योगवासिष्ठः/प्रकरणम् ६ (निर्वाणप्रकरणस्य उत्तरार्धम्)/सर्गः ०२३


त्रयोविंशः सर्गः २३
श्रीवसिष्ठ उवाच ।
विरागवासनापास्तसमस्तभववासनः ।
उत्थाय गच्छ प्रकृतेरस्या मङ्किरिवाङ्कितः ।। १
मङ्किर्नामाभवत्पूर्वं ब्राह्मणः संशितव्रतः ।
स कथं श्रृणु निर्वाणमाप्तवान्मद्विबोधितः ।। २
अहं कदाचिदाकाशकोशादवनिमागतः ।
भवत्पितामहार्थेन केनाप्युपनिमन्त्रितः ।। ३
विहरन्भूतलं गच्छंस्त्वत्पितामहपत्तनम् ।
प्राप्तोऽस्मि कामप्यादीर्घामरण्यानीं महातपाम् ।। ४
पांसुप्रतर्दनहतां प्रकचत्तप्तसैकताम् ।
अदृष्टापारपर्यन्तां क्वचिद्राम किलाङ्किताम् ।। ५
अक्षुब्धस्वानिलालोकजलभूशान्तिशालिनीम् ।
ततां शून्यां महारम्भां ब्रह्मसत्तामिवामलाम् ।। ६
अविद्यामिव संमोहमृगतृष्णां गतां भ्रमात् ।
जडतामाततां शून्यां दिङ्मोहमिहिकाकुलाम् ।। ७
अथ तस्यामरण्यान्यां यावत्प्रविहराम्यहम् ।
तावत्पश्यामि पुरतो वदन्तं पथिकं श्रमात् ।। ८
पान्थ उवाच ।
अहो नु परिखेदाय प्रौढप्रायातपो रविः ।
परितापाय पापोऽयं दुर्जनेनेव संगमः ।। ९
सुगलन्तीव मर्माणि स्फुरतीवाग्निरातपे ।
संकुचत्पल्लवापीडास्ताप्यन्ते वनराजयः ।। १०
तत्तावदेवमग्रस्थं ग्रामकं प्रविशाम्यहम् ।
श्रममत्रापनीयाशु वहाम्यध्वानमाशुगः ।। ११
इति संचिन्त्य सोऽग्रस्थं किरातग्रामकं यदा ।
प्रवेष्टुमिच्छति तदा मया प्रोक्तमिदं वचः ।। १२
अपरिज्ञातनीरागमार्ग मित्र शुभाकृते ।
मरुमार्गमहारण्यपान्थ स्वागतमस्तु ते ।। १३
चिरं मनुष्यदेशेऽस्मिन्निर्जनग्राममध्वनि ।
अधराध्वग विश्रातिं विश्रान्तोपि न लप्स्यसे ।। १४
ग्रामे विश्रमणं नैव वर्तते पामरास्पदे ।
तृड्वै लवणपानेन भूय एवाभिवर्धते ।। १५
एते ग्रामैकशरणाः पल्लवाः स्पन्दभीरवः ।
अयथापथसंचारा हरिणा इव जन्तवः ।। १६
न स्फुरन्ति विचारेषु प्रज्वलन्त्यनुभूतिषु ।
न त्रस्यन्ति दुराचारादश्मयन्त्रमया इव ।। १७
कामार्थरागसद्वेषपरिनिष्ठितपौरुषाः ।
कर्मण्यापातमधुरे रमन्ते दग्धबुद्धयः ।। १८
आभिजात्याततोदारा शीतला रसशालिनी ।
नेह विश्वसिति प्रक्षा मेघमाला मराविव ।। १९
वरमन्धगुहाहित्वं शिलान्तःकीटता वरम् ।
वरं मरौ पङ्गुमृगो न ग्राम्यजनसंगमः ।। २०

निमेषास्वादमधुराः क्षणान्तरविरागिणः ।
मारणैकान्तनिरता ग्राम्या विषकणा इव ।। २१
वान्ति भस्मकणाकीर्णा जीर्णाः संशीर्णसद्मसु ।
तृणपर्णवनव्यग्रा ग्राम्याधार्मिकवायवः ।। २२
