
यावदज्ञानघनता तावत्प्रघनचित्तता ।
यावत्प्रावृड्जलदता तावन्नीहारभूरिता ।। २६
यावदज्ञानतनुता तावच्चित्तस्य तानवम् ।
प्रावृट्परिक्षयो यावत्तावन्नीहारसंक्षयः ।। २७
यावत्तानवमायातं शुद्धं चित्तं विचारतः ।
तावत्तत्क्षीणमेवाहं मन्ये शारदमेघवत् ।। २८
अनुशासनमेतद्यदसतो नश्यतोऽथ वा ।
क्रियते तन्नभोवारिपवनाहननैः समम् ।। २९
तस्मात्संक्षीयमाणत्वात्त्यजामि त्वामसन्मयम् ।
मौर्ख्यं परममेवाहुः परित्याज्यानुशासनम् ।। ३०
निर्विकल्पोऽस्मि चिद्दीपो निरहंकारवासनः ।
त्वयाहंकारबीजेन न संबद्धोऽस्म्यसन्मय ।। ३१
अयं सोऽहमिति व्यर्थं दुर्दृष्टिरवलम्बिता ।
त्वया मूढविनाशाय शङ्काविषविषूचिका ।। ३२
अनन्तस्यात्मतत्त्वस्य तन्वीति मनसि स्थितिः ।
न संभवति बिल्वान्तर्वासितादन्तिनोर्यथा ।। ३३
महाश्वभ्रीव गम्भीरा दुःखदा वासनाश्रिता ।
त्वयैषा बत चित्तेति नैनामनुसराम्यहम् ।। ३४
कः किलायं मुधा मोहो बालस्येवाविचारिणः ।
अयं सोऽहमिति भ्रान्तिस्त्वहंतापरिकल्पिता ।। ३५
पादाङ्गुष्ठाच्छिरो यावत्कणशः प्रविचारितम् ।
न लब्धोऽसावहं नाम कः स्यादहमिति स्थितः ।।३६
भरिताशेषदिक्कुञ्जं यत्स्यामेकं जगत्त्रये ।
संवेदनमसंवेद्यं सर्वत्रविगतात्मकम् ।। ३७
दृश्यते यस्य नेयत्ता न नाम परिकल्पना ।
नैकता नान्यतैवेह न महत्ता न चाणुता ।। ३८
वेद तत्त्वां स्वसंवेद्यमाततं दुःखकारणम् ।
विवेकजेन बोधेन तदिदं हन्यसे मया ।। ३९
इदं मांसमिदं रक्तमिमान्यस्थीनि देहके ।
इमे ते श्वासमरुतः कोऽसावहमिति स्थितः ।। ४०
स्पन्दो हि वातशक्तीनामवबोधो महाचितः ।
जरा मृतिश्च कायेऽस्मिन्कोऽसावहमिति स्थितः४१
मांसमन्यदसृक्चान्यदस्थीन्यन्यानि चित्त हे ।
बोधोऽन्यः स्पन्दनं चान्यत्कोसावहमिति स्थितः४२
इदं घ्राणमियं जिह्वा त्वगियं श्रवणे इमे ।
इदं चक्षुरसौ स्पर्शः कोऽसावहमिति स्थितः ।। ४३
यथाभूततया नाहं मनो न त्वं न वासना ।
आत्मा शुद्धचिदाभासः केवलोऽयं विजृम्भते ।। ४४
अहमेवेह सर्वत्र नाहं किंचिदपीह वा ।
इत्येव सन्मयी दृष्टिर्नेतरो विद्यते क्रमः ।। ४५
चिरमज्ञानधूर्तेन पोथितोऽस्मि त्वहंतया ।
वृकेण दृप्तेनाटव्यां लब्धेन पशुपोतकः ।। ४६
दिष्ट्येदानीं परिज्ञातो मयैवाज्ञानतस्करः ।
पुनर्न संश्रयाम्येनं स्वरूपार्थापहारिणम् ।। ४७
निर्दुःखो दुःखयोग्यस्य नाहं तस्य न चैष मे ।
कश्चिद्भवति शैलस्य तत्स्थ एव यथाम्बुदः ।। ४८
भूत्वा त्वहमिदं वच्मि वेद्मि तिष्ठामि यामि च ।
