योगवासिष्ठः/प्रकरणम् ५ (उपशमप्रकरणम्)/सर्गः ७७


सप्तसप्ततितमः सर्गः ७७
श्रीराम उवाच ।
समासेन मुने भूयो दृष्टतत्त्वचमत्कृतेः ।
कथयोदारवृत्तान्तं कस्ते वचसि तृप्यति ।। १
श्रीवसिष्ठ उवाच ।
जीवन्मुक्तस्य बहुधा कथितं लक्षणं मया ।
भूयोऽपि त्वं महाबाहो कथ्यमानमिदं श्रृणु ।। २
सुषुप्तवदिदं नित्यं पश्यत्यपगतैषणः ।
असद्रूपमिवासक्तं सर्वत्राखिलमात्मवान् ।। ३
कैवल्यमिव संप्राप्तः परिसुप्तमना इव ।
घूर्णमान इवानन्दी तिष्ठत्यधिगतात्मदृक् ।। ४
नादत्तमप्युपादत्ते गृहीतमपि पाणिना ।
अन्तर्मुखतयोदात्तरूपया समया धिया ।। ५
यन्त्रपुत्रकसंचार इतीमं जनताक्रमम् ।
अन्तःसंलीनया दृष्ट्या पश्यन्हसति शान्तधीः ।। ६
नापेक्षते भविष्यं च वर्तमाने न तिष्ठति ।
न संस्मरत्यतीतं च सर्वमेव करोति च ।। ७
सुप्तः प्रबुद्धो भवति प्रबुद्धोऽपि च सुप्तवान् ।
सर्वं कर्म करोत्यन्तर्न करोति च किंचन ।। ८
अन्तःसर्वपरित्यागी नित्यमन्तरनेषणः ।
कुर्वन्नपि बहिः कार्यं सममेवावतिष्ठते ।। ९
बहिः प्रकृतसर्वेहो यथाप्राप्तक्रियोन्मुखः ।
स्वकर्मक्रमसंप्राप्तबन्धुकार्यानुवृत्तिमान् ।। १०
समग्रसुखभोगात्मा सर्वाशास्विव संस्थितः ।
करोत्यखिलकर्माणि त्यक्तकर्तृत्वविभ्रमः ।। ११
उदासीनवदासीनः प्रकृतः क्रमकर्मसु ।
नाभिवाञ्छति न द्वेष्टि न शोचति न हृष्यति ।। १२
अनुबन्धपरे जन्तावसंसक्तेन चेतसा ।
भक्ते भक्तसमाचारः शठे शठ इव स्थितः ।। १३
बालो बालेषु वृद्धेषु वृद्धो धीरेषु धैर्यवान् ।
युवा यौवनवृत्तेषु दुःखितेष्वनु दुःखितः ।। १४
प्रवृत्तवाक्पुण्यकथो दैन्याद्व्यपगताशयः ।
धीरधीरुदितानन्दः पेशलः पुण्यकीर्तनः ।। १५
प्राज्ञः प्रसन्नमधुरः पूर्णः स्वप्रतिभोदये ।
निरस्तखेददौर्गत्यः सर्वस्मिन्स्निग्धबान्धवः ।। १६
उदारचरिताकारः समः सौम्यसुखोदधिः ।
सुस्निग्धः शीतलस्पर्शः पूर्णचन्द्र इवोदितः ।। १७
न तस्य सुकृतेनार्थो न भोगैर्न च कर्मभिः ।
न दुष्कृतैर्न भोगानां संत्यागेन न बन्धुभिः ।। १८
न कार्यकारणारम्भैर्न निष्कृततया तथा ।
न बन्धेन न मोक्षेण न पातालेन नो दिवा ।। १९
यथावस्तु यथादृष्टं जगदेकमयात्मकम् ।
तदा बन्धविमोक्षाणां न क्वचित्कृपणं मनः ।। २०
सम्यग्ज्ञानाग्निना यस्य दग्धाः संदेहजालिकाः ।
निःशङ्कमलमुड्डीनस्तस्य चित्तविहङ्गमः ।। २१
यस्य भ्रान्तिविनिर्मुक्तं मनः समरसं स्थितम् ।
नास्तमेति न चोदेति व्योमवत्सर्वदृष्टिषु ।। २२
मंजूषायां निषण्णस्य यथा बालस्य चेष्टते ।
