योगवासिष्ठः/प्रकरणम् ६ (निर्वाणप्रकरणस्य उत्तरार्धम्)/सर्गः ०३६


षट्त्रिंशः सर्गः ३६
श्रीवसिष्ठ उवाच ।
चमत्कुर्वन्त्यथानर्था आवर्ता इव वारिणि ।
एकस्वभावाः सकला यथा वारितरङ्गकाः ।। १
सर्वस्यैवास्य विश्वस्य निर्ज्ञेयज्ञेयरूपिणी ।
परमाकाशतारूपं परोपशमसंश्रया ।। २
बालचिन्ता पुरोव्योम्नि न किंचिदपि मे यथा ।
तथेदं तत्त्वतो विश्वं सत्यं तु शिशुचेतसि ।। ३
अरूपालोकमननं शिलापुत्रकसैन्यवत् ।
रूपालोकमनस्कारा भान्ति केवात्र विश्वता ।। ४
रूपालोकमनस्कारा सारश्चिन्मात्रतां विना ।
न लभ्यतेऽसावपरं व्योमेवात्र क्व विश्वता ।। ५
विदो वित्त्वं जगद्भ्रान्तिरवित्त्वं तु न विभ्रमः ।
वित्त्वावित्त्वे त्वदायत्ते चित्ताचित्ते यथा तव ।। ६
परमाकाशरूपत्वाच्चिद्व्योम्नो वितताकृतेः ।
न स्वभावविपर्यासः कश्चित्संभवति क्वचित् ।। ७
तन्मयस्यास्य विश्वस्य न स्वभावविकारिता ।
विद्यते प्रेक्ष्यमाणापि किमु सास्य भविष्यति ।। ८
सर्वं चिद्व्योम चैवेदं न सत्त्वमहमित्यपि ।
विकाराद्यस्ति न ज्ञप्तावज्ञप्तिं न लभेत्क्वचित् ।। ९
सर्वं शान्तं शिवं शुद्धं त्वमहंतादिविभ्रमम् ।
न किंचिदपि पश्यामि व्योमजं काननं यथा ।। १०
संविदाकाशशून्यत्वं यत्तद्विद्धि वचो मम ।
इदं त्वत्संविदाकाशे स्वयमात्मनि तिष्ठति ।। ११
पदमाहुः परं सद्यदनिच्छोदयमासितम् ।
पाषाणपुरुषस्येव चित्रस्थस्येव चासनम् ।। १२
स विश्रान्तमना मौनी यस्य प्रकृतकर्मसु ।
स्पन्दो दारुनरस्येव विगतेच्छमनाकुलम् ।। १३
अन्तःशून्यं बहिःशून्यं विरसं गतवासनम् ।
जगद्वेणोरिव ज्ञस्य जीवतो भाति जीवनम् ।। १४
यस्य न स्वदते दृश्यमदृश्यं स्वदते हृदि ।
सबाह्याभ्यन्तरं शान्तः स वितीर्णो भवार्णवात्।। १५
उच्यन्तां शब्दजालानि वंशवद्गतवासनम् ।
रसेनानङ्गलग्नेन प्रकृतानन्यचोदनैः ।। १६
स्पृश्यन्तां स्पर्शनीयानि यथाप्राप्तान्यवासनम् ।
कूटागारवदक्षुब्धमनिच्छममनोदयम् ।। १७
स्वाद्यन्तां रसजालानि विगतेच्छाभयैषणम् ।
अपरागाभिलषणं यथाप्राप्तानि दर्विवत् ।। १८
दृश्यन्तां रूपजालानि पुनः प्राप्तान्यवासनम् ।
अरसं निर्मनोमानमगर्वं चित्रनेत्रवत् ।। १९
जिघ्र्यन्तां गन्धपुष्पाणि विगतेच्छमवासनम् ।
स्पन्दबन्धोपलग्नानि त्यागाय वनवातवत् ।। २०
इति चेद्विरसत्वेन बोधयित्वा चिकित्सिताः ।
न भोगरोगास्तद्वच्च शान्त्यै नास्ति कथैव च ।। २१
यः स्वादयन्भोगविषं रतिमेति दिने दिने ।
सोऽग्नौ स्वमूर्ति ज्वलिते कक्षमक्षयमुज्झति ।। २२
निरिच्छत्वं समाधानमाहुरागमभूषणाः ।
यथा शाम्येन्मनोऽनिच्छं नोपदेशशतैस्तथा ।। २३
