योगवासिष्ठः/प्रकरणम् ६ (निर्वाणप्रकरणस्य उत्तरार्धम्)/सर्गः ०३९


एकोनचत्वारिंशः सर्गः ३९
श्रीवसिष्ठ उवाच ।
संजाताकृत्रिमक्षीणसंसृतिप्रत्ययः पुमान् ।
असंकल्पो न संकल्पं वेत्ति तेनासदेव सः ।। १
श्वासान्म्लानिरिवादर्शे कुतोऽप्यहमिति स्थिता ।
विदि साऽकारणं दृष्टा नश्यन्त्याशु न लभ्यते ।। २
यस्य क्षीणावरणता शान्तसर्वेहतोदिता ।
परमामृतपूर्णात्मा सत्तयैव स राजते ।। ३
सर्वसंदेहदुर्ध्वान्तमिहिकामातरिश्वना ।
भाति भास्वद्धिया देशस्तेन पूर्णेन्दुनेव खम् ।। ४
विसंसृतिर्विसंदेहो लब्धज्योतिर्निरावृतिः ।
शरदाकाशविशदो ज्ञेयो विज्ञायते बुधः ।। ५
निःसंकल्पो निराधारः शान्तः स्पर्शात्पवित्रताम् ।
अन्तःशीतल आधत्ते ब्रह्मलोकादिवानिलः ।। ६
असद्रूपोपलम्भानामियं वस्तुस्वभावता ।
यत्स्वर्गवेदनं स्वप्नवन्ध्यापुत्रोपलम्भवत् ।। ७
अविद्यमानमेवेदं जगद्यदनुभूयते ।
असद्रूपोपलम्भस्य सैषा वस्तुस्वभावता ।। ८
असत्येष्वेव संसारेष्वास्तामर्थः कुतो भवेत् ।
सर्गापवर्गयोः शब्दावेव वन्ध्यासुतोपमौ ।। ९
जगद्ब्रह्मतया सत्यमनिर्मितमभावितम् ।
अनिष्ठितं चान्यथा तु नाहं नावगतं च तत् ।। १०
आत्मस्वभावविश्रान्तेरियं वस्तुस्वभावता ।
यदहंतादिसर्गादिदुःखाद्यनुपलम्भता ।। ११
क्षणाद्योजनलक्षान्तं प्राप्ते देशान्तरे चितः ।
चेतनेऽयस्य तद्रूपं मार्गमध्ये निरञ्जनम् ।। १२
अस्पन्दवातसदृशं खकोशाभासचिन्मयम् ।
अचेत्यं शान्तमुदितं लताविकसनोपमम् ।। १३
सर्वस्य जन्तुजातस्य तत्स्वभावं विदुर्बुधाः ।
सर्गोपलम्भो गलति तत्रस्थस्य विवेकिनः ।। १४
सुषुप्ते स्वप्नधीर्नास्ति स्वप्ने नास्ति सुषुप्तधीः ।
सर्गनिर्वाणयोर्भ्रान्ती सुषुप्तस्वप्नयोरिव ।। १५
भ्रान्तिवस्तुस्वभावोऽसौ न स्वप्नो न सुषुप्तता ।
न सर्गो न च निर्वाणं सत्यं शान्तमशेषतः ।। १६
भ्रान्तिस्त्वसन्मात्रमयी प्रेक्षिता चेन्न लभ्यते ।
शुक्तिरूप्यमिवासत्यं किल संप्राप्यते कथम् ।। १७
यन्न लब्धं च तन्नास्ति तेन भ्रान्तेरसंभवः ।
स्वभावादुपलम्भोन्यो नास्ति कस्य न कस्यचित् ।।१८
स्वभाव एव सर्वस्मै स्वदते किल सर्वदा ।
अनानैव हि नानेव किं वादैः संविभाव्यताम् ।। १९
अस्वभावे महद्दुःखं स्वभावे केवलं शमः ।
