योगवासिष्ठः/प्रकरणम् ६ (निर्वाणप्रकरणस्य उत्तरार्धम्)/सर्गः ०१६


षोडशः सर्गः १६

भुशुण्ड उवाच ।
कथयत्येवमप्येवं स विद्याधरनायकः ।
आसीत्संशान्तसंवित्तिः समाधिपरिणामवान् ।। १
प्रबोध्यमानोऽपि मया भूयोभूयस्ततस्ततः ।
न पपात पुरोदृश्ये परं निर्वाणमागतः ।। २
स प्राप परम स्थानं तावन्मात्रप्रबोधवान् ।
केनचिन्नाधिकेनाङ्ग यत्नेनातिशयैषिणा ।। ३
अत उक्तं मया राम यदि शुद्धे हि चेतसि ।
उपदेशः प्रसरति तैलबिन्दुरिवाम्भसि। ।। ४
नाहमित्यस्ति ते नान्तर्मैनं भावय शान्तये ।
एतावदुपदेशोक्तिः परमा नेतरास्ति हि ।। ५
एषैवाभव्यमनसि पतिता प्रविलीयते ।
उत्ताने मसृणादर्शे मुक्ताफलमिवामलम् ।। ६
भव्ये तु शान्तमनसि लगत्यभ्येत्यविच्युतिम् ।
प्रविश्यान्तर्विचाराख्यामर्चिरर्कमणौ यथा ।। ७
अहंभावनमेवोच्चैर्बीजं दुःखाख्यशाल्मलेः ।
ममेदं तद्वदादीति शाखाप्रसरकारणम् ।। ८
अहमादौ ममेत्यन्तस्तत इच्छा प्रवर्तते ।
इदमर्थशतानर्थकारिणी भवभारिणी ।। ९
एवंविधा मुनिश्रेष्ठ मूढा अपि चिरायुषः ।
भवन्त्यनियमो ह्यङ्ग दीर्घायुष्यस्य कारणम् ।। 6.2.16.१०
अन्तःशुद्धमनस्का ये सुचिरायाभयप्रदम् ।
मनागप्युपदिष्टास्ते प्राप्नुवन्ति परं पदम् ।। ११
श्रीवसिष्ठ उवाच ।
मेरुमूर्धनि मामेवमुक्त्वा स विहगाधिपः ।
तूष्णीं बभूव मुक्तात्मा ऋष्यमूक इवाम्बुदः ।। १२
अहमापृच्छ्य तं सिद्धं विद्याधरमथो पुनः ।
प्राप्त आत्मास्पदं राम मुनिमण्डलमण्डितम् ।। १३
एतत्तवाद्य कथितं बलिभुक्कथोक्तं
विद्याधरोपशमनं लघुबोधनोत्थम् ।
अस्मिन्भुशुण्डविहगेन्द्रसमागमे मे
चैकादशेह हि गतानि महायुगानि ।। १४

इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मो० निर्वाणप्रकरणे उ० विद्याधरोपाख्याने विद्याधरनिर्वाणं नाम षोडशः सर्गः ।। १६ ।।