योगवासिष्ठः/प्रकरणम् ५ (उपशमप्रकरणम्)/सर्गः ६४


चतुःषष्टितमः सर्गः ६४
श्रीवसिष्ठ उवाच ।
सुरघुः परिघश्चैव विचार्येति जगद्भ्रमम् ।
मिथः प्रपूजितौ तुष्टौ स्वव्यापारपरौ गतौ ।। १
तदेव राघव श्रुत्वा परमं बोधकारणम् ।
अनेनैव विबोधेन भव लब्धास्पदः स्फुटम् ।। २
परया प्रज्ञया धीरविचारगततीक्ष्णया ।
गलत्यलमहंकारकालमेघे हृदम्बरे ।। ३
समस्तलोकानुमते सफले ह्लादकारिणि ।
निर्मले वितते चेतः शरत्काल उपस्थिते ।। ४
ध्येये शरण्ये सुगमे सकलानन्दसंपदि ।
सुप्रसन्ने चिदाकाशे स्थीयते परमात्मनि ।। ५
यो नित्यमध्यात्ममयो नित्यमन्तर्मुखः सुखी ।
नित्यं चिदनुसंधानो मनःशोकैर्न बाध्यते ।। ६
व्यवहारपरोऽत्युच्चै रागद्वेषमयोऽपि सन् ।
नान्तःकलङ्कमायाति पद्मो जलगतो यथा ।। ७
सम्यग्विज्ञानवान्शुद्धो योऽन्तःशान्तमना मुनिः ।
न बाध्यते स मनसा करिणेव मृगाधिपः ।। ८
भोगैकशरणं दीनं न चित्तं ज्ञस्य विद्यते ।
नन्दने दुर्द्रुम इव ज्ञचित्तं हि महावपुः ।। ९
विरक्तो जन्ममरणे यथा दुःखी न मानवः ।
परिज्ञाताखिलाविद्यं तथा चित्तं न दुःखितम् ।। १०
परिज्ञातमनोमोहो जगद्भावोद्भवात्मना ।
स्पृश्यते नैनसा साधो रजसेव नभस्तलम् ।। ११
अविद्यासंपरिज्ञातमिदमेव महौषधम् ।
अविद्याविततव्याधेस्तिमिरस्येव दीपकम् ।। १२
अविद्या संपरिज्ञाता यदैव हि तदैव हि ।
सा परिक्षीयते भूयः स्वप्नेनेव हि भोगभूः ।। १३
व्यवहारपरोऽप्यन्तरसक्तमतिरेकधीः ।
स्पृश्यते नैनसा साधुर्मत्स्येक्षणमिवाम्भसा ।। १४
प्राप्ते चिद्भासुरालोके प्रक्षीणाऽज्ञानयामिनी ।
शेमुषी परमानन्दमागता ज्ञस्य राजते ।। १५
अज्ञाननिद्रोपशमे जनो ज्ञानार्कबोधितः ।
तत्प्रबोधमवाप्नोति पुनर्येन न मुह्यति ।। १६
दिनानि जीव्यते तानि सानन्दास्ते क्रियाक्रमाः ।
आत्मचन्द्रोदिता येषु चिज्ज्योत्स्ना हृदयाम्बरे ।। १७
नरो मोहसमुत्तीर्णः सततं स्वात्मचिन्तया ।
अन्तःशीतलतामेति स्वामृतेनेव चन्द्रमाः ।। १८
तानि मित्राणि शास्त्राणि तानि तानि दिनानि च ।
विरागोल्लासवान्येभ्य आत्मचित्तोदयः स्फुटम् ।। १९
चिरं शोचन्ति ते दीना जन्मजङ्गलवीरुधः ।
आत्मावलोकने हेला येषामविगतैनसाम् ।। २०
आशापाशशतैर्बद्धं भोगोलपसुलालसम् ।
जराजर्जरिताकारं शोकोच्छ्वासकदर्थितम् ।। २१
व्यूढदुःखमहाभारं जन्मजङ्गलजीवितम् ।
कुकर्मकर्दमालिप्तं मोहपल्वलशायिनम् ।। २२
रागदंशावलीदष्टं कृष्टं तृष्णावरत्रया ।
मनोवणिङनिकेतस्थं बन्धुबन्धननिश्चलम् ।। २३
पुत्रदारजराजीर्णे मग्नोन्मग्नं कुकर्दमे ।
श्रान्तं विगतविश्रामं भग्नमादीर्घवर्त्मनि ।। २४
गमागमपरिक्षीणं संसारारण्यचारिणम् ।
अलब्धशीतलच्छायं तीव्रतापोपतापितम् ।। २५
आकारभासुरं दीनं बाह्यैराक्रान्तमिन्द्रियैः ।
कर्मघण्टारवाक्रान्तं क्रान्तं दुष्कृतताडनैः ।। २६
आविर्भावतिरोभावचक्रावर्तधुरोद्वहम् ।
अज्ञानविकटाटव्यां लुठितं सन्नगात्रकम् ।। २७
निजानर्थसदामग्नं सीदमानमकिंचनम् ।
सन्नाङ्गं कर्मभारेण करुणाक्रन्दकारिणम् ।। २८
