योगवासिष्ठः/प्रकरणम् ६ (निर्वाणप्रकरणस्य उत्तरार्धम्)/सर्गः ०४२


द्विचत्वारिंशः सर्गः ४२
श्रीवसिष्ठ उवाच ।
चित्तवत्कचनं शान्ते यत्तत्तस्मान्न भिद्यते ।
अव्याकृतामलतया क्वाऽतः सर्गादिसंभवः ।। १
चित्तदीपे गते यान्ति भ्रान्तिवद्भान्ति खे स्थिते ।
रूपालोकमनस्कारसंविदोऽम्बुद्रवोर्मयः ।। २
निरस्तकरणापेक्षं मरुतः स्पन्दनं यथा ।
यथा विसरणं भासस्तथा जगदिदं परे ।। ३
द्रवत्वमिव कीलाले शून्यत्वमिव चाम्बरे ।
स्पन्दत्वं मरुतीवेदं किमप्यात्ममयं परे ।। ४
महाचिति महाकाशे यदिदं भासते जगत् ।
तच्चित्त्वमेव कचति निर्मलत्वं मणाविव ।। ५
यथा द्रवत्वं पयसि यथा शून्यत्वमम्बरे ।
यथा प्रस्पन्दनं वायौ महाचिति तथा जगत् ।। ६
वेत्ति वायुर्यथा स्पन्दं तथा वेत्ति जगच्चितिः ।
न द्वैतैक्यादिभेदानां मनागप्यत्र संभवः ।। ७
अविवेकविवेकाभ्यां भासुरं भङ्गुरं जगत् ।
बोधे सदैव सद्रूपमभासुरमभङ्गुरम् ।। ८
ज्ञप्तिमात्रादृते शुद्धादादिमध्यान्तवर्जितात् ।
नान्यदस्तीह निर्णीतं महाचिन्मात्ररूपिणः ।। ९
तत्कस्यचिच्छिवं शान्तं कस्यचिद्ब्रह्म शाश्वतम् ।
कस्यचिच्छून्यतामात्रं कस्यचिज्ज्ञप्तिमात्रकम् ।। १०
तदनन्तात्म चिद्रूपं चेत्यतामिव भावयत् ।
स्वसंस्थमेव ज्ञेयत्वमज्ञत्वमिव गच्छति ।। ११
चित्तया नास्ति सत्ता च चित्तता नास्ति तां विना ।
विना विना यथा वायोर्यथा स्पन्देषु कारणम् ।। १२
तथा महाचितोच्छायाः सर्गसंवित्तिवृत्तिषु ।
नित्यं सत्त्वमसत्त्वं वा हेतोरन्यानपेक्षणात् ।। १३
इत्यत्रार्थोऽभविष्यत्स द्वित्वैकत्वास्तितावशात् ।
कोऽत्र कल्पयिता द्वित्वमेकत्वं वा महाम्बरे ।। १४
विष्वग्विश्वमपारैकपरमाकाशकोशता ।
यथा स्पन्दानिलद्वित्वं शाब्दमेव न वास्तवम् ।। १५
विश्वविश्वेश्वरद्वित्वं तथैवासन्मयात्मकम् ।
सदेवासंभवद्द्वित्वं महाचिन्मात्रकं च यत् ।। १६
विश्वाभासं तदेवेदं न विश्वं सन्न विश्वता ।
देशकालादिमत्त्वेन कदाचिद्धेम्नि सत्यता ।। १७
कटकत्वस्य भिन्नस्य विश्वस्य च तथा परे ।
द्वित्वैक्यासंभवे चात्र कार्यकारणता कुतः ।। १८
स्याच्चेत्तत्कल्पनामात्रमेवैतन्नान्यवस्तुता ।
शून्यता नभसीवात्र द्रवत्वमिव चाम्भसि ।। १९
खे खलेखाप्यभिन्नेव किलास्ति जगदादिता ।
यद्रूपं ब्रह्म तद्रूपं जगत्क्वात्र द्वितैकते ।। २०
यद्रूपं व्योम तद्रूपमेवं शून्यं किलाखिलम् ।
एकात्मनि तते स्वच्छे चिन्मात्रे सर्वरूपिणि ।। २१
शिलापुत्रकसेनायां पाषाणत्व इवास्थिते ।
कार्यकारणवैचित्र्यं कथं संभवति क्व वा ।। २२
कथमव्योमता व्योम्नि द्वितीयासंभवाद्भवेत् ।
प्रतिभात्मैव भारूपो भाति सर्गो महाचिति ।। २३
पुत्रिकेवोपलोत्कीर्णा तन्मयत्वात्तदात्मिका ।
साधो यथास्थितस्यैवं बुद्ध्वा विश्वं प्रलीयते ।। २४
काष्ठमौनदशाभासं संसारमवशिष्यते ।
यथा निमीलिताक्षस्य रूपालोकमनोभ्रमः ।। २५
स्वप्ने जाग्रत्यनग्रस्थोऽप्यसन्नेवास्तिभावनात् ।
तथैवोन्मीलिताक्षस्य रूपालोकमनोभ्रमः ।। २६
स्वप्ने जाग्रत्यनग्रस्थोऽप्यसन्नेवास्तिभावनात् ।
भावनोपशमं कृत्वा शिलीभूय यथास्थितम् ।। २७