इच्छोदयो यथा दुःखमिच्छाशान्तिर्यथा सुखम् ।
तथा न नरके नापि ब्रह्मलोकेऽनुभूयते ।। २४
इच्छामात्रं विदुश्चित्तं तच्छान्तिर्मोक्ष उच्यते ।
एतावन्त्येव शास्त्राणि तपांसि नियमा यमाः ।। २५
यावती यावती जन्तोरिच्छोदेति यथा यथा ।
तावती तावती दुःखबीजमुष्टिः प्ररोहति ।। २६
यथा यथेच्छा तनुतां याति जन्तोर्विवेकतः ।
तथा तथोपशाम्यन्ति दुःखचिन्ताविषूचिकाः ।। २७
यथा यथेच्छा घनतां याति लोकस्य रागतः ।
तथा तथा विवर्धन्ते दुःखचिन्ताविषोर्मयः ।। २८
इच्छा चिकित्स्यते व्याधिर्न स्वयत्नौषधेन चेत् ।
तदत्र बलवन्मन्ये विद्यते नौषधान्तरम् ।। २९
इच्छोपशमनं कर्तुं यदि कृत्स्नं न शक्यते ।
स्वल्पमप्यनुगन्तव्यं मार्गस्थो नावसीदति ।। ३०
यस्त्विच्छातानवे यत्नं न करोति नराधमः ।
सोऽन्धकूपे स्वमात्मानं दिनानुदिनमुज्झति ।। ३१
दुःखप्रसवशालिन्या बीजमिच्छैव संसृतेः ।
सम्यग्ज्ञानाग्निदग्धा सा न भूयः परिरोहति ।। ३२
इच्छामात्रं हि संसारो निर्वाणं तदवेदनम् ।
इच्छानुत्पादने यत्नः क्रियतां किं वृथाभ्रमैः ।। ३३
शास्त्रोपदेशगुरवः प्रेक्ष्यन्ते किमनर्थकम् ।
किमिच्छाननुसंधानसमाधिर्नाधिगम्यते ।। ३४
यस्येच्छाननुसंधानमात्रे दुःसाध्यता मतेः ।
गुरूपदेशशास्त्रादि तस्य नूनं निरर्थकम् ।। ३५
इच्छाविषविकारिण्यामन्त एव नृणामलम् ।
दुःखप्रसरकारिण्या हरिण्या जन्म जङ्गले ।। ३६
न बालीक्रियते त्वीषदात्मज्ञानाय चेदसौ ।
इच्छोपशान्तिः क्रियतां तयालं तदवाप्यते ।। ३७
निरिच्छतैव निर्वाणं सेच्छतैव हि बन्धनम् ।
यथाशक्ति जयेदिच्छां किमेतावति दुष्करम् ।। ३८
जरामरणजन्मादि करञ्जखदिरावलेः ।
बीजमिच्छा सदैवान्तर्दह्यतां शमवह्निना ।। ३९
यतो यतो निरिच्छत्वं मुक्ततैव ततस्ततः ।
यावद्गति यथाप्राणं हन्यादिच्छां समुत्थिताम् ।। ४०
यतो यतश्च सेच्छत्वं बन्धपाशास्ततस्ततः ।
पुण्यपापमया दुःखराशयो विततार्तयः ।। ४१
इच्छानिरासरहिते गते साधोः क्षणेऽपि च ।
दस्युभिर्मुषितस्येव युक्तमाक्रन्दितुं चिरम् ।। ४२
यथा यथास्य पुंसोऽन्तरिच्छा समुपशाम्यति ।
तथा तथास्य कल्याणं मोक्षाय परिवर्धते ।। ४३
आत्मनो निर्विवेकस्य यदिच्छापरिपूरणम् ।
संसारविषवृक्षस्य तदेव परिषेचनम् ।। ४४
हृद्वृक्षजाः स्वसुखदुःखकुबीजकोशौ
वैरादिवाश्रयकृतादशुभाच्छुभाच्च ।
आसाद्य दुष्कृतकृशानुशिखाः शितान्ता
इच्छाश्छमच्छमिति पुंस्पशुमादहन्ति ।। ४५
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषु निर्वाणप्रकरणे उत्तरार्धे संसारबीजकथनं नाम षट्त्रिंशः सर्गः ।। ३६ ।।