योगवासिष्ठः/प्रकरणम् ५ (उपशमप्रकरणम्)/सर्गः ७०


सप्ततितमः सर्ग । ७०
श्रीवसिष्ठ उवाच ।
असंसङ्गसुखाभ्याससंस्थितैर्विततात्मभिः ।
व्यवहारिभिरप्यन्तर्वीतशोकभयैः स्थितम् ।। १
प्रक्षुब्धाक्षुब्धदेहस्याविसंवादेन संविदः ।
अन्तःपूर्णस्य वदने श्रीरिन्दोरिव लक्ष्यते ।। २
चेत्यहीनं चिदालम्बं मनो यस्य गतज्वरम् ।
तेनाम्बु कतकेनेव जनता संप्रसीदति ।। ३
नित्यमात्मदृशा लीनो ज्ञः स्वस्थश्चञ्चलोऽपि सन् ।
क्षुब्धो दृश्यत एवासौ प्रतिबिम्बार्कवन्मुधा ।। ४
आत्मारामा महात्मानः प्रबुद्धाः परमोदयाः ।
बहिः पिच्छाग्रतरला अन्तर्मेरुरिवाचलाः ।। ५
चित्तमात्मत्वमायातं सुखदुःखानुरञ्जनम् ।
नोपैति रङ्गसंयुक्तो मसृणः स्फटिको यथा ।। ६
संसारदृष्टिरुदितं ज्ञातलोकपरावरम् ।
न रञ्जयति सच्चित्तं जललेखा यथाम्बुजम् ।। ७
आत्मध्यानमयोऽध्याने प्रबोधं परमात्मनः ।
कलनामलनिर्मुक्तः स्वसक्त इति कथ्यते ।। ८
आत्मारामतया जीवो यात्यसंसङ्गतामिह ।
आत्मज्ञानेन संसङ्गस्तनुतामेति नान्यथा ।। ९
जाग्रत्येव सुषुप्तस्थो जीवो भवति राघव ।
अस्यां दृशि गतोऽद्वन्द्वो नित्यानस्तमयोदयः ।। १०
अत्र प्रौढिमुपायातः सूर्यतामेति पावनीम् ।
परिणामवशादिन्दुरमावास्यार्कतामिव ।। ११
चित्ते चित्तदशाहीने या स्थितिः क्षीणचेतसाम् ।
सोच्यते शान्तकलना जाग्रत्येव सुषुप्तता ।। १२
तां सुषुप्तदशामेत्य जीवन्व्यवहरन्नरः ।
सुखदुःखवरत्राभिर्न कदाचन कृष्यते ।। १३
जाग्रत्येव सुषुप्तस्थो यः करोति जगत्क्रियाम् ।
तं यन्त्रपुत्रकमिव नायाति सुखदुःखदृक् ।। १४
चित्तस्य बाधिका शक्तिर्भावाभावोपतापदा ।
आत्मतामागते चित्ते तस्य किं बाधते कथम् ।। १५
सुषुप्तबुद्धिः कर्माणि पूर्वमेवावहेलया ।
कुर्वन्न बध्यते जीवो जीवन्मुक्ततया स्थितः ।। १६
सौषुप्तीं वृत्तिमाश्रित्य कुरु मा कुरु वानघ ।


कर्म प्रकृतिजं पाकवशादुपगतं स्थितम् ।। १७
नादानं न परित्यागः कर्मणोऽज्ञाय रोचते ।
तिष्ठन्त्यवगतात्मानो यथाप्राप्तानुवर्तिनः ।। १८
कुर्वन्नपि न कर्तासि सुषुप्त्यैकस्थया धिया ।
अकर्तापि च कर्तासि यथेच्छसि तथा कुरु ।। १९
यथा न किंचित्कलयन्मञ्चके स्पन्दते शिशुः ।
तथा फलान्यकलयन्कुरु कर्माणि राघव ।। २०
अचेत्यचित्पदस्वस्थो जाग्रत्यपि सुषुप्तधीः ।
यद्यत्करोति लब्धात्मा तस्मिंस्तस्य न कर्तृता ।। २१
दशामासाद्य सौषुप्तीं स्वचित्ते च विवासनः ।
अन्तः शीतलतामेति ज्ञो रसेन यथा शशी ।। २२
सुषुप्तस्थो महातेजाः पूर्णः पूर्णेन्दुबिम्बवत् ।
समः सर्वास्ववस्थासु भवत्यद्रिर्यथर्तुषु ।। २३
सुषुप्तसंस्थो धीरात्मा बहिरायाति लोलताम् ।
क्रियासु नो भवत्कम्पः प्रस्पन्दित इवाचलः ।। २४
सुषुप्तावस्थितो भूत्वा देहं विगतकल्मषः ।
पातयाश्वथ वा दीर्घं कालं धारय शैलवत् ।। २५
एषैव राम सौषुप्ती स्थितिरभ्यासयोगतः ।
प्रौढा सती तुर्यमिति कथिता तत्त्वकोविदैः ।। २६
आनन्दमय एवान्तः प्रक्षीणसकलामयः ।
अत्यन्तास्तं गतमना भवति ज्ञो महोदयः ।। २७
तत्रस्थो ज्ञः प्रमुदितः परमानन्दघूर्णितः ।
लीलामिवेमां रचनां सदा समनुपश्यति ।। २८
वीतशोकभयायासो गतसंसारसंभ्रमः ।
तुर्यावस्थामुपारूढो भूयः पतति नात्मवान् ।। २९
प्राप्य स्वां पदवीं पुण्यां यथेदं भ्रमितं जगत् ।
शैलसंस्थ इवाधःस्थं हसन्पश्यति धीरधीः ।। ३०
अस्यां तु तुर्यावस्थायां स्थितिं प्राप्याविनाशिनीम् ।
आनन्दैकान्तलीनत्वादनानन्दपदं गतः ।। ३१
अनानन्दमहानन्दकलातीतस्ततोऽपि हि ।
मुक्त इत्युच्यते योगी तुर्यातीतं पदं गतः ।। ३२
परिगलितसमस्तजन्मपाशः
सकलविलीनतमोमयाभिमानः ।
परमरसमयीं प्रयाति सत्तां
जलगतसैन्धवखण्डवन्महात्मा ।। ३३
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषूपशमप्रकरणे असंसङ्गविकल्पोपदेशो नाम सप्ततितमः सर्गः ।।७० ।।