योगवासिष्ठः/प्रकरणम् ५ (उपशमप्रकरणम्)/सर्गः ८४


चतुरशीतितमः सर्गः ८४
श्रीवसिष्ठ उवाच ।
इति निर्णीय स मुनिर्वीतहव्यो विवासनः ।
आसीत्समाधावचलो विन्ध्यकन्दरकोटरे ।। १
अपरिस्पन्दिताशेषसंविदानन्दसुन्दरः ।
बभावस्तंगतमनाः स्तिमिताम्भोधिशोभनः ।। २
अन्तरेव शशामास्य क्रमेण प्राणसंततिः ।
ज्वालाजालपरिस्पन्दो दग्धेन्धन इवानलः ।। ३
अनन्तर्निष्ठतां याते बाह्यार्थे चाप्यसंस्थिते ।
शेषेऽन्तर्लब्धसंस्थाने तस्यास्फुरितपक्ष्मणी ।। ४
घ्राणप्रान्तगताल्पाल्पसमालोके इवेक्षणे ।
अर्धकुड्मलितैः पद्मैः श्रियमाययतुः समाम् ।। ५
समकायशिरोग्रीवस्थानकः स महामतिः ।
आसीच्छैलादिवोत्कीर्णश्चित्रार्पित इवाथवा ।। ६

तथाभितिष्ठतस्तस्य संवत्सरशतत्रयम् ।
कोटरे विन्ध्यकच्छस्य ययावर्धमुहूर्तवत् ।। ७
एतावन्तमसौ कालं नाबुद्ध्यत किलात्मवान् ।
जीवन्मुक्ततया ध्यानी न च तत्याज तां तनुम् ।। ८
तावत्कालं स सुभगो न प्राबुध्यत योगवित् ।
उदारैरम्बुदारावैरासारभरघर्घरैः ।। ९
पर्यन्तमण्डलाधीशमृगयानतबृंहितैः ।
पक्षिवानरनिर्ह्रादैर्मातङ्गास्फोटनिःस्वनैः ।। १०
सिंहसंरम्भरटितैर्निर्झरारावसीत्कृतैः ।
विषमाशनिसंपातैर्जनकोलाहलैर्घनैः ।। ११
प्रमत्तशरभास्फोटैर्भूकम्पतटघट्टनैः ।
वनदाहधमध्वानैर्जलौघाहतिवल्गनैः ।। १२
महोपलतटाघातैर्धरणीतलमृज्जलैः ।
जलौघान्दोलनायातैस्तापैरनलकर्कशैः ।। १३
केवलं वहति स्वैरं काले गलितकारणम् ।
परियान्तीषु वर्षासु लहरीष्विव वारिणि ।। १४
स्वल्पेनैव हि कालेन तस्मिन्पर्वतकन्दरे ।
प्रावृडोघविनुन्नेन पङ्केनोर्वीतले कृतः ।। १५
तत्रासाववसद्भूमौकोटरे संकटोदरे ।
पङ्कसंपीडितस्कन्धः पर्वतेषु शिला यथा ।। १६
शतत्रये स वर्षाणामथ याते स्वयंप्रभुः ।
व्यबुध्यतात्मरूपात्मा धराकोटरपीडितः ।। १७
संविदेवास्य तं देहं जग्राहोर्वीनिपीडितम् ।
तनुः प्राणमयस्पन्दः प्राणसंसरणं विना ।। १८
उत्पत्तिप्रौढिमासाद्य कलना हृदयान्तरे ।
स्वमनोरूपिणी तस्य हृद्येवानुबभूव सा ।। १९
कैलासकानने कान्ते कदम्बस्य तरोस्तले ।
मुनित्वं शतमब्दानां जीवन्मुक्तात्मनिर्मलम् ।। २०
विद्याधरत्वं वर्षाणां शतमाधिविवर्जितम् ।
युगपञ्चकमिन्द्रत्वं प्रणतं सुरचारणैः ।। २१
श्रीराम उवाच ।
शक्रत्वादिषु तेष्वस्य प्रतिभासेषु भो मुने ।
नियमोऽनियमश्चैव दिक्कालनियतेः कथम् ।। २२
श्रीवसिष्ठ उवाच ।
सर्वात्मिकैषा चिच्छक्तिर्यत्रोदेति यथा यथा ।
तथा तत्राशु भवति तथात्मैकस्वभावतः ।। २३
