योगवासिष्ठः/प्रकरणम् ६ (निर्वाणप्रकरणस्य उत्तरार्धम्)/सर्गः ०६९

अपूर्ण


एकोनसप्ततितमः सर्गः ६९

श्रीवसिष्ठ उवाच ।
जगदङ्गमनाभासमदृश्यं दृश्यवत्स्थितम् ।
परया दृश्यते दृष्ट्या तद्ब्रह्मैव निरामयम् ।। १
तत्र शैलसरित्स्रोतोलोकालोकान्तरभ्रमाः ।
भान्ति ते परमादर्शे महाव्योमनि बिम्बिताः ।। २
सा प्रविष्टा ततः सर्गं तमनर्गलचेष्टिता ।
अहमप्यविशं तत्र संकल्पात्मा तया सह ।। ३
यावत्सा तत्र वैरिञ्चं लोकमासाद्य सोद्यमा ।
उपविष्टा विरिञ्चस्य पुरः परमशोभना ।। ४
वक्त्ययं मुनिशार्दूल पतिर्मे पाति मामिमाम् ।
विवाहार्थमनेनाहं जनिता मनसा पुरा ।। ५
पुराणः पुरुषोऽप्येष मामप्यद्य जरागताम् ।
न विवाहितवांस्तेन विरागमहमागता ।। ६
विरागमेषोऽप्यायातो गन्तुमिच्छति तत्पदम् ।
यत्र न द्रष्टता नैव दृश्यता न तु शून्यता ।। ७
महाप्रलय आसन्नो जगत्यस्मिंश्च संप्रति ।
ध्यानान्न च चलत्येषु शैलमौनादिवाचलः ।। ८
तस्मान्मामेनमपि च बोधयित्वा मुनीश्वर ।
आमहाकल्पसर्गादौ परमे पथि योजय ।। ९
इत्युक्त्वा मामसौ तस्य बोधायेदमुवाच ह ।
नाथायं मुनिनाथोऽद्य सद्म संप्राप्तवानिदम् ।। 6.2.69.१०
एषोऽन्यस्मिञ्जगद्गेहे ब्रह्मणस्तनयो मुनिः ।
पूजयैनं गृहायातं गृहस्थगृहपूजया ।। ११
बुध्यतामर्घ्यपाद्येन पूज्यतां मुनिपुङ्गवः ।
महन्महत्सपर्याभिर्महात्मभ्यो हि रोचते ।। १२
तयेत्युक्ते महाबुद्धिर्बुबुधे स समाधितः ।
स्वसंवित्तिद्रवात्मत्वादावर्त इव वारिधौ ।। १३
शनैरुन्मीलयामास नयने नयकोविदः ।
मधुः शिशिरसंशान्ताववनौ कुसुमे यथा ।। १४
शनैः प्रकटयामासुस्तान्यङ्गान्यस्य संविदम् ।
मधुपल्लवजालानि नवानीव नवं रसम् ।। १५
सुरसिद्धाप्सरःसङ्घाः समाजग्मुः समंततः ।
यथा हंसालयो लोलाः प्रातर्विकसितं सरः ।। १६
ददर्शासौ पुरःप्राप्तं मां च तां च विलासिनीम् ।
उवाचाथ वचो वेधाः प्रणवस्वरसुन्दरम् ।। १७
अन्यजगद्ब्रह्मोवाच ।
करामलकवद्दृष्टसंसारासारसार हे ।
ज्ञानामृतमहाम्भोद मुने स्वागतमस्तु ते ।। १८
पदवीमसि संप्राप्त इमामतिदवीयसीम् ।
दूराध्वसुपरिश्रान्त इदमासनमास्यताम् ।। १९
इत्युक्ते तेन भगवन्नभिवादय इत्यहम् ।
वदन्मणिमये पीठे निविष्टो दृष्टिदर्शिते ।। 6.2.69.२०
अथामरर्षिगन्धर्वमुनिविद्याधरोदिताः ।
प्रस्तुताः स्तुतयः पूजा नतयः स्थितिनीतयः ।। २१
ततो मुहूर्तमात्रेण सर्वभूतगणोदिते ।
शान्ते प्रणतिसंरम्भे तस्योक्तं ब्रह्मणो मया ।। २२
किमिदं भूतभव्येश यदियं मामुपागता ।
वक्ति ज्ञानगिरास्मांस्त्वं बोधयेति प्रयत्नतः ।। २३
भवान्भूतेश्वरो देव सकलज्ञानपारगः ।
इयं तु काममूर्खा किं ब्रूते ब्रूहि जगत्पते ।। २४
कथमेषा त्वया देव जायार्थं जनिता सती ।
नेह जायापदं नीता नीता विरसतां कथम् ।। २५
अन्यजगद्ब्रह्मोवाच ।
मुने शृणु यथावृत्तमिदं ते कथयाम्यहम् ।
यथावृत्तमशेषेण कथनीयं यतः सताम् ।। २६
अस्ति तावदजं शान्तमजरं किंचिदेव सत् ।
ततश्चित्कचनैकान्तरूपिणः कचितोऽस्म्यहम् ।। २७