योगवासिष्ठः/प्रकरणम् ६ (निर्वाणप्रकरणस्य उत्तरार्धम्)/सर्गः ०३३


त्रयस्त्रिंशः सर्गः ३३
श्रीवसिष्ठ उवाच ।
स्वपौरुषेण स्वधिया सत्संगमविकासया ।
यदि ना नीयते ज्ञत्वं तदुपायोऽस्ति नेतरः ।। १
स्वं कल्पितं कल्पितं च प्रतिकल्पनया स्वया ।
तदेवान्यत्वमादत्ते विषत्वममृतं यथा ।। २
कल्पना चाकल्पनान्ता मुक्तता यदकल्पनम् ।
एतच्च भोगसंत्यागपूर्वं सिध्यति नान्यथा ।। ३
वचसा मनसा चान्तः शब्दार्थावविभावयन् ।
य आस्ते वर्धते तस्य कल्पनोपशमः शनैः ।। ४
वर्जयित्वाहमित्येव नाविद्यास्तीतरात्मिका ।
शान्ते त्वभावनादस्मिन्नान्यो मोक्षोऽस्ति कश्चन ।।५
अहंभावमथादेहं किंचिच्छ्रयसि नश्यसि ।
जगदादिरुचिस्तस्मिंस्त्यक्ते शाम्यसि सिध्यसि ।। ६
अचेतनादिदं सर्वं सदेवासदिव स्थितम् ।
शान्तं यस्योपलस्येव नमस्तस्मै महात्मने ।। ७
अचेतनादिदं सर्वमुपलस्येव शाम्यति ।
शून्याख्यातः परालीनचित्तस्य चित्त्वभावनात् ।। ८
इदमस्त्वथवा मास्तु चेतितं दुःखवृद्धये ।
अचेतितं सुखायान्तरचेतनमचेतनात् ।। ९
द्वौ व्याधी देहिनो घोरावयं लोकस्तथा परः ।
याभ्यां घोराणि दुःखानि भुङ्क्ते सर्वैर्हि पीडितः ।। १०
इहलोके यतन्ते ज्ञा व्याधौ भोगैर्दुरौषधैः ।
आजीवितं यथाशक्ति चिकित्सा नापरामये ।। ११
परलोकमहाव्याधौ प्रयतन्ते चिकित्सनम् ।
शमसत्सङ्गबोधाख्यैरमृतैः पुरुषोत्तमाः ।। १२
परलोकचिकित्सायां सावधाना भवन्ति ये ।
मोक्षमार्गमहेच्छायां शमशक्त्या जयन्ति ते ।। १३
इहैव नरकव्याधेश्चिकित्सां न करोति यः ।
गत्वा निरौषधं स्थानं सरुजः किं करिष्यति ।। १४
इहलोकचिकित्साभिर्जीवितं यातु मा क्षयम् ।
आत्मज्ञानौषधैरज्ञाः परलोकश्चिकित्स्यताम् ।। १५
आयुर्वायुचलत्पत्रलवाम्बुकणभङ्गुरम् ।
परलोकमहाव्याधिर्यत्नेनाशु चिकित्स्यताम् ।। १६
परलोकमहाव्याधौ यत्नेनाशु चिकित्सिते ।
इहलोकमयो व्याधिः स्वयमाशूपशाम्यति ।। १७
संविन्मात्रं विदुर्जन्तुं तस्य प्रसरणं जगत् ।
परमाणूदरेऽप्यस्ति तच्छैलशतविस्तरम् ।। १८
यत्संविदः प्रसरणं रूपालोकमनांसि तत् ।
व्योमन्येवानुभूयन्ते नातः सत्यो जगद्भ्रमः ।। १९
प्रलयेष्वपि दृष्टेषु जगद्दृश्याख्यविभ्रमः ।
न नश्यति न जायेत भ्रान्तिमात्रैकरूपिणः ।। २०
भोगपङ्कार्णवे मग्न आत्मा नोत्तार्यते यदि ।
स्वपौरुषचमत्कृत्या तदुपायोऽस्ति नेतरः ।। २१
अजितात्मा जनो मूढो रूढो भोगैककर्दमे ।
आपदां पात्रतामेति पयसामिव सागरः ।। २२
जीवितस्य यथा बाल्यं दृष्टं प्राथमकल्पिकम् ।