आत्मावलोकनेनाहमनहंकारतां गतः ।। ४९
नूनमेवाहमेवैते मन्ये ज्ञाश्चक्षुरादयः ।
यान्तु तिष्ठन्तु वा देहे ममैते तु न किंचन ।। ५०
कष्टं कोऽयमहं नाम कथं केनोपकल्पितः ।
जगद्बालकवेतालस्तालोत्तालातुलाकृतिः ।। ५१
एतावन्तं चिरं कालं व्यर्थमालुठितोऽवटे ।
अहमत्र तृणोन्मुक्ते दुरद्रौ हरिणो यथा ।। ५२
स्वार्थमालोकने चक्षुर्यदितून्मुखतां गतम् ।
तदहं नाम कोसौ स्याद्योऽस्मिन्दुःखे न मोहितः ।।५३
स्पर्शनाय निजे तत्त्वे यदि जाता त्वगुन्मुखी ।
तत्कोयं स्यादहं नाम कुपिशाच इवोदितः ।। ५४
रसेष्वभिनिषण्णेऽस्मिन्स्वक्रमे रसनेन्द्रिये ।
अहं मृष्टभुगित्येष कुतस्त्यः कुत्सितो भ्रमः ।। ५५
शब्दशक्तिं गते श्रोत्रे वराके स्वार्थपीडिते ।
तदहंकारदुःखस्य निर्बीजस्य क आगमः ।। ५६
आत्मभरित्वेन निजे घ्राणे स्वं गन्धमागते ।
अहं घ्रातेति यो माता तं चौरं नैव वेद्म्यहम् ।। ५७
मृगतृष्णाक्रमेणैषा भावना व्यर्थभाविनी ।
भावस्तस्यामसत्यायां यः सोऽयमिति संभ्रमः ।।५८
वासनाहीनमप्येतच्चक्षुरादीन्द्रियैः स्वतः ।
प्रवर्तते बहिः स्वार्थे वासना नात्र कारणम् ।। ५९
वासनारहितं कर्म क्रियते ननु चित्त हे ।
केवलं नानुभूयन्ते सुखदुःखदृशोऽग्रगाः ।। ६०
तस्मान्मूर्खाणीन्द्रियाणि त्यक्त्वान्तर्वासनां निजाम् ।
कुरुध्वं कर्म हे सर्वं न दुःखं समवाप्स्यथ ।। ६१
भवद्भिरेव दुःखाय वासनावासिता मुधा ।
बालैः पङ्कक्रीडनकं विनाशेनेव खिन्नता ।। ६२
वासनाद्या दृशः सर्वा व्यतिरिक्तास्तु नात्मनः ।
जलादिव तरङ्गाद्या ज्ञस्यैवान्यस्य नानघ ।। ६३
तृष्णयैव विनष्टाः स्थ व्यर्थमिन्द्रियबालकाः ।
कोशकारकुकृमयस्तन्तुनेव स्वयंभुवा ।। ६४

तृष्णयैवेह लुठथ जरामरणसंकटे ।
भ्रमदृष्ट्येव शिखरिपथिकाः श्वभ्रभूमिषु ।। ६५
वासनैवेह भवतां हेतुरेकत्र बन्धने ।
रज्जुः शून्याशयप्रोता मुक्तानामातता यथा ।। ६६
कल्पनामात्रकलिता सत्यैषा हि न वस्तुतः ।
असंकल्पनमात्रेण दात्रेणेव विलूयते ।। ६७
एषा हि भवतामेव विमोहाय क्षयाय च ।
वातलेखेव दीपानां स्फुरतामपि तेजसाम् ।। ६८
हे चित्त सर्वेन्द्रियकोश तस्मा-
त्सर्वेन्द्रियैरैक्यमुपेत्य नूनम् ।
आलोक्य चात्मानमसत्स्वरूपं
निर्वाणमेवामलबोधमास्स्व ।। ६९
विषयविषविषूचिकामनन्तां
निपुणमहंस्थितिवासनामपास्य ।
अभिमतपरिहारमन्त्रयुक्त्या
भव विभवो भगवान्भियामभूमिः ।। ७०
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० उपशमप्रकरणे उद्दालकविचारो नाम द्विपञ्चाशः सर्गः ।। ५२ ।।