योगवासिष्ठः/प्रकरणम् ५ (उपशमप्रकरणम्)/सर्गः ९०


नवतितमः सर्गः ९०
श्रीवसिष्ठ उवाच ।
यदा ह्यस्तंगतप्रायं जातं चित्तं विचारतः ।
तदा हि वीतहव्यस्य जाता मैत्र्यादयो गुणाः ।। १
श्रीराम उवाच ।
विचाराभ्युदयाच्चित्तस्वरूपेऽन्तर्हिते मुने ।
मैत्र्यादयो गुणा जाता इत्युक्तं किं त्वया प्रभो ।। २
ब्रह्मण्यस्तं गते चित्ते कस्य मैत्र्यादयो गुणाः ।
क्व वा परिस्फुरन्तीति वद मे वदतां वर ।। ३
श्रीवसिष्ठ उवाच ।
द्विविधश्चित्तनाशोऽस्ति सरूपोऽरूप एव च ।
जीवन्मुक्तः सरूपः स्यादरूपो देहमुक्तिजः ।। ४
चित्तसत्तेह दुःखाय चित्तनाशः सुखाय तु ।
चित्तसत्तां क्षयं नीत्वा चित्तं नाशमुपानयेत् ।। ५
तामसैर्वासनाजालैर्व्याप्तं यज्जन्मकारणम् ।
विद्यमानं मनो विद्धि तद्दुःखायैव केवलम् ।। ६
प्राक्तनं गुणसंभारं ममेति बहु मन्यते ।
यत्तु चित्तमतत्त्वज्ञं दुःखितं जीव उच्यते ।। ७
विद्यमानं मनो यावत्तावद्दुःखक्षयः कुतः ।
मनस्यस्तं गते जन्तोः संसारोऽस्तमुपागतः ।। ८
दुःखमूलमवष्टब्धमस्मिन्नेव विनिश्चलम् ।
विद्यमानं मनो विद्धि दुःखवृक्षवनाङ्कुरम् ।। ९
श्रीराम उवाच ।
नष्टं कस्य मनो ब्रह्मन्नष्टं वा कीदृशं भवेत् ।
कीदृशश्चास्य नाशः स्यात्सत्ता नाशस्य कीदृशी ।। १०
श्रीवसिष्ठ उवाच ।
चेतसः कथिता सत्ता मया रघुकुलोद्वह ।
अस्य नाशमिदानीं त्वं श्रृणु प्रश्नविदां वर ।। ११
सुखदुःखदशा धीरं साम्यान्न प्रोद्धरन्ति यम् ।
निःश्वासा इव शैलेन्द्रं चित्तं तस्य मृतं विदुः ।। १२
अयं सोहमयं नाहमिति चिन्ता नरोत्तमम् ।
खर्वीकरोति यं नान्तर्नष्टं तस्य मनो विदुः ।। १३
आपत्कार्पण्यमुत्साहो मदो मान्द्यं महोत्सवः ।
यं नयन्ति न वैरूप्यं तस्य नष्टं विदुर्मनः ।। १४
एष साधो मनोनाशो नष्टं चेह मनो भवेत् ।
चित्तनाशदशा चैषा जीवन्मुक्तस्य विद्यते ।। १५
मनस्तां मूढतां विद्धि यदा नश्यति सानघ ।
चित्तनाशाभिधानं हि तदा सत्त्वमुदेत्यलम् ।। १६
तस्य सत्त्वविलासस्य चित्तनाशस्य राघव ।
जीवन्मुक्तस्वभावस्य कैश्चिच्चित्ताभिधा कृता ।। १७
मैत्र्यादिभिर्गुणैर्युक्तं भवत्युत्तमवासनम् ।
भूयो जन्मविनिर्मुक्तं जीवन्मुक्तमनोऽनघ ।। १८
व्याप्तं वासनया यत्स्याद्भूया जननमुक्तया ।
जीवन्मुक्तमनःसत्ता राम तत्सत्त्वमुच्यते ।। १९
संप्रत्येवानुभूतत्वात्सत्त्वाप्त्या तन्वसंयुतः ।
सरूपोऽसौ मनोनाशो जीवन्मुक्तस्य विद्यते ।। २०
मैत्र्यादयोऽथ मुदिताः शशाङ्क इव दीप्तयः ।
जीवन्मुक्तमनोनाशे सर्वदा सर्वथा स्थिताः ।। २१
जीवन्मुक्तमनोनाशे सत्त्वनाम्नि हिमालये ।
वसन्त इव मञ्जर्यः स्फुरन्ति गुणसंपदः ।। २२
अरूपस्तु मनोनाशो यो मयोक्तो रघुद्वह ।
विदेहमुक्त एवासौ विद्यते निष्कलात्मकः ।। २३
समग्राग्र्यगुणाधारमपि सत्त्वं प्रलीयते ।
विदेहमुक्ते विमले पदे परमपावने ।। २४
विदेहमुक्तविषये तस्मिन्सत्त्वक्षयात्मके ।
वित्तनाशे विरूपाख्ये न किंचिदपि विद्यते ।। २५
न गुणा नागुणास्तत्र न श्रीर्नाश्रीर्न लोलता ।
न चोदयो नास्तमयो न हर्षामर्षसंविदः ।। २६
न तेजो न तमः किंचिन्न संध्या दिनरात्रयः ।
न दिशो न च वाकाशो नाधो नानर्थरूपता ।। २७
न वासना न रचना नेहानीहे न रञ्जना ।
न सत्ता नापि वाऽसत्ता नच साध्यं हि तत्पदम् ।। २८
अतमस्तेजसा व्योम्ना वितारेन्द्वर्कवायुना ।
तत्समं शरदच्छेन निःसंध्येनारजस्त्विषा ।। २९
ये हि पारं गता बुद्धेः संसाराचरणस्य च ।
तेषां तदास्पदं स्फारं पवनानामिवाम्बरम् ।। ३०
संशान्तदुःखमजडात्मकमेव सुप्त-
मानन्दमन्थरमपेतरजस्तमो यत् ।
आकाशकोशतनवोऽतनवा महान्त-
स्तस्मिन्पदे गलितचित्तलवा वसन्ति ।। ३१
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषूपशमप्रकरणे चित्तोपदेशविचारयोगोपदेशो नाम नवतितमः सर्गः ।।९० ।।