योगवासिष्ठः/प्रकरणम् ६ (निर्वाणप्रकरणस्य उत्तरार्धम्)/सर्गः ०५५


पञ्चपञ्चाशः सर्गः ५५
श्रीवसिष्ठ उवाच ।
भावाभावग्रहोत्सर्गस्थूलसूक्ष्मचराचराः ।
आदावेव हि नोत्पन्नाः सर्गादौ कारणं विना ।। १
न त्वमूर्तो हि चिद्धातुः कारणं भवितुं क्वचित् ।
स्वात्मा शक्तः स मूर्तानां बीजमुर्वीरुहामिव ।। २
स्वभावमेव सततं भावयन्भावनात्मकम् ।
आत्मन्येव हि चिद्धातुः सर्वोऽनुभववान्स्थितः ।। ३
आस्वादयति यं भावं चिद्धातुर्गगनात्मकः ।
लब्धः सर्गः प्रलापेन क्षीबः क्षुब्धतया यथा ।। ४
यदा सर्वमनुत्पन्नं नास्त्येवापि च दृश्यते ।
तदा ब्रह्मैव विद्धीदं समं शान्तमसत्समम् ।। ५
चिन्नभश्चिन्नभस्येव पयसीव पयोद्रवः ।
चित्त्वात्कचति यत्तेन तदेवेदं जगत्कृतम् ।। ६

स्वप्ने तदेव जगदित्युदेति विमला यथा ।
काचकस्येव कचति तथेत्थं सादि सर्गखे ।। ७
चित्काचकस्य कचनं यथा स्वप्ने जगद्भवेत् ।
तथैव जाग्रदविधं तत्स्वमात्रमिदं स्थितम् ।। ८
आदिसर्गे हि चित्स्वप्नो जाग्रदित्यभिशब्द्यते ।
अद्य रात्रौ चितेः स्वप्नः स्वप्न इत्यपि शब्द्यते ।। ९
पूर्वप्रवृत्ता सरितां रूढाद्यापि यथास्थिता ।
तरङ्गलेखा दृष्टीनां पदार्थरचना तथा ।। १०
यथा वारितरङ्गश्रीः सरितां रचना मिता ।
तथा चिद्व्योम्नि चिद्बीजसत्तान्तःसृष्टितामिता ।। ११
मृतस्यात्यन्तनाशश्चेत्तन्निद्रासुखमेव तत् ।
भूयश्चोदेति संसारस्तत्सुखं नवमेव तत् ।। १२
कुकर्मभ्यस्तु चेद्भीतिः सा समेह परत्र च ।
तस्मादेते समसुखे सर्वेषां मृतिजन्मनी ।। १३
मरणं जीवितं वास्तु सहजे वासने तयोः ।
इति विश्रान्तचित्तोयः सोऽन्तःशीतल उच्यते ।।१४
सर्वसंवित्तिविगमे संविद्रोहति यादृशी ।
भूयते तन्मयेनैव तेनासौ मुक्त उच्यते ।। १५
अत्यन्ताभावसंवित्त्या सर्वदृश्यस्य वेदनम् ।
उदेत्यपास्तसंवेद्यं सति वाऽसति सर्गके ।। १६
यन्न चेत्यं न चिद्रूपं यच्चितेरप्यचेतितम् ।
तद्भावैक्यं गतास्तज्ज्ञाः शान्ता व्यवहृतौ स्थिताः ।। १७
चित्काचकाचकच्यं यज्जगन्नाम्ना तदुच्यते ।
अत्यच्छे परमाकाशे बन्धमोक्षदृशः कुतः ।। १८
चिन्नभःस्पन्दमात्रात्म संकल्पात्मतया जगत् ।
सद्भूतमयमेवेदं न पृथ्व्यादिमयं क्वचित् ।। १९
नेह देशो न कालोऽस्ति न द्रव्यं न क्रिया न खम् ।
सदिवाखिलमुच्छूनं वाप्यनुच्छूनमप्यसत् ।। २०
भाति केवलमेवेत्थं परमार्थघनं घनम् ।
यन्न शून्यं न वाऽशून्यमत्यच्छं गगनादपि ।। २१
साकारमप्यनाकारमसदेवातिभास्वरम् ।
अतिशुद्धैकचिन्मात्रस्फारं स्वप्नपुरं यथा ।। २२
निर्वाणमेवमिदमाततमित्थमन्त-
श्चिद्व्योम्न आविलमनाविलरूपमेव ।
नानेव न क्वचिदपि प्रसृतं न नाना
शून्यत्वमम्बर इवाम्बुनिधौ द्रवत्वम् ।। २३
इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मो० निर्वाणप्रकरणे उ० जगतः परमार्थमयत्ववर्णनं नाम पञ्चपञ्चाशः सर्गः ।। ५५ ।।