योगवासिष्ठः/प्रकरणम् ६ (निर्वाणप्रकरणस्य उत्तरार्धम्)/सर्गः ०६८


अष्टषष्टितमः सर्गः ६८

विद्याधर्युवाच ।
ततः प्राचीनमभ्यासं बोधधारणयामले ।
कुर्वः प्रकटतां तेन जगदेष्यति शैलगम् ।। १
श्रीवसिष्ठ उवाच ।
युक्तियुक्ते तयेत्युक्ते विद्याधर्या धरोरसि ।
बद्धपद्मासनोऽथाहं समाधाबुदितोऽभवम् ।। २
सर्वार्थभावनात्यागे चिन्मात्रैकान्तभावितः ।
अत्यजं तमहं पूर्वकथार्थकलनामलम् ।। ३
अथ चिद्व्योमतां प्राप्तः परां दृष्टिमहं गतः ।
शरत्समयसंप्राप्तौ व्योम निर्मलतामिव । । ४
ततः सत्यावधानैकघनाभ्यासेन देहके ।
ममाधिभौतिकभ्रान्तिर्नूनमस्तमुपागता । । ५
उदयास्तमयोन्मुक्ता सततोदयमय्यपि ।
महाचिद्व्योमतास्वच्छा प्रोदितेव तदाभवत् ।। ६
अथ पश्याम्यहं यावत्स्वस्यैवामलतेजसा ।
वस्तुतस्तु न चाकाशं नोपलः परमेव तत् । । ७
परमार्थघनं स्वच्छं तत्तथा भाति तादृशम् ।
तथाभावनया ह्यात्मा मदीयो दृष्टवांस्तथा ।। ८
यथा स्वप्ने सुमहती दृष्टा गेहगता शिला ।
व्योमैव केवलं तद्वत्सुशुद्धं चिन्नभःशिला ।। ९
स्वयं स्वप्नान्वितोऽन्यस्य स्वप्नपुंस्त्वं गतो नरः ।
स्वप्नेऽज्ञानप्रबुद्धस्य यादृक्तादृक्स्वरूपतः ।।6.2.68.१०
स्वप्नस्थानां शिरश्छिन्नं येषां ते संसृतौ स्थिताः ।
कालेन ज्ञानलाभेन विना कुर्वन्तु किं किल ।। ११
योधः कालेन भवति महामोहवतामपि ।
यस्मान्न किंचनाप्यस्ति ब्रह्मतत्त्वादृतेऽक्षयम् ।। १२
अतस्तच्चिद्धनं स्वच्छं ब्रह्माकाशं शिलाकृति ।
दृष्टं मया तथा तत्र न तु पृथ्व्यादि सत्क्वचित् ।। १३
भूतानामादिसर्गे यच्छुद्धं यत्पारमार्थिकम् ।
वपुस्तदेव ह्येतेषां ध्यानलभ्यमवस्थितम् ।। १४
ब्राह्मं वपुर्हि भूतानामात्मीयं यत्पुरातनम् ।
तदेवाद्य मनोराज्यं संकल्प इति कथ्यते ।। १५
सत्तातिवाहिको देहस्तत्परं परमार्थतः ।
प्रत्यक्षं परमं यत्तत्तदाद्यं कचनं चितः ।। १६
उद्यत्प्रथममध्यक्षं जीवस्य प्रथमं वपुः ।
मनः प्रत्यक्षमित्युक्तं तत्तेनाद्यैव दुर्धिया ।। १७
योगिप्रत्यक्षमित्युक्तं मनःप्रत्यक्षमित्यपि ।
तत्स्वमेव चितो रूपं गतमेवान्यतां मुधा ।। १८
इदमद्यतनं नाम प्रत्यक्षमसदुत्थितम् ।
असत्प्रत्यक्षमेवेति विद्धि प्रत्यक्षमङ्ग तत् ।। १९
अहो नु चित्रा मायेयं प्राक्प्रत्यक्षे परोक्षता ।
निर्णीतास्मिंस्त्वनध्यक्षे प्रत्यक्षकलनागता ।। 6.2.68.२०
आतिवाहिकदेहत्वं प्रत्यक्षं प्रथमोदितम् ।
सत्यं सर्वगतं विद्धि मायैव त्वाधिभौतिकम् ०। २१
अनुभूतापि नास्त्येव हेम्नः कटकता यथा ।
तथातिवाहिकस्याधिभौतिकत्वं न विद्यते ।। २२
