योगवासिष्ठः/प्रकरणम् ६ (निर्वाणप्रकरणस्य उत्तरार्धम्)/सर्गः ०२४
चतुर्विंशः सर्गः २४
श्रीवसिष्ठ उवाच ।
ममेत्युक्तवतो मङ्किर्विनिपत्य स पादयोः ।
उवाचानन्दपूर्णाक्षमिदं मार्गे वहन्वचः ।। १
मङ्किरुवाच ।
भगवन्भूरिशो भ्रान्ता दिशो दश दृशो यथा ।
मया न तु पुनः साधुर्लब्धः संशयनाशकृत् ।। २
समस्तदेहसाराणां सारस्याद्य फलं मया ।
खिन्नोस्मि भगवन्पश्यन्दशाः संसारदोषदाः ।। ३
पुनर्जातं पुनर्नष्टं सुखदुःखभ्रमः सदा ।
अवश्यंभाविपर्यन्तदुःखत्वात्सकलान्यपि ।। ४
सुखान्येवातिदुःखानि वरं दुःखान्यतो मुने ।
दृढदुःखवदन्तत्वाद्दुःखयन्ति सुखानि माम् ।। ५
तथा राम यथा दुःखमेव मे सुखतां गतम् ।
वयोदशनलोमान्त्रैः सह जर्जरतां गतम् ।। ६
उच्चैःपदे पातपरा बुद्धिर्नाध्यवसायिनी ।
सुप्रवालं कुसंकल्पाद्गहनं न प्रकाशते ।। ७
मनः पिप्पलपल्यूलैरिव कुग्रामकोटरम् ।
वासनाङ्गवहैर्गृध्रैर्नित्यं पापीयसी स्थितिः ।। ८
कण्टकद्रुमवल्लीव करालकुटिला मतिः ।
आयुरायासशालिन्या यामिन्येव तमोन्धया ।। ९
अक्षीवानागतालोकं क्षीणं संततचिन्तया ।
न किंचिद्रसमादत्ते नष्टैवापि न नश्यति ।। १०
न पुष्पिता न फलिता तृष्णा शुष्कलतेव नः ।
कर्म कर्मणि निर्मग्नं वासनाख्यमकर्मणे ।। १०
जीवितं च जने जीर्णं नैवोत्तीर्णो भवार्णवः ।
दिनानुदिनमुच्छूना भोगाशा भयदायिनी ।। १२
पूर्णापूर्णात्मनि क्षीणाः श्वभ्रकण्टकवृक्षवत् ।
चिन्ताज्वरविकारिण्यो लक्ष्म्याः खलु महापदः ।। १३
संपन्नमक्षतं सापि विप्रलम्भेन जृम्भते ।
अन्तः स्फुरितरत्नेहं भास्वरं वान्धकोटरम् ।। १४
कल्लोलकलिलं शून्यं चेतः शुष्काब्धिदुर्भगम् ।
मामिन्द्रियार्थैकपरं न स्पृशन्ति विवेकिनः ।। १५
सकण्टकममेध्यस्थं श्लेष्मातकमिव द्रुमम् ।
असदेव महारम्भं चलदर्जुनवातवत् ।। १६
मनो मरणमप्राप्तं शून्यं दुःखाय वल्गति ।
शास्त्रसज्जनसंपर्कचन्द्रतारकधारिणी ।। १७
अहंभावोल्लसद्यक्षा क्षीणा नाज्ञानयामिनी ।
अज्ञानध्वान्तमत्तेभसिंहः कर्मतृणानलः ।। १८
उदितो न विकारार्को वासनारजनीक्षयः ।
अवस्तु वस्तुवद्बुद्धं मत्तश्चित्तमतंगजः ।। १९
इन्द्रियाणि निकृन्तन्ति न जाने किं भविष्यति ।
शास्त्रदृष्टिरपि प्राज्ञैर्नाश्रिता तरणाय या ।। २०
साप्यदृष्टिरिवान्ध्याय वासनावेशकारिणी ।
तदेवमतिसंमोहे यत्कार्यमिह दारुणे ।
उदर्कश्रेयसे तात तन्मे कथय पृच्छते ।। २१
शाम्यन्ति मोहमिहिकाः शरदीव साधौ
प्राप्ते भवन्ति विमलाश्च तथाखिलाशाः ।
सत्येति वाग्भवतु साधुजनोपगीता
मद्बोधनेन भवता भवशान्तिदेन ।। २२
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० निर्वाणप्रकरणे उत्तरार्धे मङ्क्यु० मङ्किवैराग्यं नाम चतुर्विंशः सर्गः ।। २४ ।।