यथा यत्र यदा बुद्धौ नियमः स तदा स्थितः ।
देशकालादिनियमक्रमाणां तन्मयात्मता ।। २४
तेन नानाविधान्येष जगन्ति परिदृष्टवान् ।
हृदि संवेदनाकाशे वीतहव्यो विवासनः ।। २५
सम्यग्बोधवतामेषा वासनैव न वासना ।
ज्ञानाग्निदग्धाऽदग्धस्य कैव बीजस्य बीजता ।। २६
कल्पमेकं गणत्वं स चन्द्रमौलेश्चकार ह ।
समस्तविद्यानिपुणं त्रिकालामलदर्शनम् ।। २७
यो यादृग्दृढसंस्कारः स तं पश्यति तादृशम् ।
जीवन्मुक्ततयैवैतद्वीतहव्योऽनुभूतवान् ।। २८
श्रीराम उवाच ।
एवं स्थिते मुनिश्रेष्ठ जीवन्मुक्तमतेरपि ।
बन्धमोक्षदृशः सन्ति वीतहव्यात्मनो यथा ।। २९
श्रीवसिष्ठ उवाच ।
यथास्थितमिदं विश्वं शान्तमाकाशनिर्मलम् ।
ब्रह्मैव जीवन्मुक्तानां बन्धमोक्षदृशः कुतः ।। ३०
एतत्संविन्नभो भाति यत्र यत्र यथा यथा ।
तत्र तत्र तथा तावत्तावत्तद्विन्दते ततम् ।। ३१
तेनानुभूतानि बहून्यनुभूयन्त एव च ।
जगन्ति सर्वात्मतया ब्रह्मरूपेण राघव ।। ३२
धराकोटरनिर्मग्नवीतहव्यचिदात्मसु ।
जगत्सु तेष्वसंख्येषु नीरूपेषु महात्मसु ।। ३३
यः शक्रोऽनवबुद्धात्मा सोऽद्य दीनेषु पार्थिवः ।
कर्तुं प्रवृत्तो मृगयां क्षणेऽस्मिन्नपि कानने ।। ३४
यो हंसोऽनवबुद्धात्मा पाद्मे पैतामहेऽभवत् ।
स्थितः स एव दाशेन्द्रः कैलासवनकुञ्जके ।। ३५
यो राजानवबुद्धात्मा भूमेः सौराष्ट्रमण्डले ।
स एषोऽद्य स्थितोऽन्ध्राणां ग्रामे बहुलपादपे ।। ३६
श्रीराम उवाच ।
मानसः किल सर्गोऽसौ वीतहव्यस्य तत्र ये ।
देहिनो भ्रान्तिपात्रं चेत्तद्देहाकारिणः कथम् ।। ३७
श्रीवसिष्ठ उवाच ।
यदि भ्रान्त्येकमात्रात्म वीतहव्यस्य तज्जगत् ।
तदिदं नाम ते राम किं भूयः परिभासते ।। ३८
इदमप्यङ्ग चिन्मात्रं मनोमात्रभ्रमोपमम् ।
तदपि व्योम चिन्मात्रं मनोमात्रं भ्रमोपमम् ।। ३९
वस्तुतस्तु न तद्राम जगन्नैवं न चेतरत् ।
तवापि न जगत्सत्ता ब्रह्मेदं भाति केवलम् ।। ४०
भावि भूतं भविष्यच्च यथेदं च तथेतरत् ।
जगत्सर्वमिदं दृश्यं संविन्मात्रमनोमयम् ।। ४१
एवंरूपमिदं यावन्न परिज्ञातमीदृशम् ।
वज्रसारदृढं तावज्ज्ञातं सत्परमाम्बरम् ।। ४२
अज्ञानान्मन एवेदमित्थं संप्रविजृम्भते ।
प्रत्युल्लासविलासाभ्यां जलमम्बुनिधाविव ।। ४३
यथास्थितेनैव चिदम्बरेण
स्वचित्तमेवैति मनोभिधानम् ।
स्फारं कृतं तेन जगच्च दृश्य-
मेवं ततं नैव ततं च किंचित् ।। ४४
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषूपशमप्रकरणे वीतहव्यमनोजगद्वर्णनं नाम चतुरशीतितमः सर्गः ।। ८४