अशिलीभूतमेवान्तः स्वभावं सममास्यताम् ।
आविवेकोपहारेण यथाप्राप्तार्थपूजनैः ।। २८
बोधाय पूज्यतां बुद्ध्या स्वभावः परमेश्वरः ।
विवेकपूजितः स्वात्मा सद्यः स्फारवरप्रदः ।। २९
रुद्रोपेन्द्रादिपूजात्र जरत्तृणलवायते ।
विचारशमसत्सङ्गबलिपुष्पैकपूजितः ।। ३०
सद्योमोक्षफलः साधो स्वात्मैव परमेश्वरः ।
सत्यालोकनमात्रैकपूजितोऽनुत्तमार्थदः ।। ३१
यत्रास्त्यात्मेश्वरस्तत्र मूढः कोऽन्यं समाश्रयेत् ।
सत्सङ्गशमसंतोषविवेकापूजितात्मनः ।। ३२
शिरीषकुसुमायन्ते शस्त्राहिविषवह्नयः ।
देवार्चनतपस्तीर्थदानान्यतिकृतान्यपि ।। ३३
भस्मायन्ते निरर्थत्वादविवेकामहात्मनाम् ।
एतान्यपि विवेकेन क्रियन्ते सफलानि चेत् ।। ३४
विवेक एव तत्कस्मात्स्फुटमन्तर्न साध्यते ।
यथाभूतार्थविज्ञानाद्वासनोपरमे परे ।। ३५
यत्नो विवेकशब्दाख्यो भवत्यात्मप्रसादतः ।
तथा तथा विवेकोऽन्तर्वृद्धिं नेयः शमामृतैः ।। ३६
यथा यथा पुनः शोषमुपयाति न विभ्रमैः ।
देहसत्तामनादृत्य यथा भूतार्थदर्शनात् ।। ३७
लज्जां भयं विषादेर्ष्ये सुखं दुःखं जयेत्समम् ।
जगदादि शरीरादि नास्त्येवादौ कुतोऽद्य तत् ।। ३८
कार्यं चेत्कारणस्यैतत्तथापि ब्रह्ममात्रकम् ।
प्रतिभामात्रमेवाच्छं न तु ज्ञप्तेर्घटादि सत् ।। ३९
ज्ञानात्मिकैव प्रतिभा ज्ञप्तिरेवाखिलं जगत् ।
ज्ञप्तिरप्यात्मतत्त्वश्रीः परिज्ञातोपशाम्यति ।। ४०
ज्ञेयाभावे त्वनिर्वाच्या शिष्यते शाश्वतं शिवम् ।
अशरीराद्यविश्वात्म सर्वं शान्तमिदं ततम् ।। ४१
ज्ञानज्ञेयज्ञप्तिमुक्तं दृषन्मौनमिव स्थितम् ।
शान्तान्तःकरणाः स्वस्थाः शिलापुत्रककोशवत् ।। ४२
चलन्तश्चालयन्तश्च ज्ञरूपा एव तिष्ठत ।
अज्ञेयज्ञत्वसद्रूपाः सदसत्साररूपिणः ।। ४३
आकाशकोशविशदा भवता भवभूमयः ।
यथास्थितं च तिष्ठन्ति गच्छन्तश्च यथागतम् ।। ४४
यथाप्राप्तैककर्माणः संपद्यन्ते बुधाः परम् ।
अथवा सर्वसंत्यागशान्तान्तःकरणोज्ज्वलाः ।। ४५
एकान्तेष्वेव तिष्ठन्तु चित्रकर्मार्पिता इव ।
संकल्पशान्तौ संकल्पपुरवत्सर्वदाखिलम् ।। ४६
स्वप्नवच्च प्रबुद्धस्य सदैवास्तं गतं जगत् ।
सनेत्ररूपानुभवं जातितोऽन्ध इव भ्रमैः ।। ४७
निर्वाणं वर्णयन्नज्ञस्ताप्यतेऽन्तर्न शाम्यति ।
कल्पनांशोपदेशेन लोकोऽविद्यामयात्मना ।। ४८
येन केनचिदज्ञत्वात्कृतार्थोऽस्मीति मन्यते ।
अकृतार्थः कृतार्थत्वं जानन्मौर्ख्यविमोहितः ।। ४९
विज्ञास्यत्यकृतार्थत्वं क्षणान्तरकदर्थनैः ।
उपायं कल्पनात्मानमनुपायं विदुर्बुधाः ।। ५०
दुःखदत्वान्निमेषेण भावाभावैषणभ्रमैः ।
जगद्भ्रमं परिज्ञाय यदवासनमासितम् ।
विरसाशेषविषयं तद्धि निर्वाणमुच्यते ।। ५१
आख्यायिकार्थप्रतिभानमेत्य
संवेत्स्यचिद्वारि भराद्द्रवात्मा ।
अवेद्यचिद्रूपमशेषमच्छ
पश्यन्विनिर्वासि जगत्स्वरूपम् ।। ५२
जात्यन्धरूपानुभवानुरूपं
यदागमैर्बुद्धमबोधरूपम् ।
अधस्पदीकृत्य तदान्तरेऽस्मि-
न्बोधे निपत्यानुभवो भवाभूः ।। ५३
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषु निर्वाणप्रकरणे उ० निर्वाणोपदेशो नाम द्विचत्वारिंशः सर्गः ।। ४२ ।।