अङ्गावल्यनुसंधानवर्जितं यस्य वै तथा ।। २३
घूर्णन्क्षीव इवानन्दी मन्दीभूतपुनर्भवः ।
अनुपादेयबुद्ध्या तु न स्मरत्यकृतं कृतम् ।। २४
सर्व सर्वप्रकारेण गृह्णाति च जहाति च ।
अनुपादेयसर्वार्थो बालवच्च विचेष्टते ।। २५
स तिष्ठन्नपि कार्येषु देशकालक्रियाक्रमैः ।
न कार्यसुखदुःखाभ्यां मनागपि हि गृह्यते ।। २६
बहिः प्रकृतसर्वार्थोऽप्यन्तः पुनरनीहया ।
न सत्तां योजयत्यर्थे न फलान्यनुधावति ।। २७
नोपेक्षते दुःखदशां न सुखाशामपेक्षते ।
कार्योदये नैति मुदं कार्यनाशे न खिद्यते ।। २८
अपि शीतरुचावर्के सुतप्तेऽपीन्दुमण्डले ।
अप्यधः प्रसरत्यग्नौ विस्मयोऽस्य न जायते ।। २९
चिदात्मन इमा इत्थं प्रस्फुरन्तीह शक्तयः ।
इत्यस्याश्चर्यजालेषु नाभ्युदेति कुतूहलम् ।। ३०
न दयादैन्यमादत्ते न क्रौर्यमनुधावति ।
न लज्जामनुसंधत्ते नालज्जत्वं च गच्छति ।। ३१
न कदाचन दीनात्मा नोद्धतात्मा कदाचन ।
न प्रमत्तो न खिन्नात्मा नोद्विग्नो न च हर्षवान् ।। ३२
नास्य चेतसि सुस्फारे शरदम्बरनिर्मले ।
कोपादयः प्रजायन्ते नभसीव नवाङ्कुराः ।। ३३
अनारतपतज्जातभूतायां जगतः स्थितौ ।
क्व कथं किल कासौ स्यात्सुखिताऽसुखिताथवा ।।३४
फेनाजवं जवीभावे जले भूतक्रमे तथा ।
क्व किलेदं कुतः कोऽतः प्रसङ्गः सुखदुःखयोः ।। ३५
भावाभावैरपर्यन्तैरजस्रं जन्तुसंभवैः ।
न विशीर्यन्ति नोद्यन्ति दृष्टिसृष्टिक्षमा नराः ।। ३६
निमेषं प्रति यामिन्यां यथान्याः स्वप्नदृष्टयः ।
क्षणोत्पत्तिविनाशिन्यस्तथैता लोकदृष्टयः ।। ३७
अनारतसमुत्पत्तावनारतविनाशिनि ।
कः क्रमो दग्धसंसारे कारुण्यानन्दयोरिह ।। ३८
शुभाभावात्सुखाभावे स्थितिं याते विलक्षणाः ।
कीदृश्यः कथमायाताः क्व वा ता दुःखसंविदः ।। ३९
सुखसंवेदनान्तोत्था स्वबीजं वितनोति या ।
शान्ता दुःखदशा सेयं कथमन्तर्हिते सुखे ।। ४०
क्षीणाभ्यां सुखदुःखाभ्यां हेयोपादेययोः क्षये ।
ईप्सितानीप्सिते क्व स्तो गलितेऽथ शुभाशुभे ।। ४१
रम्यारम्यदृशोर्नाशाद्याते भोगाभिवाञ्छने ।
नैराश्ये संततं प्रौढे हिमवद्विगलेन्मनः ।। ४२
आमूलान्मनसि क्षीणे संकल्पस्य कथा च का ।
तिलेष्विवातिदग्धेषु तैलस्य कलना कुतः ।। ४३
भावेष्वभावघनभावनया महात्मा
निर्मुक्तसंकलनमम्बरवत्स्थितेषु ।
चित्तं प्रति स्वमुदितो विततैकरूपी
ज्ञस्तिष्ठति स्वपिति जीवति नित्यतृप्तः ।। ४४
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषूपशमप्रकरणे जीवन्मुक्तस्वरूपवर्णनं नाम सप्तसप्ततितमः सर्गः ।।७७।।