निर्वाणस्य तथा भोगसंत्यागो रागशान्तिदः ।। २३
तज्ज्ञस्य जीवितनदी सकल्लोलाप्यसंभ्रमा ।
समं वहति सौम्यैव चित्रसंस्थेव नीरसा ।। २४
अज्ञजीवितनद्यास्तु रसनात्यन्तभीषणाः ।
आवर्ता वृत्तिविक्षोभकल्लोलाः सहवाहिनः ।। २५
सर्गवर्गाः प्रवल्गन्ति संवित्प्रसरलेशकाः ।
द्विचन्द्रबालवेतालमृगाम्बुस्वप्नमोहवत् ।। २६
संविद्वारितरङ्गौघा भान्ति सर्गाः सहस्रशः ।
विचारितास्त्वसत्यास्ते सत्यास्त्वनुभवभ्रमात् ।। २७
जगन्त्याकाशकोशेऽपि संवित्प्रसरणभ्रमात् ।
सन्तीवाप्यनुभूयन्ते न तु सत्यानि तानि तु ।। २८
संविद्विकासपयसो बुद्बुदः सर्गविभ्रमः ।
अहमित्यादिसद्भावविकाराकाररूपवान् ।। २९
संविन्निर्वाणमजगत्संविदुन्मीलनं जगत् ।
नान्तर्न बाह्यं नासत्यं न सत्यं सर्वमेव तत् ।। ३०
चिद्रूपमजमव्यक्तमेकमव्ययमीश्वरः ।
स्वत्वभावत्वरहितं ब्रह्म शान्तात्मखादपि ।। ३१
ब्रह्मणो निःस्वभावस्य सर्गसंवेदने स्वतः ।
स्पन्दने पवनस्येव कारणं नोपयुज्यते ।। ३२
स्वप्नानुभववद्भ्रान्तिर्ब्रह्माब्धौ ब्रह्मवीचयः ।
सर्गता वस्तुतस्त्वत्र न स्वप्नो न च सर्गता ।। ३३
एकमेव निराभासमचित्त्वमजडं समम् ।
न सन्नासन्न सदसदिदमव्ययमद्वयम् ।। ३४
यथास्थितस्यैव सतो यस्यासंवेदनात्मकम् ।
संवित्प्रशमनं जातं तमाहुर्मुनिसत्तमम् ।। ३५
सतोऽपि मृन्मयस्येव यस्यासंवेदनात्मकम् ।
साहं जगद्विगलितं तमाहुर्मुनिसत्तमम् ।। ३६
यथा शाम्यत्यसंकल्पात्संकल्पनगरं तथा ।

वेदनोत्थं जगदहं चिति शाम्यत्यवेदनात् ।। ३७
स्वभाववर्जं शब्दार्थाः सर्व एव सहेतुकाः ।
स्वभावस्य तु यो हेतुर्मुक्तिस्तदनुभावनम् ।। ३८
न कस्यचित्पदार्थस्य स्वभावोऽस्तीह कश्चन ।
महाचिदम्बुद्रवताः सर्वा एवानुभूतयः ।। ३९
महाचिदनिलस्पन्दा एता एवानुभूतयः ।
एतास्ता ब्रह्मगगनशून्यता इति बुध्यताम् ।। ४०
वातस्पन्दाविवाभिन्नौ ब्रह्मसर्गौ विभिन्नता ।
तयोस्त्वसत्या स्वभ्रान्तौ स्वप्ने स्वमरणोपमा ।। ४१
भ्रान्तिस्तु तावत्तत्त्वार्थविचारो यावदस्फुटः ।
विचारे तु स्फुटे भ्रान्तिर्ब्रह्मतामेव गच्छति ।। ४२
भ्रान्तिस्त्वसत्या वस्त्वेव प्रेक्षयातो न लभ्यते ।
शशश्रृङ्गवदत्यच्छमतो ब्रह्मैव शिष्यते ।। ४३
अनादिमध्यान्तमनन्तमच्छं
समं शिवं शाश्वतमेकमेव ।
सर्वां जरामोहविकारभार-
भ्रान्तिं विमुच्याम्बरभावमेहि ।। ४४
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० निर्वा० उ० सत्यार्थोपन्यासयोगो नाम त्रयस्त्रिंशः सर्गः ।। ३३ ।।