योगवासिष्ठः/प्रकरणम् ६ (निर्वाणप्रकरणस्य उत्तरार्धम्)/सर्गः ०३०


त्रिंशः सर्गः ३०
श्रीवसिष्ठ उवाच ।
अहंतैव पराऽविद्या निर्वाणपदरोधिनी ।
तयैवान्विष्यते मूढैस्तदित्युन्मत्तचेष्टितम् ।। १
अहंतैवालमज्ञानादज्ञत्वस्य निदर्शनम् ।
न हि तज्ज्ञस्य शान्तस्य ममाहमिति विद्यते ।। २
अहंतामलमुत्सृज्य निर्वाणः खमिवामलः ।
सदेहमपदेहं वा ज्ञस्तिष्ठति गतज्वरः ।। ३
न तथा शरदाकाशं न तथा स्तिमितोऽर्णवः ।
पूर्णेन्दुमध्यं न तथा यथा ज्ञः परिराजते ।। ४
चित्रसंगरयुद्धस्य सैन्यस्याक्षुब्धता यथा ।
तथैव समता ज्ञस्य व्यवहारवतोपि च ।। ५
निर्वाणैकतया ज्ञस्य वासनैव न वासना ।
लेखादामोपमा त्वब्धेरूर्म्यादि न जलेतरत् ।। ६
तरत्तरङ्गो जलधिर्जलमेव यथाखिलम् ।
दृश्योच्छूनमपि ब्रह्म तथा ब्रह्मैव नेतरत् ।। ७
अन्तरस्तंगतोऽक्षुब्धो बहिरस्तंगतः शमी ।
विद्यते चोदितो यस्य स मुक्त इति कथ्यते ।। ८
अहंत्वसर्गरूपेण संवित्संविन्मये परे ।
स्फुरत्यम्भोम्भसीवातो नानातेयं किमात्मिका ।। ९
धूमस्य स्फुरतो व्योम्नि यथा गजरथादयः ।
व्यूहा धूमान्न ते भिन्नास्तथा सर्गाः परे पदे ।। १०
संविद्भ्रान्तिविचारेण भ्रान्त्यलाभविलासिनः ।
विजयध्वं विषादं माऽऽगता ज्ञास्तज्ज्ञता हि वः।। ११
अङ्कुरोऽनुभवत्यन्तर्वृक्षपत्रफलं यथा ।
तथा जगदहंत्वे ज्ञः स्वात्मा स्वात्मखमप्यलम् ।। १२
रूपालोकमनःसत्ता ज्वालार्चिष्विव दण्डता ।
सत्योपि च न सन्त्येता भ्रान्तेश्चित्ताबला इव ।। १३
यथा सुखं यथारम्भं यथा नाशं यथोदयम् ।
यथा देशं यथा कालमजराः शान्तमास्यताम् ।। १४
इष्टानिष्टोपलम्भेषु शान्तो व्यवहरन्नपि ।
शववन्नान्यतामन्तर्निर्वाणोऽनुभवत्यलम् ।। १५
अमनोवासनाहंता धत्ते यच्च जगच्चिरम् ।
जीवतोऽजीवतश्चैव चिज्जीवः स परं पदम् ।। १६
सत्तैव जडवाहेन दुःखभाराय केवलम् ।
नृणां पाशावबद्धानां पोतकानामिवार्णवे ।। १७
मोक्षसत्ता श्रयति तं नाज्ञानानुभवादिव ।
मृतेन यत्किल प्राप्यं जीवन्प्राप्नोति तत्कथम् ।। १८
यद्यत्संकल्पयते तत्तत्संकल्पादेव नाशभाक् ।
न संभवति यत्रैतत्तत्सत्यं पदमक्षयम् ।। १९
नान्यो न चाहमस्मीति भावनान्निर्भयो भव ।
सत्यं युक्तं भवत्येतद्विषमप्यमृतं यथा ।। २०
जडं देहादि चित्तान्तं विचार्य सकलं वपुः ।
लभ्यते नाहमस्मीति तस्मान्नास्मीति सत्यता ।। २१
शान्ताशेषविशेषाणामहंतान्ताविचारणात् ।
केवलं मुक्ततोदेति न तु किंचिद्विनश्यति ।। २२
भोगत्यागविचारात्मपौरुषान्नान्यदत्र हि ।
उपयुज्यत इत्यज्ञाः स्वात्मैवाशु प्रणम्यताम् ।। २३
निर्वासनं मननमेवमुदाहरन्ति
मोक्षं विना भवति तन्न च जातु बोधात् ।
सन्नो जगद्भ्रम इतीह परः प्रबोधो
न प्रत्ययोऽत्र यदतः सुचिराय बन्धः ।। २४
जगदहमसदित्युपेत्य सम्य-
ग्जनधनदारशरीरनिर्व्यपेक्षः ।
भवति हि स च चेतनस्वरूपः
परिमितखं खलु नान्यथास्ति मुक्तिः ।। २५
इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मो० निर्वाणप्रकरणे उत्तरार्धे परमार्थोपन्यासयोगो नाम त्रिंशः सर्गः ।। ३० ।।