भ्रममभ्रमतां यातमभ्रमं भ्रमतां गतम् ।
वेत्ति जीवो विचारेण विनाहो नु विमूढता ।। २३
आधिभौतिकदेहोऽयं विचारेण न लभ्यते ।
आतिवाहिकदेहस्तु किल लोकद्वयेऽक्षयः ।। २४
आधिभौतिकचिद्रूढा ह्यातिवाहिकदेहके ।
मरौ मरीचिकास्वेव यथा मिथ्यैव वारिधीः ।। २५
जाताधिभौतिकी संविदातिवाहिकचित्क्रमे ।
देहदृष्टिवशात्प्रौढा स्थाणौ पुरुषधीरिव ।। २६
शुक्तौ रजतता तापे जलतेन्दौ यथा द्विता ।
आधिभौतिकता तद्वन्माययैवातिवाहिके ।। २७
यदसत्तत्कृतं सत्यं यत्सत्यं तदसत्कतम् ।
अहो नु मोहमाहात्म्यं जीवस्यास्याविचारजम् ।। २८
योगिप्रत्यक्षमेवास्ति किंचिदस्ति तु मानसम् ।
यस्माल्लोकद्वयाचारस्ताभ्यामेव प्रसिध्यति ।। २९
आद्यं प्रत्यक्षमुत्सृज्य यः सत्येऽस्मिन्कृतस्थितिः ।
प्रत्यक्षे मृगतृष्णाम्बु पीत्वा स सुखमास्थितः ।। 6.2.68.३०
यत्सुखं दुःखमेवाहुः क्षणनाशानुभूतिभिः ।
अकृत्रिममनाद्यन्तं यत्सुखं तत्सुखं विदुः ।। ३१
प्रत्यक्षेणैवमध्यक्षं प्रत्यक्षं प्रविचार्यताम् ।
यदाद्यं तत्सदध्यक्षं तत्प्रत्यक्षेण दृश्यताम् ।। ३२
लोकत्रयानुभवदं त्यक्त्वा प्रत्यक्षमैहिकम् ।
मायात्मकं यो गृह्णाति नास्ति मूढतमस्ततः ।। ३३
आतिवाहिकमेवैषां भूतानां विद्यते वपुः ।
अत्राधिभौतिकव्याप्तिरसत्यैव पिशाचिका ।। ३४
अजातसंकल्पमयं प्रत्यक्षं सत्कथं भवेत् ।
स्वयमेव न यत्सत्यं तत्स्यात्कार्यकरं कथम् ।। ३५
यत्र प्रत्यक्षमेवासदन्यत्किं तत्र सद्भवेत् ।
क्व तत्सत्यं भवेद्वस्तु यदसिद्धेन साध्यते ।। ३६
प्रत्यक्ष एव भावत्वे नष्टे क्वेवानुमादयः।
उह्यन्ते वारणा यत्र तत्रोर्णायुषु का कथा ।। ३७
अतः प्रमाणसंसिद्धं दृश्यं नास्त्येव कुत्रचित् ।
अनन्यदिदमस्तीव तत्तद्ब्रह्मघनं घनम् ।। ३८
स्वप्ने द्रष्टुः खमेवाद्रिर्गृहे नान्यस्य वै यथा ।
तथा तद्भावनवतोरावयोः सा शिलैव चित् ।। ३९
अयं शैल इदं व्योम जगदेतदिदं त्वहम् ।
इति चिन्मय आत्मान्तः खं चमत्कुरुते स्वयम् ।। 6.2.68.४०
पश्यत्येतत्प्रबुद्धात्मा नाप्रबुद्धः कदाचन ।
श्रोतुः कथार्थसंवित्तिर्नाश्रोतुर्भवति क्वचित् ।। ४१
अप्रबुद्धमिति भ्रान्तिरेवेयं सत्यतां गता ।
क्षीबस्य सुस्थिरा एव नृत्यन्ति तरुपर्वताः ।। ४२
सर्वत्राप्रतिहतमेकरूपबोधं
प्रत्यक्षं शिवमनुबुध्य चित्स्वरूपम् ।
प्रत्यक्षान्तरमिह पेलवं श्रयन्ते
ये मूढास्तृणतनुभिः शठैरलं तैः ।। ४३

इत्यार्षे श्रीकसिष्ठमहारामायणे वाल्मीकीये दे०मो० नि०उ०पा० प्रमाणाप्रतिसिद्ध्या दृश्यानुपपत्तिवर्णनं नामाष्टषष्टितमः सर्गः ।।६८।।