एवमुक्तेन तेनाहमिदमुक्तस्ततोऽनघ ।
मद्वाक्येन समाश्वास्य स्नातेनेवामृताम्भसा ।। २३
पान्थ उवाच ।
भगवन्कोऽसि पूर्णात्मा महात्मा कथमात्मवान् ।
पश्यस्यनाकुलो लोकं ग्रामयात्रामिवाध्वगः ।। २४
किं त्वया पीतममृतं किं त्वं सम्राड्विराडथ ।
सर्वार्थरिक्तोऽपि चिरं संपूर्ण इव राजसे ।। २५
शून्योऽसिपरिपूर्णोऽसि घूर्णोऽसीव स्थिरोऽसि च ।
न सर्वमपि सर्वं च न किंचित्किंचिदेव च ।। २६
उपशान्तं च कान्तं च दीप्तमप्रतिघाति च ।
निवृत्तं चोर्जितं तादृग्रूपं किमिति ते मुने ।। २७
भूसंस्थोऽपि समस्तानां लोकानामुपरीव खे ।
संस्थितोऽसि निरास्थोऽसि घनास्थोऽसीव लक्ष्यसे ।। २८
प्रसृतं न पदार्थेषु न पदार्थात्मनाऽस्ति वै ।
तवेन्दोरिव शुद्धस्य मनोऽमृतमयं स्थितम् ।। २९
कलावानकलङ्कोऽन्तःशीतलो भास्वरः समः ।
रसायनभरापूर्णः पूर्णेन्दुरिव राजसे ।। ३०
त्वदिच्छायां तु सदसद्भावं पश्यामि ते चिति ।
संसारमण्डलमिदं स्थितं फलमिवाङ्कुरे ।। ३१
अहं तावदयं विप्र शाण्डिल्यकुलसंभवः ।
मङ्किर्नाम महाभाग तीर्थयात्राप्रसङ्गतः ।। ३२
गत्वा सुदूरमध्वानं दृष्ट्वा तीर्थानि संप्रति ।
चिरकालेन सदनमात्मीयं गन्तुमुद्यतः ।। ३३
न च मे गन्तुमुद्योगो विरक्तमनसो गृहम् ।
दृष्ट्वा तडित्सकाशानि भूतानि भुवनोदरे ।। ३४
भगवन्सत्यमात्मानं कथयेहानुकम्पया ।
गम्भीराणि प्रसन्नानि साधुचेतःसरांसि हि ।। ३५
दर्शनादेव मित्रत्वं कुर्वतां महतां पुरः ।
कमलानीव भूतानि विकसन्त्याश्वसन्ति च ।। ३६
ममेदं च मनो मोहात्संसारभ्रमसंभवम् ।
मन्ये हातुं न समर्थं स त्वं बोधानुकम्पितैः ।। ३७
श्रीवसिष्ठ उवाच ।
वसिष्ठोऽस्मि महाबुद्धे मुनिरस्मि नभोगृहः ।
केनाप्यर्थेन राजर्षेरिमं मार्गमुपस्थितः ।। ३८
मागा विषादं पन्थानमागतोऽसि मनीषिणाम् ।
प्रायः प्राप्तोसि संसारसागरस्य परं तटम् ।। ३९
वैराग्यविभवोदारा मतिरुक्तिरपीदृशी ।
आकृतिः शान्तरूपा च न भवत्यमहात्मनः ।। ४०
मणिर्मधुरकाषेण यथैति विमलात्मताम् ।
तथा कषायपाकेन चित्तमेति विवेकिताम् ।। ४१
किं ज्ञातुमिच्छसि कथं संसारं हातुमिच्छसि ।
उपदिष्टमहं मन्ये संपादयति कर्मभिः ।। ४२
विमलवासन उत्तममानसः
परिविविक्तमतिर्जनतेजसा ।
पदमशोकमलं खलु युज्यते
जनितितीर्षुमतेरिदमुच्यते ।। ४३
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० निर्वाणप्रकरणे उ० मङ्क्युपाख्याने मङ्किनिर्वाणं नाम त्रयोविंशः सर्गः ।।२३ ।।