योगवासिष्ठः/प्रकरणम् ६ (निर्वाणप्रकरणस्य उत्तरार्धम्)/सर्गः ०१९


एकोनविंशः सर्गः १९
श्रीराम उवाच ।
मुने जीवस्य यद्रूपमाकृतिग्रहणं तथा ।
यथा च परमात्मत्वं स्थानं यच्चास्य तद्वद ।। १
श्रीवसिष्ठ उवाच ।
स्वसंकल्पेन चेत्योक्तं चिदित्यपरनामकम् ।
अनन्तं चेतनाकाशं जीवशब्देन कथ्यते ।। २
न पराणुर्न च स्थूलं न शून्यं न च किंचन ।
चिन्मात्रं स्वानुभूत्यात्म सर्वगं जीव उच्यते ।। ३
अणीयसामणीयांसं स्थविष्ठं च स्थवीयसाम् ।
न किंचिन्मात्रकं चैव सर्वं जीवं विदुर्बुधाः ।। ४
यस्य यस्य पदार्थस्य यो भावस्तेन तत्र तम् ।
स्थितं विद्धि तदाभासं तदात्मैकान्तवेदनात् ।। ५
स चेतति यथा यत्र यद्यदाशु तदेव हि ।
तथा तत्र तदा राम भवत्यनुभवात्मकम् ।। ६
पवनस्य यथा स्पन्दश्चेत्यं जीवस्य वै तथा ।
स्वसंविन्मात्रनिर्णेयं नोपदेशाम यक्षवत् ।। ७
यथैवास्पन्दनाद्वातः सन्नेवैत्य सदात्मताम् ।
तथैवाचेतनाज्जीवो जीवन्नेति परां गतिम् ।। ८
जीवश्चिद्धनरूपत्वादहमित्येव चेतनात् ।
देशकालक्रियाद्रव्यशक्तीर्निर्माय तिष्ठति ।। ९
देशकालक्रियाद्रव्यचर्चिताचर्चितां स्वयम् ।
असत्यां सत्यवत्स्फारां तावन्मात्रशरीरिकाम् ।। १०
चेतसा ह्यसदाकारां प्रालेयपरमाणुताम् ।
पश्यत्यात्मन्यथात्मत्वे स्वप्ने स्वमरणोपमाम् ।। ११
स्वप्नस्वावयवान्यत्वसदृशीं तां विभावयन् ।
विस्मृत्य चेतनां सत्तां तत्तामेवाशु गच्छति ।। १२
एवंरूपो बुध्यमानः प्रोच्छूनत्वमथात्मनि ।
पश्यत्याशु स्वमात्मानं चन्द्रबिम्बमिव द्रुतम् ।। १३

आत्मन्यथेन्दुबिम्बात्मन्यसौ संवित्तिपञ्चकम् ।
काकतालीयवद्भिन्नमुदितं चेतति स्वयम् ।। १४
पञ्चानां संविदां पञ्च भिन्नान्यङ्गान्यसावथ ।
बुध्यते तानि तद्रूपरन्ध्राण्यनुभवत्यपि ।। १५
स पञ्चावयवः पश्चाद्राजते पुरुषो विराट् ।
अनन्ताकारसंवित्तिरव्यक्तात्मा निरामयः ।। १६
मनोमयोऽसावुदितः परस्मात्प्रथमोत्थितः ।
आकाशविशदः शान्तो नित्यानन्दविभामयः ।। १७
स चाप्यपञ्चभूतात्मा पञ्चभूतात्मकोपमः ।
विराडात्मैकपुरुषः परमः परमेश्वरः ।। १८
स्वयमेवाशु भवति स्वयमेव विलीयते ।
स्वयमेव प्रसरति स्वयं संकोचमेति च ।। १९
स्वसंकल्पकृतेनासौ कल्पौघेन क्षणेन च ।
यदृच्छयोदेति पुनः पुनर्भूत्वोपशाम्यति ।। २०
मनोमात्रैकरूपात्मा प्रकृतेर्देह एष सः ।
एष पुर्यष्टकं प्रोक्तः सर्वस्यैवातिवाहिकः ।। २१
सूक्ष्मः स्थूलोऽम्बरात्मैष व्यक्तोऽव्यक्तोन्तवर्जितः ।
सर्वस्य बहिरन्तश्च न किंचित्किंचिदेव च ।। २२
अङ्गानि राम तस्याष्टौ मनःषष्ठानि पञ्च च ।
साहंभावानीन्द्रियाणि भावाभावमयानि च ।। २३
तेन गीता इमे वेदाः सहशब्दार्थकल्पनाः ।
नियतिः स्थापिता तेन तथाद्यापि यथास्थिता ।। २४
अनन्तमूर्ध्वं मूर्धास्य तथाधः पादयोस्तलम् ।
अपराकाशमुदरमिदं ब्रह्माण्डमण्डपम् ।। २५
लोकान्तराण्यनन्तानि पार्श्वकाः क्षतजं पयः ।
मांसपेश्यः क्षितिधराः सरितः संतताः शिराः ।। २६
रक्ताधारा जलधयो द्वीपान्येवान्त्रवेष्टनम् ।
बाहवः ककुभः स्फारास्तारका रोमसंततिः ।। २७
पञ्चाशदनिलस्कन्धा एकोनाः प्राणवायवः ।
मार्तण्डमण्डलं चण्डं पित्तं जठरपावकः ।। २८
शशाङ्कमण्डलं जीवः श्लेष्मा शुक्रं सितं बलम् ।
मनः संकल्पकोशात्म सारात्मा परमामृतम् ।। २९
मूलं शरीरवृक्षस्य बीजं कर्मद्रुमस्य च ।
प्रसवात्सर्वभावानामिन्दुरानन्दकारणम् ।। ३०
यदिन्दुमण्डलं नाम स सम्राड् जीव उच्यते ।
शरीरकर्ममनसां बीजं मूलं च कारणम् ।। ३१
अस्मादिन्दुविराड्जीवात्प्रसरन्ति जगत्त्रये ।
जीवा मनांसि कर्माणि सुखान्यत्रामृतानि च ।। ३२
विराज एते संकल्पा ब्रह्मविष्णुहरादयः ।
तस्य चित्तचमत्काराः सुरासुरनभश्चराः ।। ३३
चित्स्वभावो बुध्यमानः प्रालेयपरमाणुताम् ।
यदादौ भावयत्याशु तदा तत्रैव तिष्ठति ।। ३४
तेनैतदेव जीवस्य स्थानं विद्धि रघूद्वह ।
पञ्चावयवमेतत्तच्छरीरमनुभूयते ।। ३५
विराड्जीवाच्चन्द्रमसो जीवभूतानि देहिनाम् ।
प्रसरन्त्यन्नजातानि प्रालेयविसरात्मना ।। ३६
तान्येव देहिदेहेषु जीवा जीवन्ति जीविषु ।
मनो भूत्वा विचेष्टन्ते कर्म जन्मसु कारणम् ।। ३७
एवं विराट्सहस्राणि महाकल्पशतानि च ।
गतान्यथ भविष्यन्ति नानाचाराणि सन्ति च ।। ३८
सर्वतोऽनुभवरूपयानया
सत्तयोत्तमपदादभिन्नया ।
अन्तवर्जितमहाङ्गसङ्गया
तिष्ठतीति पुरुषः परो विराट् ।। ३९
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० निर्वाणप्रकरणे उत्तरार्धे विराडात्मवर्णनं नामैकोनविंशः सर्गः ।। १९ ।।