योगवासिष्ठः/प्रकरणम् ५ (उपशमप्रकरणम्)/सर्गः ६५
पञ्चषष्टितमः सर्गः ६५
श्रीवसिष्ठ उवाच ।
मनसैव मनश्छित्त्वा यद्यात्मा नावलोक्यते ।
ममेत्यहमिति त्यक्त्वा तत्तामरसलोचन ।। १
नास्तमेति जगद्दुःखं यथा चित्रगतो रविः ।
आयात्यापदनन्तत्वं महार्णववदातता ।। २
पुनःपुनरुपायाति जलकल्लोलकारणम् ।
मेघनीलतमःश्यामा संसृतिप्रावृडाकुला ।। ३
अत्रैवोदाहरन्तीममितिहासं पुरातनम् ।
संवादं सुहृदो सह्यसानौ भासविलासयोः ।। ४
अस्त्युत्सेधजिताकाशः पीठेन जितभूतलः ।
तलेन जितपातालस्त्रिलोकविजयो गिरिः ।। ५
असंख्यकुसुमापूरोऽसंख्यनिर्मलनिर्झरः ।
गुह्यकारक्षितनिधिः सह्यनामाऽविषह्यभाः ।। ६
मुक्तापटलसंपूर्णैर्भानुभासुरभित्तिभिः ।
भासुरः काञ्चनतटैः कटैरिव सुरद्विपः ।। ७
क्वचित्पुष्पभरासारो धातुसाराततः क्वचित् ।
क्वचित्फुल्लसरःसारो रत्नशालिशिलः क्वचित् ।। ८
इतो रटन्निर्झरवानितः क्वणितकीचकः ।
इतो रटद्गुहावात इतः षट्पदघुंघुमः ।। ९
सानौ गीतोऽप्सरोवृन्दैर्वने मृगखगारवः ।
अधित्यकायां मत्ताभ्रो गगनेषु खगारवः ।।१०
विद्याधराश्रितगुहो भृङ्गगीताम्बुजाकरः ।
किरातगीतपर्यन्तः खगगीतवनद्रुमः ।। ११
स्कन्धेषु देवैर्वलितः पादेषु वलितो नरैः ।
पाताले वलितो नागैर्जगद्गृहमिवापरम् ।। १२
कन्दरेषु श्रितः सिद्धैर्निधानैरन्तराश्रितः ।
चन्दनेषु श्रितो नागैः सिंहैः श्रृङ्गशिखासु च ।। १३
पुष्पाभ्रसंवीतवपुः पुष्परेण्वभ्रपांसुलः ।
पुष्पवात्याभ्रहृद्भ्रान्तः पुष्पपादपपाण्डुरः ।। १४
धातुधूल्यभ्रकपिलो रत्नोपलतलस्थितैः ।
मन्दारगैरिव पुरस्त्रीगणैरलमाश्रितः ।। १५
अभ्रनीलांशुकच्छन्ना मूकरत्नविभूषणाः ।
शिलाः कनकसुन्दर्यो यत्र श्रृङ्गाभिसारिकाः ।। १६
तत्रोत्तरतटे सानौ विनम्रफलपादपे ।
रत्नपुष्करिणीजालवहन्निर्झरवारिणि ।। १७
चूतद्रुमलतोन्मुक्तपुष्पस्तबकदन्तुरे ।
विफुल्लाङ्कोलपुन्नागनीलनीरजदिक्तटे ।। १८
लतावितानच्छन्नार्के रत्नांशुभम्भास्वरे ।
स्रवज्जम्बूरसस्यूते स्वलोकाह्लादकारिणि ।। १९
ब्रह्मलोकसमः स्वर्गरम्यः शिवपुरोपमः ।
अत्रेरस्त्याश्रमः श्रीमान्सिद्धश्रमहरो महान् ।। २०
महत्यत्राश्रमे तस्मिंस्तापसौ द्वौ बभूवतुः ।
कोविदौ तु नभोमार्ग इव शुक्रबृहस्पती ।। २१
तयोरथैकास्पदयोस्तथाभूतां सुतावुभौ ।
फुल्लाङ्कुरौ शुद्धतनू सरस्यम्बुजयोरिव ।। २५२
विलासभासनामानौ वृद्धिमाययतुः क्रमात् ।
तौ पित्रोः पल्लवे दीर्घे लतापादपयोरिव ।। २३
आस्तामन्योन्यसुस्निग्धौ सुहृदौ वल्लभौ मिथः ।
तिलतैलवदाश्लिष्टौ तौ पुष्पामोदवत्स्थितौ ।। २४
नाऽयुक्तौ पुत्रयुक्तौ तु सुरक्ताविव दंपती ।
एकं द्वित्वमिवापन्नं सममासीत्तयोर्मनः ।। २५
तौ तथान्योन्यमुदितौ मनोहरतराकृती ।
तस्थतुः स्वाश्रमे मौने सरोज इव षट्पदौ ।। २६
प्रापतुर्यौवनं बाल्यमुत्सृज्य नववल्लभौ ।
कालेनाल्पतरेणैव चन्द्रसूर्याविवोदितौ ।। २७
जग्मतुर्देहमुत्सृज्य ततस्तौ पितरौ तयोः ।
स्वर्गं जरार्तावुड्डीय नीडादिव विहंगमौ ।। २८
पञ्चत्वं गतयोः पित्रोर्दीनवक्त्रौ बभूवतुः ।
तप्ताङ्गौ विगतोत्साहौ पद्माविव जलोद्धृतौ ।। २९
तत्रौर्ध्वदैहिकं कृत्वा चक्राते परिदेवनम् ।
लोकस्थितिरलङ्घ्या हि महतामपि मानद ।। ३०
कृत्वौर्ध्वदैहिकमथो व्यथयाभिभूतौ
शोकोत्थया करुणयार्तगिरा विलप्य ।
चित्रार्पिताविव निरस्तसमस्तचेष्टौ
तौ संस्थितौ सुखमशून्यहृदौ विवृत्तौ ।।३१
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मी०दे० मोक्षोपायेषूपशमप्रकरणे भासविलासवृत्तान्ते सह्यगिरिवर्णनं नाम पञ्चषष्टितमः सर्गः ।।६५।।