इति बुद्ध्या विचार्यान्तर्यदिष्टं तद्विधीयताम् ।। २०
सूक्ष्मे बीजेऽस्त्यगः स्थूलो दृष्टमित्युपपद्यते ।
शिवे मूर्ते जगन्मूर्तमस्तीत्युत्तमसंकथा ।। २१
रूपालोकमनस्कारबुद्धयहन्तादयः परे ।
स्वरूपभूताः सलिले द्रवत्वमिव खात्मकाः ।। २२
मूर्तो यथा स्वसदृशैः करोत्यवयवैः क्रियाः ।
आत्मभूतैस्तथा भूतैश्चिदाकाशमकर्तृ सत् ।। २३
आत्मस्थादहमित्यादिरस्मदादेरसंसृतेः ।
शब्दोऽर्थभावमुक्तो यः पटहादिषु जायते ।। २४
यद्भातं प्रेक्षया नास्ति तन्नास्त्येव निरन्तरम् ।
जगद्रूपमरूपात्म ब्रह्म ब्रह्मणि संस्थितम् ।। २५
येषामस्ति जगत्स्वप्नस्ते स्वप्नपुरुषा मिथः ।
न सन्ति ह्यात्मनि मिथो नास्मास्वम्वरपुष्पवत् ।। २६
मयि ब्रह्मैकरूपं ते शान्तमाकाशकोशवत् ।
वायोः स्पन्दैरिवाभिन्नैर्व्यवहारैश्च तन्मयि ।। २७
अहं तु सन्मयस्तेषां स्वप्नः स्वप्नवतामिव ।
ते तु नूनमसन्तो मे सुषुप्तस्वप्नका इव ।। २८
तैस्तु यो व्यवहारो मे तद्ब्रह्म ब्रह्मणि स्थितम् ।
ते यत्पश्यन्ति पश्यन्तु तत्तैरलमलं मम ।। २९
अहमात्मनि नैवास्मि ब्रह्मसत्तेयमातता ।
त्वदर्थं समुदेतीव तथारूपैव वागियम् ।। ३०
अविरुद्धविरुद्धस्य शुद्धसंविन्मयात्मनः ।
न भोगेच्छा न मोक्षेच्छा हृदि स्फुरति तद्विदः ।। ३१
स्वभावमात्रायत्तेऽस्मिन्बन्धमोक्षक्रमे नृणाम् ।
कदर्थनेत्यहो मोहाद्गोष्पदेऽप्युदधिभ्रमः ।। ३२
स्वभावसाधने मोक्षेऽभावोपशमरूपिणि ।
न धनान्युपकुर्वन्ति न मित्राणि न च क्रियाः ।। ३३
तैलबिन्दुर्भवत्युच्चैश्चक्रमप्पतितो यथा ।
तथाशु चेत्यसंकल्पे स्थिता भवति चिज्जगत् ।। ३४
जाग्रति स्वप्नवृत्तान्तस्थितिर्यादृग्रसा स्मृतौ ।
तादृग्रसाहंत्वजगज्जालसंस्था विवेकिनः ।। ३५
तेनैवाभ्यासयोगेन याति तत्तनुतां तथा ।
यथा नाहं न संसारः शान्तमेवावशिष्यते ।। ३६
यदा यदा स्वभावार्कः स्थितिमेति तदा तदा ।
भोगान्धकारो गलति न सन्नप्यनुभूयते ।। ३७
मोहमहत्तारहितः
स्फुरति मृतौ भवति भासते च तथा ।
बुद्ध्यादिकरणनिकरो
यस्माद्दीपादिवालोकः ।। ३८
इत्यार्षे श्रीवा० वाल्मीकीये दे० मो० नि० उत्तरार्धे वसिष्ठगीतासु स्वभावविश्रान्तियोगोपदेशो नामैकोनचत्वारिंशः सर्गः ।। ३९ ।।