योगवासिष्ठः/प्रकरणम् ६ (निर्वाणप्रकरणस्य उत्तरार्धम्)/सर्गः ०३२


द्वात्रिंशः सर्गः ३२
श्रीवसिष्ठ उवाच ।
यदा चितिः प्रसरति तदाहंताजगद्भ्रमः ।
असदेवाभ्युदेतीव स्पन्दादपि च वायुता ।। १
उदितोऽपि न खेदाय ब्रह्मरूपत्ववेदनात् ।
परमाय त्वनर्थाय जगच्छब्दार्थभावनात् ।। ५
रूपानुभवमादत्ते चक्षुःप्रसरणाद्यथा ।
चितिः प्रसरणात्तद्वज्जगद्विभ्रममास्थिता ।। ३
यासौ प्रसरति व्यर्थं चेत्याभावान्न सा सती ।
असत्कथं प्रसरति वन्ध्यापुत्रः क्व नृत्यति ।। ४
अयं त्वनुभवादेव मुधैवानुभवन्स्थितः ।
असदेवाननुभवन्स्वयमर्भकयक्षवत् ।। ५
अहंभावोऽपि दुःखार्थमहमित्येव वेदनात् ।
अवेदनान्नाहमतः स्वायत्ते बन्धमुक्तते ।। ६
तद्ध्यानं स समाधिर्वा यदवेदनमासितम् ।
अजडानां जडमिव समं शान्तमनामयम् ।। ७
द्वैताद्वैतसमुद्भेदैर्वाक्यसंदर्भविभ्रमैः ।
मा विषीदत दुःखाय विबुधा अबुधा इव ।। ८
असदाश्रयते दुःखं स्वप्नवद्धनवासनः ।
रूपालोकमनस्कारान्संकल्परचितानिव ।। ९
दुःखं सदेव नाश्नाति सुप्तवत्तनुवासनः ।
रूपालोकमनस्कारान्संकल्परहितानिव ।। १०
अत्यन्ततनुतामेत्य वासनैवैति मुक्तताम् ।
देशकालक्रियायोगात्पदार्थे भावनामिव ।। ११
अत्यन्ततनुतां याता वासनैवैति मुक्तताम् ।
पराणुपरिणामेन खतां खेऽभ्रादिका यथा ।। १२
अहंभावनया बोधे वासना घनतानवा ।
विपश्चित्संगमाभ्यासात्पाण्डित्यमिव मूढता ।। १३
नाहमस्तीह मद्युक्त्या निश्चयोऽन्तः शमात्मकः ।
जीवतोऽजीवतश्चास्ति रूढबोध इति स्मृतः ।। १४
वायौ द्वन्द्वमिवात्रेदं जगदादि च भासते ।
कोऽहं कथमिदं चेति विचारेणैव शाम्यति ।। १५
नाहमित्येव निर्वाणं किमेतावति मूढता ।
सत्संगमविचाराभ्यामेतदाश्ववगम्यते ।। १६
क्षीयते तत्त्ववित्सङ्गादहमित्येव बन्धनम् ।
आलोकेनेव तिमिरं दिवसेनेव यामिनी ।। १७
कोऽहं कथमिदं दृश्यं को जीवः किं च जीवनम् ।
इति तत्त्वज्ञसंयोगाद्यावज्जीवं विचारयेत् ।। १८
जीवितं भुवनं भाति ततोऽहमिति नश्यति ।
तत्त्वमेकेन तज्ज्ञार्कसेवनात्स निषेव्यताम् ।। १९
यो यो बोधातिशयवांस्तं तं पृथगुपास्व भो ।
संगमे कथयोदेति तेषां वादपिशाचिका ।। २०
वादयक्षेऽप्यभ्युदिते बालस्येव विपश्चितः ।
युक्तियुक्तमलं मुख्यमुदेत्यहमिति भ्रमः ।। २१
अतः प्रत्येकमेकान्ते प्राज्ञः सेवेत पण्डितम् ।
एकीकृत्य तदुक्तांस्तानर्थान्बुद्ध्या विचारयेत् ।। २२
विचारयेत्तदुक्त्यर्थं बुद्ध्या बुद्धिविवृद्धये ।
सर्वसंकल्पमुक्तं यत्तत्सत्तन्मयतां व्रजेत् ।। २३
विपश्चित्संगमैर्बुद्धिं नीत्वा परमतीक्ष्णताम् ।
अज्ञानलतिका सैका कणशः क्रियतामलम् ।। २४
एषोऽर्थः संभवत्येव तेनेदं कथयाम्यहम् ।
स्वानुभूतं वयं बाला नासमञ्जसवादिनः ।। २५
व्योम्नोऽम्बुवाहादिविजृम्भयेव
तरङ्गभंग्येव महाजलस्य ।
न युज्यते नापि च नश्यतीह
नाशोदयौ निर्मननस्य किंचित् ।। २६
इदं हि सर्वं मृगतृष्णिकाम्बुव-
न्निरामये ब्रह्मणि शान्त आतते ।
विचारिते नाहमितीह विद्यते
कुतः क्व कस्मान्मननादिविभ्रमः ।। २७
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० निर्वाणप्रकरणे उत्तरार्धे सत्यावबोधनोपदेशो नाम द्वात्रिंशः सर्गः ।। ३२ ।।