राम जीवबलीवर्दमिमं संसारपल्वलात् ।
परमं यत्नमास्थाय चिरमुत्तारयेद्वलात् ।। २९
तत्त्वावलोकनात्क्षीणे चित्ते नो जायते पुनः ।
जीवः कदाचन तदा भवेत्तीर्णभवार्णवः ।। ३०
महानुभावसंपर्कात्संसारार्णवलङ्घने ।
युक्तिः संप्राप्यते राम स्फुटा नौरिव नाविकात् ।। ३१
यस्मिन्देशमरौ तज्ज्ञो नास्ति सज्जनपादपः ।
सफलः शीतलच्छायो न तत्र निवसेद्बुधः ।। ३२
स्निग्धशीतवचःपत्रे सच्छाये स्मितपुष्पके ।
क्षणाद्विश्रम्यते राम भृशं सुजनचम्पके ।। ३३
तदभावे महामोहतापसंपत्तिदायिनि ।
किंचिज्जातविवेकेन स्वप्तव्यं नेह धीमता ।। ३४
आत्मैव ह्यात्मनो बन्धुरात्मनात्मैवमुद्धरेत् ।
नात्मानमवलेपेन जन्मपङ्कार्णवे क्षिपेत् ।। ३५
किमिदं कथमायातं किंमूलमिति किंक्षयम् ।
देहदुःखमिति प्राज्ञैः प्रेक्षणीयं प्रयत्नतः ।। ३६
न धनानि न मित्राणि न शास्त्राणि न बान्धवाः ।
नराणामुपकुर्वन्ति मग्नस्वात्मसमुद्धृतौ ।। ३७
मनोमात्रेण सुहृदा सदैव सहवासिना ।
सह किंचित्परामृश्य भवत्यात्मा समृद्धृतः ।। ३८
वैराग्याभ्यासयत्नाभ्यां स्वपरामर्शजन्मना ।
तत्त्वालोकनपोतेन तीर्यते भवसागरः ।। ३९
शोच्यमानं जनैर्नित्यं दह्यमानं दुराशया ।
नात्मानमवमन्येत प्रोद्धरेदेनमादरात् ।। ४०
अहंकारमहालानं तृष्णारज्जुं मनोमदम् ।
जन्मजम्बालनिर्मग्नं जीवदन्तिनमुद्धरेत् ।। ४१
अयमेतावतैवात्मा त्रातो भवति राघव ।
यदपास्य विमूढत्वमहंकारः प्रमार्ज्यते ।। ४२
एतावतैव सन्मार्गे याति प्रकटतामलम् ।
यदपास्य मनोजालमहंभावो विलूयते ।। ४३
एतावतैव देवेशः परमात्मावगम्यते ।
काष्ठलोष्टसमत्वेन देहो यदवलोक्यते ।। ४४
अहंकाराम्बुदे क्षीणे दृश्यते चिद्दिवाकरः ।
ततस्तत्परिणामेन तत्पदं समवाप्यते ।। ४५
यथा ध्वान्तसमुच्छेदे स्वयमालोकवेदनम् ।
तथाहंकारविच्छेदे स्वयमात्मावलोकनम् ।। ४६
अहंकारे परिक्षीणे यावस्था सुखमोदजा ।
सावस्था भरिताकारा सा सेव्या संप्रयत्नतः ।। ४७
परिपूर्णार्णवप्रख्या न वा गोचरमेति नः ।
नोपमानमुपादत्ते नानुधावति रञ्जनम् ।। ४८
केवलं चित्प्रकाशांशकलिका स्थिरतां गता ।
तुर्या चेत्प्राप्यते दृष्टिस्तत्तया सोपमीयते ।। ४९
अदूरगतसादृश्यात्सुषुप्तस्योपलक्ष्यते ।
सावस्था भरिताकारा गगनश्रीरिवातता ।। ५०
मनोहंकारविलये सर्वभावान्तरस्थिता ।
समुदेति परानन्दा या तनुः पारमेश्वरी ।। ५१
सा स्वयं योगसंसिद्धा सुषुप्तादूरभाविनी ।
न गम्या वचसां राम हृद्येवेहानुभूयते ।। ५२
अनुभूतिं विना तत्त्वं खण्डादेर्नानुभूयते ।
अनुभूतिं विना रूपं नात्मनश्चानुभूयते ।। ५३
अखिलमिदमनन्तमात्मतत्त्वं
दृढपरिणामिनि चेतसि स्थितेऽन्तः ।
बहिरुपशमिते चराचरात्मा
स्वयमनुभूयत एव देवदेवः ।। ५४
तदनु विषयवासनाविनाश-
स्तदनु शुभः परमः स्फुटप्रकाशः ।
तदनु च समतावशात्स्वरूपे
परिणमनं महतामचिन्त्यरूपम् ।। ५५
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये देव० मोक्षोपायेषूपशमप्रकरणे उपदेशो नाम चतुःषष्टितमः सर्गः ।। ६४ ।।